उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 65, कुल 439 में से
संदर्भ में पढ़ें४८ उत्तररामचरितं [२-२८ व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः घनीभूतः शोको विकलयति मां नूतन इव ॥ २६ ॥ तथापि तान्पूर्वसुहृदो भूमिभागान्पश्यामि । ( निरूप्य ।) अहो अनव- स्थितो भूतसन्निवेशः । तथाहि । पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ २७ ॥ हन्त परिहरन्तमपि मामितः पञ्चवटीस्नेहो५ बलादाकर्षतीव (सकरुणम्) यस्यां ते दिवसास्तया सह मया नीता यथा६ ते गृहे यत्सम्बन्धिकथाभिरेव सततं दीर्घाभिरास्थीयत । एकः संप्रति नाशितप्रियतमस्तामद्य रामः कथं पापः पञ्चवटीं विलोकयतु वा गच्छत्वसम्भाव्य वा ॥२८॥ रम्मीति ॥ २६ ॥ चिरात् बहुकालानन्तरम् । वेगः कौटिल्यम् । प्रस्रुतः व्याप्त । कुतश्चित् कस्मादपि संवेगात् सञ्भ्रमात् । अङ्गसन्धिवन्धचलः दिति यावत् । प्रचलः चञ्चलः । शल्यस्य बाणादिमुखवर्तिन अयोऽग्र (प्र२) स्येत्यर्थः । 'शल्यं शङ्कु' रित्यमरः । शकलः खण्ड । 'अणुकृणीति' (१) महाराष्ट्राः । रूढः आनुपूर्व्याय सञ्जात ग्रन्थि यस्मिन् स व्रणः स्फु- टितः विदीर्ण । हृन्मर्मणीति बाधातिशयद्योतनायोक्तम् । 'भूतं प्राप्ते च जाते च' इति शब्दमाला । विदलयति शकलयति विकलयतीति च चत्वारः पाठा ॥ २६ ॥ पूर्वसुहृद् इति भूमिभागानां विशेषणम् । इदं द्वितीयाबहु- वचनम् । पुरातनमित्राणीत्यर्थः । निरूप्य विभाव्य । भूतानां सन्निवेशः अवस्थानम् । 'भूतं क्ष्मादौ' इत्यमरस्य । सरितां प्रदेश इति शेष ॥ पुरा यत्र स्रोत इति ॥ २७ ॥ विपर्यासं वैपरीत्यम् । घनविरलभावः सान्द्र- पेलवत्वम् । 'पेलवं विरलम्' इत्यमरः । क्षितिरुहां वृक्षाणाम् । अपरं इतरत् । ब्वनिध । तदिदं अवस्थानमिति शेषः । सर्धाऽशैलानामित्यनुषङ्ग । तथा च पुरा ये स्थिता त एवैते शैला इति बुद्धिं द्रढयति दृढीकरोती- त्यर्थ ॥ २७ ॥ सकरुणमिति 'करणस्तु रसे शृङ्गे कारुण्येऽपि च' इति विश्वः ॥ यस्यां ते दिवसा इति ॥ २८ ॥ यस्यामिति यच्छब्देन १ 'पुराभूत' न २ 'मूर्छयति च' क-घ. ३ 'तथापिनानि' न. ४ 'भूमि' क-घ-घ. ५ 'पञ्चवटीस्नेहाद्' न. ६ 'पुन' घ. ७ 'सम्बन्ध' न. ८ 'तामेव' न.