उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 57, कुल 439 में से
संदर्भ में पढ़ें३८ उत्तररामचरितं [ २- वासन्ती-( सभयम् । स्वगतम् ) कथं नामशेषामित्याह । ( प्रकाशम् । ) आर्ये किमत्य्याहितं सीतादेव्याः । आत्रेयी-न केवलमत्य्याहितं सापवादमपि । ( कर्णे । ) एवमेवम् । वासन्ती-अहह दारुणो देवनिर्घातः । ( इति मूर्च्छति । ) आत्रेयी-भद्रे समाश्वसिहि समाश्वसिहि । वासन्ती-हा प्रियसखि हा महाभागे ईदृशस्ते निर्माणभागः । हा रामभद्र । अथवा अलं त्वया । आर्ये आत्रेयी अथ तस्मादरण्वात्परित्यज्य निवृत्ते लक्ष्मणे सीतादेव्या. किं वृत्तमिति काचिदस्ति प्रवृत्तिः । आत्रेयी-नहि नहि । वासन्ती-हा कष्टम् । आर्यारुन्धतीवसिष्ठाधिष्ठितेषु रघुकुलदम्यकेषु जी- वन्तीषु च प्रवृद्धासु राज्ञीषु कथमिदं जातम् । आत्रेयी-ऋष्यशृङ्गाश्रमे गुरुजनस्तदानीम् । संप्रति तु परिसमाप्तं तद्द्वादशवार्षिकं सत्रम् । ऋष्यशृङ्गेन च संपूज्य विसर्जिता गुरवः । ततो भगवत्यरुन्धती नाहं वधूविरहितामयोध्यां गमिष्यामीत्याह । तदेव राम- मातृभिरनुमोदितम् । तदनुरोधाद्भगवतो वसिष्ठस्य परिशुद्धा वाचो वाल्मी- कितपोवनं गत्वा तत्र वास्त्याम इति । विशेषणं ग्राह्यं, तथापि सर्वे शैला इत्यादिवदिदं समाधेयम् ॥ स्मृतस्योपेक्षा- नर्हत्वं प्रसक्तं । प्रसङ्गभवं प्रासङ्गिकं । नाम्ना नात्रि विशेष ( वा शेषाम् १ ) दृश्यमानः । मयेति शेषः । मे मह्यम् । त्वां प्रत्यक्षदृष्टामिव करोति । मे इत्यत्र न इति पाठे असभ्यमित्यर्थः । अत्र निर्वेदाद्बहुवचनत्वम् । अत एव । 'अथ तस्यान्येद्युः' इत्यासद्व्याख्याताशाकुन्तले । वल्लभः रामो वा । ते वल्लभेनेत्यत्र 'रतेर्गृहीतानु नयेन' इतिवदुपपत्तिः ॥ वनदेवतानामपरि- ज्ञानेन वासन्तीति व्यवहारः कृत इति बोध्यम् ॥ ६ ॥ अत्याहितं महा- भीतिः । अपवादः कौलीनम् । एवमिवेति-रामेण सीता परित्यक्तेत्यादि- श्रुतमुक्तमिति बोध्यम् । दैवमेव निर्घातः वज्रनिर्घोषः । भागः अंशः । अलमिति कृतमित्यर्थः । कोपखेदाभ्यामलमित्युक्तमिति भावः । 'वृत्तं चरिते' इत्यमरः । प्रवृत्तिः वार्ता ध्वनिष । आर्या च तौ अरुन्धतीवसिष्ठौ ता- भ्याम् । कुलेष्विति पूजायां बहुत्वम् । गुरवः वसिष्ठादयः । अनुरोधः अनुवर्तनम् । 'श्रद्धा त्वासक्ति' इति पद्ममाला । ध्वनिष्ट । क आचारः आचरणं यस्य किमाचारः । ऋतुराजः यज्ञश्रेष्ठः । प्रक्रान्तः आरब्धः । १ 'रघुकुलवृन्दकेषु' घ. २ 'वसिष्ठस्यापि श्रद्धा' न.