उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 39, कुल 439 में से
संदर्भ में पढ़ें२० उत्तररामचरितं [ १-३१ सीता—हा ताद णिव्वूढो दे अवधिसिणेहो । हा तात निर्व्यूढस्तेऽप- त्नेहः । रामः—हा तात काश्यप शकुन्तराज क्व नु खलु पुनस्त्वादृशस्य महत- स्तीर्थभूतस्य साधोः सम्भवः । लक्ष्मणः—अयमसो जनस्थानस्य पश्चिमतश्चित्रश्रवऽवाङ्गो३ दनुकव- न्धाधिष्ठितो दण्डकारण्यभागः । तदिदमृष्यमूकपर्वते मतङ्गाश्रमपदम् । इयं च श्रमणा नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसिरः । सीता—एत्थ क्खि अज्जउत्तेण विच्छिण्णामरिसधीरत्तणं पमुक्तकण्ठं रण्णं आसि । यत्र किलायंयपुत्रेण विच्छिन्नामर्षधैर्य्य प्रमुक्तकण्ठं रुदितमासीत् । रामः—देवि रमणीयमेतत्सरः । पम्पाश्लोकः एतस्मिन्मदकलमल्लिकाक्षपक्ष- व्याधूतस्फुरदुरुदण्डपुण्डरीकाः । बाष्पाम्भःपरिपतनोद्गमान्तराले सन्दृष्टाः कुवलयिनो भुवो विभागाः ॥ ३१ ॥ लक्ष्मणः—अयमार्यो हनूमान् । सीता—एषो सो चिरणिव्वूढजीवलोअपत्तुद्धरणगुरुओवआरी महाणु- भावो मारुदी । एष स चिरनिर्व्यूढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो मारुतिः । गत प्राणपर्यन्तमिति शेष ॥ तीर्थभूतस्य शुद्धप्रायस्य । जनस्थानं पश्चि- मतः जनस्थानस्य पश्चिमभागे इत्यर्थ । शबरेषु तापसी शबरीत्यर्थ ॥ यत्र किल आर्यपुत्रेण विच्छिन्नामर्षधैर्येण प्रमुक्तकण्ठं प्ररुदितमासीत् । धीर- मित्यत्र 'ई धैर्ये' इति, 'तुर्यधैर्यसौन्दर्याधैर्यपर्यन्तेषु र' इति च ईत्त्वं रत्वं च । रमणीय इति ध्वनि ॥ एतस्मिन्मदकल इति ॥ ३१ ॥ 'मलिना मलि- काक्षा' इत्यमरः । तेषा पक्षै व्याधूतानि कम्पितानि । स्फुरन्ति शोभमानानि उरुदण्डानि विपुलनालानि पुण्डरीकाणि येषु ते । बा- ष्पाम्भसां पतनोद्गयोरन्तराले अवान्तरदशायामित्यर्थ । विभागाः प्रदेशा ॥ ३१ ॥ अयमार्य इति पनि. ॥ एष स चिरनिर्व्यूढजीवलोक- प्रत्युद्धरणगुरुकोपकारो महानुभाव गुरुरेव गुरुकः स्वार्थे क । प्रत्युद्धरण- १ 'वीर्यस्य' ग-घ-क. २ 'जनस्थानपश्चिम' व-घ. ३ 'कुञ्जवान्नाम प- र्व्वतो' न. ४ 'तदिदममुष्य परिसरे' न. ५ 'सिद्धशबरी' व-घ. ६ 'मदा' न. ७ 'णिन्विण्णा' क-घ-च.