भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 68, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 68

३-२ ] उत्तररामचरितं ५१ ॥ तृतीयोऽङ्कः ॥ ( ततः प्रविशति नदीद्वयम् । ) एका—सखि मुरले किमसि संभ्रान्तेव । मुरला—सखि तमसे प्रेरितास्मि भगवतोऽगस्त्यस्य पत्न्या लोपा- मुद्रया सरिद्वरां गोदावरीमभिधातुम् । जानास्येव यथा वधूपरित्या- गात्प्रभृति अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः । पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥ १ ॥ तेन च तथाविधेष्टजनविनिपातजन्मना प्रकृष्टतां गतेन दीर्घशोकसन्ता- नेन संप्रत्यनितरां परिक्षीणो रामभद्रः । तमवलोक्य कम्पितमिव सबन्धनं मे हृदयम् । अधुना च प्रतिनिवर्तमानेन रामभद्रेण नियतमेव पञ्चवटीवने वधूसहवासविस्रम्भसाक्षिणः प्रदेशा द्रष्टव्याः । तेषु च निसर्गधीरस्याप्येवं- विधायामवस्थायामतिगम्भीराभोगशोकक्षोभसंवेगात्पदे पदे महान्ति प्रमा- दस्थानानि शङ्कनीयानि रामभद्रस्य । तद्भगवति गोदावरि तत्र त्वया साव- धानया भवितव्यम् । वीचीवातैः शीकरक्षोदशीतै- राकर्षद्भिः पद्मकिञ्जल्कगन्धान् । मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेरितैस्तर्पयेति ॥ २ ॥ अथ तृतीयोऽङ्कः ॥ अथ वरप्रसादात्प्रत्यक्षसीताकरस्पर्शसुखं रामस्य वर्णयि- ष्यन्दू नदीद्वयसंलापेन विष्कम्भकमासूत्रयति—तत इति ॥ अनिर्भिन्नो गभीरत्वादिति ॥ १ ॥ अनिर्भिन्नः अप्रकाशः । गूढः गुर्वी । पुटपा- कस्य प्रतीकाशः उपमा यस्य । करुणः खेदनम इत्यर्थे ॥ १ ॥ इष्टजनः सीता । 'विनिपातः विलोपने च' इति रत्नकोशः । प्रकृष्टतां आधिक्यम् । सन्तानेन विस्तारेण । बन्धनेन सहितं सबन्धनम् । 'बन्धनं ग्रन्थौ' इति संसारावर्त्तः । 'उराचि गाठ' इति महाराष्ट्राः । तेन दर्शनेनेत्यर्थः । आभोगः परिपूर्णता । भगवत्या पूज्यायाः ॥ वीचीवातैरिति ॥ २ ॥ १ 'अनिभिन्नगंभीरत्वाद्' ब-प. २ 'प्रकर्षंगतेन' क-ध-य; 'प्ररूढक्रन्देन' न. ३ 'सन्तापेन' क-ध. ४ एतन्नास्ति क-प-द-पुस्तकेषु, 'कुसुमबन्धनबन्धन' न. ५ 'महान्त्यत्रापि शोकस्थानानि' न. ६ 'प्रेषितैः' क-ध-व.