उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 38, कुल 439 में से
संदर्भ में पढ़ें१-३०] उत्तररामचरितं १९ अयं तावद्बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन्धाराभिर्लुठति धरणीं जर्जरकणः । निरुद्धोऽप्यावेगः स्फुरदधरसापुटतया परेषांमुन्नेयो भवति च भेराध्मातहृदयः ॥ २९ ॥ राम —हन्त तत्काल प्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाञ्छया निसॊढः । दुःखानिर्मनसि पुनर्विवच्यमानो हृन्मर्मव्रण इव वेदनां करोति¹ ॥ ३० ॥ सीता—हद्धी हद्धी । अह वि अदिभूमिं गदेन रणरणएण अज्जउत्त सुण्ण विअ अत्ताणं पेक्खामि । हा धिक् हा धिक् । अहमप्यतिभूमिं गतेन रणरणकेना॑र्यपुत्रशून्यमिवात्मानं पश्यामि । लक्ष्मण—( स्वगतम् । ) भवत्वन्यत क्षिपामि । ( चित्रं विलोक्य प्रकाशम् । ) अयंतन्मन्द्वन्तरपुरातनवृत्तान्तस्य तन्त्रमस्तमातुलजटायुषश्चरित्र- विभोदाहरणम् । दृष्ट्वा ॥ अयं तावद्बाष्प इति ॥ २९ ॥ तावत् प्रस्तावरे । मुक्तामणीनां मणिनिकुरम्बानाम्, सर एकावली । मुक्तामगि पुनरुक्त इति रुचित् ॥ तन्न ॥ 'रत्नमूर्द्विशौरत्नवार्त मुक्तादिकेष्वपि च' इति अमरसिंहेनाभिधानात् 'मौक्तिकमणीत्यादि' इत्यस्याप्यातनिष्टसात्त्वभाविकायाम् । धरणी मुद्दिश्य । धरणी इति च पाठः । धरणीतनयेनेति लक्षणा । निरुद्ध आच्छा- दितोऽपि । 'आवेगो भयसम्भ्रम ' इति अमरमाला । जनेषु योग्य उन्नेयः । आध्मातं पूरित विर( क ? )²र्धित हृदय येन ॥ २९ ॥ तत्काले प्रि- यजनेति ॥ ३० ॥ स वणी काल तत्काले प्रियजनस्य सीताया तीव्रो तीक्ष्ण प्रतिकृति रावणावहाररूप प्रतीकार । निसोट मर्षित । वि- शेपेण पच्यमान हृन्मर्मत्रण हृदयमर्मच्छिद्रा । 'मर्म तु ग्रन्थिदेपयो' दति रभस ॥ ३० ॥ हा धिक् हा धिक् अहमप्यतिभूमि गतेन रणरणकेन श्वायंपुत्रशून्यमिवात्मान पश्यामि । अतिभूमि आधिक्यम् । रणरणशब्दो औत्सुक्यप्रभवकॊ देशीय । य ( प ) हद्दीती महाराष्ट्रा । 'चरित्रमपि चारित्रम्' इत्युभयरूप ॥ हा तात निष्प्यूडेन्डाइसस्नेह । निर्व्यूढ निर्वाह
१ 'डे बाष्पोप ' इति च-प २ 'निराध्मात०' इति न ३ 'तनोति' न