उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 56, कुल 439 में से
संदर्भ में पढ़ें२-६ ] उत्तररामचरितं ३७ वनदेवता-हन्त तर्हि मण्डितः संभारः । आत्रेयी-तस्मादेवोचं तत्र हि महानध्ययनप्रत्यूह इति। वनदेवता-युज्यते । आत्रेयी-विश्रान्तास्मि भद्रे । मंत्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि । वनदेवता-इतः पञ्चवटीमुद्दिश्य गम्यतामनेन गोदावरीतीरेण । आत्रेयी-(सानन्दम्) अप्येतत्तपोवनम् । अप्येषा पञ्चवटी । अपि सरिदियं गोदावरी । अप्ययं गिरिः प्रस्रवणः । अपि जनस्थानवनदेवता वासन्ती त्वम् । वनदेवता-तथैवे तत्सर्वम् । आत्रेयी-हा वत्से जानकि ! स एष ते वल्लभशोलिवर्गः प्रासङ्गिकीनां विषयः कथानाम् । त्वां नामशेषामपि दृश्यमानः प्रत्यक्षदृष्टामिव नः करोति ॥ ६ ॥ पदास्य गणपत्यर्थताविच्छेदापत्तेश्च ॥ न च वाच्य—'आदिकाव्यमिदं प्रोक्तं पुरा वाल्मीकिना कृतम् । यद् प्राचेतसादासीत्साक्षान्द्रामायणात्मना ॥' इत्या- दिवचनानां का गतिरिति, 'नारदं परिपप्रच्छ वाल्मीकिर्मुनिसुपुंगवम्' इति प्रश्ने- नैव नाट्यकवित्वोच्छेदात् तेषां वचनानामर्थवादपरत्वमनुसन्धेयम् । किञ्च वाल्मीकिनारदम्वाप्यायकवित्वं न समोमर्वाति, 'मुने वक्ष्याम्यहं बुद्ध्वा' इति देवैव वचनात् । तस्मात् 'वाल्मीकिना कृतम्' इत्यादीना 'अष्टादशपुराणानां कर्ता सत्यवतीसुतः' इत्यादीना वचनाना पूर्वपक्षतया दौर्बल्यात्, 'यस्य नि- श्वसितं वेदाः सेतिहासा सहागमा' इति सिद्धान्तवचनप्राबल्येन वाल्मीकि- व्यासादयः सर्वेऽपि प्रवचनकर्तार इति महान्तो निगदन्ति । शिष्यडिम्भाः किञ्चिदपि न जानीमहे वयम् । शिरोपज्ञा एवात्र प्रमाणम् । इति दिक् ॥ तथैवेति-यन प्रदेशे अवोचम् तथैवेत्यर्थः । प्रथमे वाढी । तादृशं अ- निर्वाह्यम् । विवर्तः परिणामः । 'इतिहासः पुरातनं' इत्यमरः । अवोचं अवदम् । अथांदहमिति सिद्धम् । भद्रे इति संबोधनम् । 'अपि प्रश्ने च' इति हलायुधः । तदिति-त्वया यथा तर्कितं तदेतत्सर्वं तथैवेति यावत् । अथ किमिति वाढमिति च पाठौ ॥ स एष ते इति ॥ ६ ॥ वल्लभाः प्रियाश्च ते शाखिनः वृक्षाः । यद्यपि वत्सं १ 'दण्डितः' घ-ख-न. २ 'तस्मादवोच वस्तुपेक्षाप्रास्ताव' घ. ३ 'अन्ते- दर गमेन्' क-घ-द. ४ 'बन्धुवर्गः' क-घ-च. ५ 'प्रत्यक्षदृश्याम्' क-घ-च. ४ उ०