उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 71, कुल 439 में से
संदर्भ में पढ़ें५४ उत्तररामचरितं [ ३-६ ( ततः प्रविशति पुष्पावचयव्यग्रा सशङ्कौत्सुक्यमाकर्णयन्ती सीता । ) सीता-अम्महे जाणामि पियसही मे वासन्दी वाहरदि । अहो जानामि प्रियसखी मे वासन्ती व्याहरति । ( पुनर्नेपथ्ये । ) सीतादेव्या स्वकरकलितैः सल्लकीपल्लवाग्रै- रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत् । सीता-किं तस्स । किं तस्य । ( पुनर्नेपथ्ये । ) वध्वा सार्धं पयसि विहरन्सोऽयमन्येन दर्पा- दुद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः ॥ ६ ॥ सीता-( ससंभ्रमम् । कतिचित्पदानि गत्वा । ) अज्जउत्त परित्ताहि परित्ताहि मह तं पुत्तअम् । ( स्मृतिमभिनीय सवैक्लव्यम् । ) हद्धी हद्धी । ताइ जेव्व चिरपरिचिदाइं अक्खराइँ पञ्चवदीदंसणेण मं मन्दभाइणिं अंणुबन्धन्ति । हा अज्जउत्त । ( मूर्च्छति । ) आर्यपुत्र परित्रायस्व परित्रा- यस्व मम तं पुत्रकम् । हा धिक् हा धिक् । तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति । हा आर्यपुत्र । प्रविश्य तमसा-वत्से समाश्वसिहि । समाश्वसिहि । ( नेपथ्ये ) विमानराज अत्रैव स्थीयताम् । क्षामं दृशम् ॥ ५ ॥ इति शुद्धविष्कम्भः ॥ औत्सुक्यं उत्कण्ठा । अहो- जानामि प्रियसखी वासन्ती व्याहरतीति । व्याहरति क्रन्दतीत्यर्थः ॥ सीतादेव्याः स्वकरैरिति ॥ ६ ॥ कलितैः दत्तैः । सल्लकी गजभक्ष्यतरुः । 'लोलः सास्र' इति कश्चित् । तस्माद् किं तस्य । वध्वा निजकरिण्या । सार्धं सह । 'चण्ड उद्दाम उद्भट' इति शब्दार्णवे । 'उद्दामस्य क्ले' इति गोवर्धनः । अभियुक्तः अभिगृहीतः । 'अभियोगस्त्वभिग्रह' इत्यमरः ॥ ॥ ६ ॥ आर्यपुत्र परित्रायस्व परित्रायस्व मम पुत्रकम् । हा धिक् हा धिक् तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति । हा आर्यपुत्र । 'पुत्रक कृत्रिमे पुत्रे' इति संसारावर्तेः । अक्खराइ इति कालिदासादिवत् कवे प्रमादः । 'अक्ष्यादिषु छ' इति गणे पठितत्वात् । 'दीने च मन्दभाग' इति त्रिकाण्डशेषः । तमसेति-अत्र पात्रासूचनं कवे प्रमाद इति केचित्, तद्रूसापङ्गन्यायानुकरणम् । 'उत्साहखेदतोषादौ पात्रासूचन' इति जयदेवोक्तेः ॥ अह्नहे जलभरभरितमेघमन्थरस्तनितगम्भी- रमासन्नः कुतो नु भारतीनिर्घोषः प्रविशन् कर्णविवरं मामपि मन्दभागिनीम्- १ 'पोषितः' व-घ. २ 'अणुरन्धन्ति' ( अनुरन्धन्ति ) व.