उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 73, कुल 439 में से
संदर्भ में पढ़ें५६ उत्तररामचरितं [ ३-९ एतानि तानि बहुनिर्झरकन्दराणि गोदावरीपरिसरस्य गिरेस्तटानि ॥ ८ ॥ सीता—( दृष्ट्वा ) दिट्ठिआ कहं पहादचन्दमण्डलावाण्डुरपरिक्खामदु- व्वलेन आआरेण अअं णिअसोम्मगम्भीराणुभावमेत्तपच्चहिजाणिओ अज्ज- उत्तो जेव्व । भगवदि तमसे धारेहि मं । दिष्ट्या कथं प्रभातचन्द्रमण्डलापाण्डु- परिक्षामदुर्बलेनाकारेणायं निजसौम्यगम्भीरानुभावमात्रप्रत्यभिज्ञातव्य आर्य- पुत्र एव । भगवति तमसे धारय माम् । ( इति तमसामाश्लिष्य मूर्च्छति । ) तमसा—वत्से समाश्वसिहि समाश्वसिहि । ( नेपथ्ये । ) अनेन पञ्चवटीदर्शनेन अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः । उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ ९ ॥ हा प्रिये जानकि । तमसा—( स्वगतम् । ) इदं तदाशङ्कितं गुरुजनेन । सीता—( समाश्वस्य । ) हा कहं एदं । हा कथमेतत् । ( पुनर्नेपथ्ये । ) हा देवि दण्डकारण्यवासप्रियसखि विदेहराजपुत्रि । सीता—हद्धी हद्धी । मं मन्दभाइणिं वाहरिअ आमीलंतणेत्तणीलुप्पलो मुच्छिदो जेव्व । हा कहं धरणीउट्ठे णिरुद्धणिस्सामणीसहं विपरहत्थो । त्यर्थः । तान्येतानीत्यन्वयः । गोदावरीं परितः सरति व्याप्नोति गोदावरी- परिसरः । तटानीति प्रमाद् 'तटो भृगु' इत्यमरसिंहेनाभिधानात् । अत एव । 'तीरे तटोऽस्त्री पुंस्येव भृगौ' इति शब्दमाला । दिष्ट्या कथं प्रभात- चन्द्रमण्डलपरिक्षाम धूसरेणाकारेणायं निजसौम्यगम्भीरानुभावमात्रप्रत्यभि- ज्ञातव्य आर्यपुत्र एव । भगवति तमसे धारय माम् ॥ आकारेण आकृत्या उपलक्षित । 'स्वके नित्ये निजम्' इत्यमर । 'अनुभावः प्रभाव ॥ अन्तर्लीनस्य दुःखाग्नेरिति ॥ ९ ॥ उद्दामं उद्भटं यथा तथा । धूम- स्योत्पीडः । 'कलिकाङ्कुरयो' इति मकुटः । 'अज्ञानभ्रममूर्च्छादौ मोह' इति कपिलः । प्राक् आदी ॥ ९ ॥ गुरुजनेन लोपामुद्रयेति पूर्वोक्तमूह्यम् । विदेहेति ध्वनि । हा धिक् हा धिक् । मां मन्दभागिनीं व्याहृत्य मीलन्नेत्र- नीलोत्पलो मूर्च्छित एव । हा कथं धरणीपृष्ठे निरुद्धनिःसहनिश्वास पतितः । 'समौ निःसहदुःसहौ' इति निकाण्डशेषः । विप्रलब्ध इति पाठे वञ्चित १ 'मथोद्दाम' घ. २ 'तावद्' न. ३ 'जनेनापि' य-घ.