उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 37, कुल 439 में से
संदर्भ में पढ़ें१८ उत्तररामचरितं [ १-२८ सीता—हा अज्जाउत्त एत्तिअं दे दंसणम् । हा आर्यपुत्र एतावत्ते दर्शनम् । रामः—अयि विप्रयोगत्रस्ते चित्रमेतत् । सीता—जहा तहा होदु । दुज्जणो असुहं उप्पादेइ । यथा तथा भवतु । दुर्जनोऽसुखमुत्पादयति । रामः—हन्त वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति । लक्ष्मणः—अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्ये विकलकरणैरार्यचरितै- रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ २८ ॥ सीता—( साश्रमात्मगतम् । ) अयि देव रहुकुलानन्द एव्व मम कार- णादो क्लिन्तो १ आसि । अयि देव रघुकुलानन्द एवं मम कारणात्क्लान्त आसीः । लक्ष्मणः—( रामं निर्वर्ण्य साकूतम् । ) आर्य किमेतत् । ईषदिति यावत् । मन्दं मन्दं शनैः शनैः । आसक्तियोगात् अभिनिवेश- सत्त्वे । अविरलितौ मिथो नीरन्ध्रीकृतौ कपोलौ यस्मिन् कर्मणि । अनुक्रमेण मदनावेशपारवश्यात्पूर्वोत्तरसम्बन्धाभावेनेत्यर्थः । एकैकदोष्णोः परस्परभुजयोः । अविदिताः गतयामाः अतिक्रान्तप्रहरा यस्याः । रात्रिरेव व्यरंसीत् विरामा । न तु सर्वावकदेशोऽपीति भावः ॥ २७ ॥ आर्यपुत्र एतावत्ते दर्शनम् । यथा तथा वा भवतु । दुर्जनः अशुभमुत्पाद- यति ॥ अथेदं रक्षोभिरिति ॥ २८ ॥ यथानन्तरं इदमेतत् । अथेदमिति वाक्यखण्ड । वृत्तं आचरितम् । 'वृत्तमाचरितातीतपद्यचारित्रवस्तुषु' इति मेदिन्याः । क्षालितं निःशेषितमपि वृत्तमित्यनुषज्यते । शून्ये सजातीयर- हिते । विकलकरणैः विवशेन्द्रियैः । आर्यस्य रामस्य चरितैः प्रहसितर- तैरित्यर्थः । अत एव ग्रावा शैलोऽपि रोदिति प्रतिध्वनिव्याजेनेत्युक्तम् । इतोऽपि न्येत्याह—वज्रस्य कुलिशस्य । हृदयं गर्भः । दलति स्फुटति । अपिः सम्भावनायाम् । तथा च कदाचिदचलवज्रादीना माऽव (२) सान् । न तु तेषा दुरात्मनामासीदिति भावः । 'हृदयं हृदि गर्भे च' इति पद्म- माला ॥ 'हन्त रोदिति शैलोऽपि वज्रगर्भोऽपि दीर्यते । प्रकम्पतेऽपि वि- ष्ण्दण्डमण्डलं रोदनेस्तव ॥' इति महानाटके मेघनादोत्पत्तौ भगवान् यो धायनः ॥ २८ ॥ अम्हो दिनकरकुलनन्दन एतावन्मम कारणात् क्लान्त आसीत् । एतावदिति क्रियाविशेषणम् । कारणात् हेतोः । निर्वर्ण्य १ 'वन्तो ' प-घ २ 'कन्द्रितोनि' इति प-घ क.