भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 70, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 70

ऽभिवर्तते' । तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रस- वितारं सवितारमपहतपाप्मानं देवं स्वहस्तावचितैः पुष्पैरुपतिष्ठस्व । न च त्वामवनिष्ठचारिणीमस्मत्प्रभावाद्दनदेवता अपि द्रक्ष्यन्ति किं पुनर्मर्त्याः' इति । अहमप्याज्ञापिता 'तमसे त्वयि प्रकृष्टप्रेमैव वधूर्जानकी । अतस्त्वमे- वास्याः प्रत्यनन्तरीभव' इति । साह्मधुना यथोद्दिष्टमनुतिष्ठामि । मुरला—अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि । राम- भद्रोऽप्यागत एवेति तर्कयामि । तमसा—तदियं गोदावरीह्रदान्निष्क्रम्य परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकबरीकमाननम् । करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी ॥ ४ ॥ मुरला—इयं हि सा किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिश इव घर्मः केतकीगर्भपत्रम् ॥ ५ ॥ ( इति परिक्रम्य निष्क्रान्ते । ) शुद्धविष्कम्भकः । ( नेपथ्ये । ) प्रमादः प्रमादः । मङ्गल्ये द्वादशी बन्दपूर्तिः । 'ग्रन्थिहस्तत्रपर्वणो' इति नानार्थमञ्जरी । अत एव 'वयसा द्वादशाब्दको' इति सप्तमाङ्के गर्भनाटकसन्दर्शने रामं प्रति लक्ष्मणेन वक्ष्यते । तत् तस्माद् । पुराणं पुरातनधर्माणां...मानवस्य मानवसमूहस्य । 'मानवानां तु मानव्यम्' इत्यमरः । प्रसवितारं जनकम् । उपतिष्ठस्व सेवस्व । प्रेष्ठेति ध्वति । मर्त्याः रामादय इति भाव । अत एवाग्रे—'तमसे ओसरह दाव' इति सभयं सीतया वक्ष्यते । प्रत्यनन्तरी- भव सहाया भवेत्यर्थः ॥ परिपाण्डुदुर्बलेति ॥ ४ ॥ कबरी केश- पाश ॥ ४ ॥ किसलयमिवेति ॥ ५ ॥ किसलयमिव स्थितमिति शेषः । शरीरविशेषणमेतत् । बन्धनात् वृन्तात् । दीर्घशोकः नव्यस्तं पदं मध्यवम् । १ 'अनिरुष्टते' ब. २ 'प्रत्यन्तरीभव' व. ३ 'मूर्तिरिव वा' ब.