भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 77, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 77

घेण दंसणेण केरिसी' मे हिअभवावत्था । भगवति तमसे तया निष्कारणपरि- त्यागिनोऽप्येतस्यैवंविधेन दर्शनेन कीदृशी मे हृदयावस्था । तमसा—जानामि वत्से जानामि । तटस्थं नैराश्यादपि च कलुषं विप्रियवशा- द्वियोगे दीर्धेऽस्मिञ्झटिति घटनात्स्तम्भितमिव । प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं द्रवीभूतं प्रेम्णा तव हृदयमस्मिन्क्षण इव ॥ १३ ॥ रामः—देवि प्रसाद इव मूर्तस्ते स्पर्शः स्नेहाईशीतलः । अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनि ॥ १४ ॥ सीता—एदे क्खु ते अगाधमाणसंदंसिदसिणेहसंभारा आणन्दणिस्स- न्दिणो सुहामआ अज्जउत्तस्स उल्लावा । जाणे पच्चएण णिकारणपरिच्चाअ- सल्लिदोवि बहुमदो मह जम्मलाहो । एते खलु तेऽगाधमानसदर्शितस्नेहस- म्भारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः । येषां प्रत्ययेन निष्कारणपरित्यागशलितोऽपि बहुमतो मम जन्मलाभः । वर्णयति ॥ तटस्थं नैराश्यादिति ॥ १३ ॥ नैराश्यात् निराशत्वात् । तटस्थं उदासीनम् । विप्रियं परित्याग । तद्वशात् । कलुषं आविलम् । झटिति सहसा । घटनात् निष्फलसम्बन्धादपि । स्तम्भितं संजातस्त- म्भम् । 'स्तम्भो जडीभावे' इति नन्ददधि ( ? ।) तस्य रामस्य । करुण- रसैः । गाढकरुणं भृशदयम् । क्षणे कालविशेषे । द्रवीभूतमिव । हृदयं एक सदपि परित्यागतानानावस्थं वर्तत इति भावः ॥ १३ ॥ प्रसाद इव मूर्त इति ॥ १४ ॥ मूर्तः मूर्तिमान् । स्नेहाद्वैत्वत्र सन्धिसङ्कटं घटनात् स्तम्भित इव क्षन्तव्यम् । आनन्दयति तोषयति । नन्दिनीति कवेरचा- तुर्यम् । तथापि नन्दयतीति धातुबलादवान्तरभेद ऊह्यः । नन्दिनी प्रथ- मैकवचनम् । नन्दिनी त्वं पुन क्ववासि इत्यर्थः । पुनश्शब्दो वाक्यालङ्कारे । नन्दिनि इति सम्बोधन इति केचित् । तन्न । देवीति सम्बोधनरयैव प्राद्य- स्यात् ॥ १४ ॥ एवे खलु ते अगाधमानसदर्शितस्नेहसम्भवाः आनन्दनिष्य- न्दिनः सुधामया आर्यपुत्रस्यालापा । येषा प्रत्ययेन निष्कारणपरित्यागश- १ 'कीदिसो विअ मे हिअआणुबन्धोत्ति ण आणामि' ( कीदृश इव मे हृदयानु- बन्ध इति न जानामि) क-ख-घ. २ 'घटनोत्तम्भितमिव' घ-घ. ३ 'अद्याप्योऽ ह्लादयति' घ-घ. ४ 'नन्दिनि' क-घ-न-व. ५ 'अगाधदसिद' क-घ-घ.