उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 67, कुल 439 में से
संदर्भ में पढ़ें५० उत्तररामचरितं [ २-३० ] एते ते कुहरेषु गद्गदनदद्गोदावरीवारयो मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दक्षिणाः । अन्योन्यप्रतिघातसङ्कुलचलत्कल्लोलकोलाहलै- रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः ॥३०॥ ( निष्क्रान्ता । ) पञ्चवटीप्रवेशो नाम द्वितीयोऽङ्कः । ण्डक्षोपः । उद्वेजिताः उद्वेगं प्रापिता. इत्यर्थः ॥ २९ ॥ अपि चेति ॥ एते ते कुहरेष्विति ॥ ३० ॥ ते प्रसिद्धाः कुहरेषु गुहाबिलेषु । गद्गदं यथा तथा नदन्ति गोदावरीवारीणि येषाम् । मेघैः आलम्बिताः मौलयः शिखराधोभागा येषाम् अत एव ते च ते नीलशिखराः । 'दाक्षिणात्ये च दक्षिण' इति शब्दकोशः । अन्योन्यं परस्परम् । प्रतिघातैः प्रहारैः । संकुले सङ्कीर्णे यथा तथा चलन्तः गच्छन्तश्च ते कल्लोलाः महातरङ्गाः तेषां कलकलै । 'उत्तालमुखरौ समौ' इति वैजयन्ती । गभीराणि पयांसि येषु । 'पुण्यः पूतमनेज्यो' इति विक्रमार्कः । सरित्सङ्गमाः नदीसङ्गमाः। गद्गदमिति शब्दानुकार । 'सकीर्णे सङ्कुले' इति, 'निम्नं गभीरं गम्भीरम्' इति- चामर । अत्र पूर्वतनवर्णनादस्य वनस्य महारण्यत्वं सूचितम् ॥ 'सरितो यत्र शैलाश्च तन्महारण्यमुच्यते ।' इति लीलाशुकोक्तेरित्थलमतिविस्तरेण ॥३०॥ इति महाराजपद + उत्तररामचरितसञ्जीवनाख्यटिप्पणे द्वितीयोऽङ्क समाप्त ॥ ॥ इति द्वितीयोऽङ्क ॥ १ 'मेघास्तूप' घ. २ 'दक्षिणा.' क-न. + प्रथमाङ्कटीकासमाप्तौ टीका- कारेण यदासङ्गतं कथितं तत्सर्वमत्राप्यनुसन्धातव्यम्.