उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 78, कुल 439 में से
संदर्भ में पढ़ें३-१४] उत्तररामचरितं ६१ रामः-अथवा कुतः प्रियतमा । नूनं सङ्कल्पाभ्यासपाटवोपादान एव रामभद्रस्य भ्रमः । - (नेपथ्ये) अहो महान्प्रमादः प्रमादः । ('सीतादेव्याः सकरकलितैः' इत्यर्धं पठ्यते ।) रामः-(सकरुणौत्सुक्यम् ।) किं तत् । (पुनर्नेपथ्ये । 'वध्वा सार्धं' इत्युत्तरार्धं पठ्यते ।) सीता-को दाणिं अहिटंविस्सइ । क इदानीमभियोक्ष्यते । रामः-क्वासौ क्वासौ दुरात्मा यः प्रियायाः पुत्रकं वधूट्वितीयमभिभ- वति । (इत्युत्तिष्ठति ।) प्रविश्य सम्भ्रान्ता । वासन्ती-केयं देवो रघुनन्दनः । सीता-कहं पिअसही मे बामन्ती । कथं प्रियसखी मे वासन्ती । वासन्ती-जयतु जयतु देवः । रामः-(निरूप्य ।) कथं देव्याः प्रियसखी वासन्ती । वासन्ती-देव त्वर्यतां त्वर्यताम् । इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवतीर्य सम्भावयतु देव्याः पुत्रकं देवः । सीता-हा ताद जडाओ सुण्णं तुए विणा इदं जणहाणम् । हा तात जटायो शून्यं त्वया विनेदं जनस्थानम् । रामः-अहह हृदयमर्मच्छिदः खल्वमी कथोद्घाताः । वासन्ती-इत इतो देवः । स्यतोऽपि बहुमतो जन्मलाभः । सम्भवः उत्पत्तिः शल्यतः शल्यादपि । तथा च ईदृशशल्यनिवारणाय शरीरपातोऽस्तु, एतादृशप्रियवदनायोपभोगाय पुनर्न्जन्मलाभोऽस्त्विति सीताया भाव इति बोध्यम् ॥ सङ्कल्पस्यावभासे भासने यत् पाटवं सामर्थ्यं तदेव उपादानं साधकतमं यस्य, 'करणं सा- धकतममुपादानं' इति विक्रमार्कः । उपादानमिति ध्वनिः । विभ्रमः सीता- सम्बन्धरूपो विलास इत्यर्थः ॥ 'प्रमादोऽनवधानता' इत्यमरः । क इदानी- मभिभविष्यति । कथं प्रियसखी मे वासन्ती । जटायुरित्यदन्तोऽपि शब्दः 'जटायुषु जटायुवत्' इति लिङ्गनिर्णयः । हा तात जटायो शून्यं त्वया जनस्थानम् । मर्मं छिन्दन्ति मर्माच्छिदः । 'उपोद्घात उदाहारः' इति, १ 'पाटवोत्पादितः' घ; 'पाटवोत्पादः' च. २ 'अभिजुञ्जइ' (अभिजुञ्जे) न. ३ 'देव त्वरंतां त्वर्यताम्' इति न. ४ 'जटायुशिखरिदक्षिणेन' व; 'जटायुगिरि' घ. ६ उ०