उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 69, कुल 439 में से
संदर्भ में पढ़ें५२ उत्तररामचरित तमसा—उचितमेव दाक्षिण्यं स्नेहस्य । सञ्जीवनोपायस्तु मौलस्त्वैव¹ एवं रामभद्रस्याद्य सन्निहितः । मुरला—कथमिव । तमसा—श्रूयताम् । पुरा किल वाल्मीकिरथोपकण्ठारपरित्यज्य निवृत्ते लक्ष्मणे सीतादेवी प्राप्तप्रसववेदनमतिदुःखवेगादात्मानं गङ्गाप्र- वाहे निक्षिप्तवती । तदैव तत्र दारकद्वयं प्रसूता । भगवतीभ्यां पृथिवीभागी- रथीभ्यामभ्युपपन्ना रसातलं च नीता। स्तन्यत्यागात्परेण च दारकद्वयं तस्याँ प्राचेतसस्य महर्षेर्गङ्गादेवी स्वयमर्पितवती । मुरला—( सविस्मयम् । ) ईदृशानां विपाकोऽपि जायते परमाद्भुतः । यत्रोपकरणीभावमायात्येवंविधो जनः ॥ ३ ॥ तमसा—इदानीं तु शम्बूकवृत्तान्तेनानेन सम्भावितजनस्थानागमनं रामभद्रं सरयूममुखादुपश्रुत्य भगवती भागीरथी यदेव भगवत्या लोपामुद्रया स्नेहादाशङ्कितं तदेवाशङ्क्य सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीं विलोकयितुमागता । मुरला—सुचिन्तितं भगवत्या भागीरथ्या । राजधानीस्थितस्यस्य खलु तत्तज्जगतामाभ्युदयिके कार्यव्यासङ्गाद्रामभद्रस्य नियताश्चित्तनिक्षेपाः । अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति । तत्कथमिदानीं सीतादेव्या रामभद्र आश्वासनीयः स्यात् । तमसा—उक्तमत्र भगवत्या भागीरथ्या 'वत्से देवयजनसम्भवे सीते अद्य खल्वायुष्मतोः कुशलयवोर्द्वादशस्य जन्मसंवत्सरस्य संख्यामङ्गलग्रन्थि- गन्धान् परिमलान् । प्रेरिताः त.. पवनैरित्यर्थः ॥ २ ॥ मूलसम्बन्धी मौल्यः । मूलं सीतेति यावत् । 'मूलं पङ्क्तिनिदानयोः' इति हैमः । अस्तीति वाक्यखण्डः । अभ्युपपन्ना अनुगृहीता ॥ ईदृशानां विपाक इति ॥ ३ ॥ ईदृशानां सीताप्रमुखजनानाम् । विपाकः परिणामः 'जन्तुषु कर्मणां विपाकु' इति हनुमन्नाटके । उपकरणीभावं साधनत्वम् । एवंविधः ईदृशः । गङ्गापृथिवीप्रमुख इति यावत् ॥ ३ ॥ यतस्तो प्रमादस्थानमर्थ इति बोध्यम् ॥ अपदेशः व्याजः । आभ्युदयिकैः अभ्युदयकारिभिः । सङ्ख्या १ 'मूलत एव' न २ 'अस्ति खलु' न ३ 'तस्य' न ४ 'महादेव्या समर्पितं स्वयम्' न ५ 'शम्बूकवधवृत्तान्तेन' घ ६ '°जनस्थान' न, 'स्थानगमनं' घ. ७ 'द्वादशजन्ममंवत्सरस्य' घ, 'द्वादशसंवत्सरस्य' व.