उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 55, कुल 439 में से
संदर्भ में पढ़ें३६ उत्तररामचरितं [२-५ मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ ५ ॥ वनदेवता—चित्रेमाम्नायादन्यो नूतनश्छन्दसामवतारः । आत्रेयी—तेन खलु पुनः समयेन तं भगवन्तमविर्भूतशब्दब्रह्मप्रका- शमृषिमृषिरुपसङ्गम्य भगवान् भूतभावनः पद्मयोनिरवोचत्-‘ऋषे, प्रबुद्धोऽसि वागात्मनि ब्रह्मणि तद्ब्रूह रामचरितम् । अव्याहतज्योतिराषं ते प्रतिभाचक्षुः । आद्यः कविरसि’ इत्युक्त्वा तत्रैवान्तर्हितः । अथ स भगवान्प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय । अभ्युदेरयत् उदीरयामास ॥ मा निषाद प्रतिष्ठामिति ॥ ५ ॥ निषाद व्याध । शाश्वतीः ध्रुवाः । समाः संवत्सरान्, वर्षशतमित्यर्थः । 'काला- ध्वनोः' इति द्वितीया । प्रतिष्ठां स्थितिम् । मा गमः मा गच्छ ॥ ननु 'न माङ्योगे' इति षडागमप्रतिषेधात् कथं अगम इति चेन्न । 'मा देवि दैन्यं गमः शुभमिच्छमेतत्त्वां पुष्पकं वहति यत्' इति दण्डिकाव्ये प्रयोगदर्शनान्न दोषः ॥ अथवा—अगम इत्यत्र अ इति च पदद्वयम् । तथा च मा निषाद भो व्याधेत्यर्थः । 'आहो भो हे शमप्यहमुमा रामोपनाभवो' इति वेडारः । केचित्तु—मागमं नागम इत्यर्थः । 'न ना नो नेत्यभावे स्युः' इत्यगस्त्य इत्याहुः । आर्षं तु नाक्षमर्हतीत्यन्ये पेठुः । जीवतामेव वचने दोषाश्चिन्त्य- दुचना उरीकुर्वन्ति । अन्येषां तु पुष्पोत्पाटनमपि हर्तुं नालममीति राघवौ निगमयतीति दिक् ॥ ५ ॥ आम्नायात् वेदान् । तेन प्रसिद्धेन । समयेन सदृशः । छन्दोरूपया विद्येतार्थः । उपलक्षितम् । 'समयः कालसंविदोः' इति रुद्रः । भगवन्तं माहात्म्यादिन कीर्तिमन्तं वा, भगवान् षाड्गुण्यपरि- पूर्णः । भूतान् सचराचरान् भावयति जनयतीति वा, भूतानां भावना गति- रस्मिन्निति वा भूतभावनः । 'भावस्सत्तारमवस्तुषु' इति हेमचन्द्रः । 'भावना भक्ती' इति धरणिः । यादृशी भावनेति वस्तुनिर्णयः । प्रकृष्टः शुद्ध- बोधो यस्य । वागात्मनि शब्दरूपे ब्रह्मणि इत्यनेन परं ब्रह्माऽविगमिष्य- सीति भावः ॥ 'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' इति स्मरणात् । अव्याहतं अप्रतिहतं ज्योतिः तेजः प्रसरः यस्य तत् । प्रतिभा चैव चक्षुः । 'प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा विदुः' इति प्राञ्चः । आद्यः शब्दं भव इत्यर्थः । शंभोश्च देव्याः प्रसादपात्रीकृतत्वादिति भावः । वाचः परो वा । 'वरायतनयोराद्यः' 'प्रथमञ्चेष्टयोगुरी' इत्यगस्त्यः ॥ प्रथम इति केचित् ॥ तन्न ॥ वाल्मीकेरेवाद्य कवित्वाद्वा प्रत्यक्षविरोधाद्, इदं कविभ्य इति नान्दी १ 'आम्नायादन्यत्र' न २ 'ते प्रतिभां चक्षुः' क-घ-व, 'ते चक्षुः प्रतिभातु' न