भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 79, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 79

सीता—भववदि सचं जेव्व वणदेवदा वि म न पेक्खन्ति । भगवति सत्यमेव वनदेवता अपि मां न प्रेक्षन्ते । तमसा—अयि वत्से सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिनीदेव्या- स्तत्किमित्याशङ्कसे । सीता—उदो अणुसरम्ह । ततोऽनुसराव । ( इति परिक्रामति । ) रामः—भगवति गोदावरि नम॑स्ते । वासन्ती—( निरूप्य । ) देव मोदस्व विजयिना वधूटितीयेन देव्याः पुत्रकेण । रामः—विजयतामायुष्मान् । सीता—अम्महे ईंदिसो मे पुत्तओ संवुत्तो । अहो ईदृशो मे पुत्रकः संवृत्तः । रामः—हा देवि दिष्ट्या वर्धसे । येनोद्गच्छद्बिसकिसलयस्निग्धदन्ताङ्कुरेण व्याकृष्टस्ते सुतनु लवलीपल्लवः कर्णमूलात् । १ सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता यत्कल्याणे वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥ सीता—अविउत्तो दाणिं अअं दीहाउ इमाए सोम्मदंसणाए होदु । अवियुक्त इदानीमय दीर्घायुरनया सौम्यदर्शनया भवतु । रामः—सखि वासन्ति पश्य पश्य कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन । उद्घात इति पाठे 'उद्घात आरम्भ' इति चामरः ॥ भगवति सर्वथा वन- देवता अपि मां न द्रक्ष्यन्ति । ऐश्वर्यं वनदेवतामाहात्म्यमिति यावत् । मन्दाकिन्याः भागीरथ्या 'गङ्गा मन्दाकिनी भागीरथी च वियदापगा' इति रत्नमाला । ततोऽनुसराव । अञ्चहे ईदृशो मे पुत्रकरसंवृत्तः ॥ येनो- द्गच्छदिति ॥ १५ ॥ उद्गच्छत् उदयच्च तत् बिसं मृणालं तदेव किस- लयम्, तद्वत् स्निग्धो मसृणः दन्ताङ्कुरः यस्य । किसलयमिति पदं ब- र्हिमांक्ष्ण्यमानसूचकम् । लवलो 'राय आवळी' इति महाराष्ट्राः । कर्ण- मूलात् धवखोरादिभागात् । ध्वनिश्च । तस्य कल्याणस्य करुण्यनुवर्तना- दिरूपस्य इत्यर्थ ॥ १५ ॥ अयि पुत्र इदानीं दीर्घायुरनया सौम्यदर्शनया करिण्या सह भवतु । अयीति वासन्तीं प्रति सम्बोधनम् । वत्सेन करि- १ 'कर्णपूरात्' घ-प.