भारतकोश
संग्रह पर लौटें

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

सीता—भववदि सचं जेव्व वणदेवदा वि म न पेक्खन्ति । भगवति सत्यमेव वनदेवता अपि मां न प्रेक्षन्ते । तमसा—अयि वत्से सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिनीदेव्या- स्तत्किमित्याशङ्कसे । सीता—उदो अणुसरम्ह । ततोऽनुसराव । ( इति परिक्रामति । ) रामः—भगवति गोदावरि नम॑स्ते । वासन्ती—( निरूप्य । ) देव मोदस्व विजयिना वधूटितीयेन देव्याः पुत्रकेण । रामः—विजयतामायुष्मान् । सीता—अम्महे ईंदिसो मे पुत्तओ संवुत्तो । अहो ईदृशो मे पुत्रकः संवृत्तः । रामः—हा देवि दिष्ट्या वर्धसे । येनोद्गच्छद्बिसकिसलयस्निग्धदन्ताङ्कुरेण व्याकृष्टस्ते सुतनु लवलीपल्लवः कर्णमूलात् । १ सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता यत्कल्याणे वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥ सीता—अविउत्तो दाणिं अअं दीहाउ इमाए सोम्मदंसणाए होदु । अवियुक्त इदानीमय दीर्घायुरनया सौम्यदर्शनया भवतु । रामः—सखि वासन्ति पश्य पश्य कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन । उद्घात इति पाठे 'उद्घात आरम्भ' इति चामरः ॥ भगवति सर्वथा वन- देवता अपि मां न द्रक्ष्यन्ति । ऐश्वर्यं वनदेवतामाहात्म्यमिति यावत् । मन्दाकिन्याः भागीरथ्या 'गङ्गा मन्दाकिनी भागीरथी च वियदापगा' इति रत्नमाला । ततोऽनुसराव । अञ्चहे ईदृशो मे पुत्रकरसंवृत्तः ॥ येनो- द्गच्छदिति ॥ १५ ॥ उद्गच्छत् उदयच्च तत् बिसं मृणालं तदेव किस- लयम्, तद्वत् स्निग्धो मसृणः दन्ताङ्कुरः यस्य । किसलयमिति पदं ब- र्हिमांक्ष्ण्यमानसूचकम् । लवलो 'राय आवळी' इति महाराष्ट्राः । कर्ण- मूलात् धवखोरादिभागात् । ध्वनिश्च । तस्य कल्याणस्य करुण्यनुवर्तना- दिरूपस्य इत्यर्थ ॥ १५ ॥ अयि पुत्र इदानीं दीर्घायुरनया सौम्यदर्शनया करिण्या सह भवतु । अयीति वासन्तीं प्रति सम्बोधनम् । वत्सेन करि- १ 'कर्णपूरात्' घ-प.

३-१६] उत्तररामचरितं ६३ लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः । सेकः शीकरिणा करेण विहितः कामं विरामे पुन- र्यत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥ सीता—भअवदि तमसे अयं दाव ईरिसो जादो । दे उण ण जाणामि कुसलवा एत्तिपण कालेण केरिसा संवुत्तेत्ति । भगवति तमसे अय तावदीदृशो जातः । तौ पुनर्न जानामि कुशलवावेतावता कालेन कीदृशौ संवृत्ताविति । तमसा—यादृशोऽय तादृशौ तावपि । सीता—ईरिसी अहं मन्दभाइणी जाए ण केवलं णिस्सहो अज्जउत्त- विरहो पुत्तविरहो वि । ईदृशह मन्दभागिनी यस्या न केवलं निःसह आर्य- पुत्रविरहः पुत्रविरहोऽपि । तमसा—भवितव्यतेयमीदृशी । सीता—किंवा मए पसूदाए जेण तारिसवि मह पुत्तआणं ईसिणिरल- कोमलधवलदसणुंजलकवोलं अणुपद्धमुद्धकाअलीविहसिदं णिवद्धकाअसि- खण्डअं अमलमूहपुण्डरीअजुभलं ण परिचुम्बियं अज्जउत्तेण । किं वा मया प्रसूतया येन तादृशमपि मम पुत्रकयोरीषद्विरलकोमलधवलदशनोज्ज्वलंक- पोलमनुबद्धमुग्धकाकलीविहसितं निबद्धकाकशिखण्डकमलमुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण । पुनस्तेन ॥ लीलोत्खातमृणालेति ॥ १६ ॥ यत् यस्मात्कारणात् । छे- देषु भङ्गेषु । कवलार्थरूपदानविभागेषु इति यावत् । 'छेदो विभजने भङ्ग- व्वदौ' इति मङ्कटः । पुष्यच्च तत् पुष्करे इत्याग्रे वासितं सजात- वासम् । कामं यथेप्सितम् । विरामे विश्रान्तिसमये 'विश्रान्तौ च विरामे' इति नन्दी । अनरालं अवक्रम् ॥ १६ ॥ भगवति तमसे अयं तावदीदृशो जातः । तौ पुनर्न जानामि एतावता कालेन कीदृशौ संवृत्ताविति । ईदृशस्मि मन्दारिक्किनी (मन्दभागिनी ३) यस्या न केवलं निस्सह आर्यपुत्रविरहः, पुत्रविर- हश्च । किं वा मया प्रसूतया यस्या मम पुत्रयोस्तादृशमीषद्विरलद्गलितधवल- दशनोज्ज्वलितकपोलमनुबद्धमुग्धकाकलीहासितस्योज्ज्वलं मुखपुण्डरीकं न चु- म्बितमार्यपुत्रेण । विरलं यथा तथा फुल्लप्रलिते प्रसादसूचको धवलशब्दः । 'प्रसादे तु धवलता' इति समयपद्धतिः । काकलीतुरुनिहासितमिति विवेकः । 'काकली तु कले सूक्ष्मे ध्वनौ' इत्यमरः । 'मुखस्य दर्पणान्जेन्दुपु- १ 'सम्पादिता' घ. २ 'लीलातपत्रम्' घ. ३ 'दसाणुबद्धमज्जन' (दशानुबद्धमज्जन) न.

६४ उत्तररामचरितं [३-१८ तमसा—अस्तु देवताप्रसादात् । सीता—भगवदि तमसे एदिणा अवच्चमेसुमरणेण उस्ससिदपण्डुद- त्थणी दांणि वच्चाणं पितुणो संणिहाणेण खणमेत्तं संसारिणीम्हि संवृत्ता । भगवति तमसे एतेनापत्यसम्मरणेनोच्छ्वसितप्रस्रुतस्तनी इदानीं वत्सयोः पितुः संविधानेन क्षणमात्रं संसारिण्यस्मि संवृत्ता । तमसा—किमत्रोच्यते । प्रसवः खलु प्रकर्षपर्यन्तः स्नेहस्य । परं चैत- दन्योन्यसंश्लेषणं पित्रोः। अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरकोऽयमपत्यमिति बध्यते ॥ १७ ॥ वासन्ती—इतोऽपि देवः पश्यतु । अनुदिवसमवर्धयत् प्रिया ते यमचिरनिर्गतमुग्धलोलबर्हम् । मणिमुकुट इवोच्छिखः कदम्बे नदति स एष वधूसखः शिखण्डी ॥ १८ ॥ सीता—( सकौतुकस्नेहास्रम् ) एसो सो एसो सो । एष स एष सः । न्दरीकादय' इति शृङ्गारमञ्जरी । अस्तु इति युज्यतमित्यनेनानुग्रहः । भगवति तमसे एतेनापत्यसम्मरणेन उच्छ्वासितप्रस्रुतस्तनी इदानीं वत्सपितु- स्सन्निधानेन क्षणमात्रं संसारिण्यस्मि सवृत्ता । उच्छ्वसितं उद्भूतं प्रस्रुतं स्रव ययोस्तादृशौ स्तनौ यस्या । वत्सयोः कुशलवयोः । पितुः निजभर्तुः रामस्येत्यर्थः । एतेन कपिना निजं द्राविडत्वमाविष्कृतमिति बोध्यम् । क्षणेवि- क्ये प्रमादः । क्षणेति साधु । क्षणस्य अङ्ग्यादिगणे पठितत्वात् । प्रसवः सन्तान । स्नेहस्य प्रेम्ण । प्रकर्षः उत्कर्ष । पर्यन्तः अवधि यस्य । प्रसदिति प्रसव इत्यभिधेयं अपत्यमित्यर्थ । परं उत्कृष्टं वक्तुमशक्यमिति भावः । पित्रोः संश्लेषणं सुरतारम्भकं उपगूहनमिति यावत् ॥ तदेव विशि- नष्टि— ॥ अन्तःकरणतत्त्वस्येति ॥ १७ ॥ दम्पत्योः तरुणस्त्रीपुरुषयोः । अन्तःकरणमिति यत्तत्त्वं इन्द्रियं तस्य स्नेहेन प्रेम्णा सह संश्रयात् संमेलनाद्धेतोः । अयमनुभवसिद्धः । आनन्दस्य ग्रन्थिः बीजं तस्य रेक- रैचनं तदेवापत्यमित्यर्थ । तथा च दम्पत्योरन्त करणप्रेमपूर्वसभोगस्खलित- आनन्दरस एवापत्यमिति भाव । 'तत्त्वं तु ब्रह्मण इन्द्निये' इति, 'ग्रन्थिः पर्वेणि बीजे च' इति, 'उत्सर्गो रेकरेचने' इति हारावलीकपिलविक्र- मार्काः ॥ १७ ॥ अनुदिवसमवर्धयदिित ॥ १८ ॥ यं शिखण्डिनम्। १ 'ताणं अ' क-च; 'ताणं च' घ. २ 'प्रसृष्ट' ब. ३ 'घटयते' न. ४ 'अल- ङ्गसमदताण्डवोल्लसत्वान्तषदमचिरोद्गतमुग्धलोलबर्हः' घ-द.

३-२१ ] उत्तररामचरितं ६५ रामः—मोदस्व वत्स मोदस्व । सीता—एव्वं होदु । एवं भवतु । रामः—भ्रमिषु कृतपुटान्तमण्डलावृत्तिचक्षुः- प्रचलितचटुलभ्रूताण्डवैर्मण्डयन्त्या । करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सलेन स्मरामि ॥ १९ ॥ हन्त तिर्यञ्चोऽपि परिचयमनुरुध्यन्ते । कतिपयकुसुमोद्गमः कदम्बः प्रियतमया परिवर्धितोऽयमासीत् । सीता—(निरूप्य सास्रम् ।) सुट्ठु पच्चहिआणिदं अज्जउत्तेण । सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण । रामः—स्मरति गिरिमयूर एष देव्याः स्वजन इवात्र यतः प्रमोदमेति ॥ २० ॥ वासन्ती—अत्र तावदासनपरिग्रहं करोतु देवः । (राम उपविशति ।) वासन्ती— नीरन्ध्रबालकदलीवनमध्यवर्ति कान्तासखस्य शयनीयशिलातलं ते । अत्र स्थिता तृणमदार्द्रदृशो यदेभ्यः सीता ततो हरिणकैर्न विमुच्यते स्म ॥ २१ ॥ मनेति ध्वनिः । मकुटेनि भ्रान्तः पाठः । 'अमकुडादिषु' इति प्राकृतव्याकरणे वररुचिज्ञासनाद् मुकुटेति साधुः । शिखावला कदम्ब्ये नीपवृक्षे ॥ एष स वत्सेति मयूरं प्रति संबोधनम् ॥ भ्रमिषु कृतपुटेति ॥ १९ ॥ भ्रमिषु भ्रमणेपु । कृतपुटान्तः नेत्रकोशान्तरे यासां मण्डलानां मण्डलाकारैर्हि- ण्डानाम् । आवृत्तिः पौनःपुन्यं तादृशं यच्चक्षुः नेत्रं तेन सह प्रचलिता कम्पिता या चतुला चतुरा भ्रूः तस्याः ताण्डवैः दृष्टिरूपैः नर्तनैः कर- गेन । एकपदमेतत् । त्वां मण्डयन्त्या भूषयन्त्या । आवृत्तीति चतुरिति च पदद्वयं विशेषणविशेष्यरूपं कर्म । ताण्डवैर्मण्डयन्त्येति वार्थः ॥ अनुरु- ध्यन्ते अनुवर्तन्ते । यमेतिध्वनिः । सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण । देव्याः इतीदं मातृः स्मरतीतिवदुपपन्नम् ॥ कतिपयकुसुमेति ॥ २० ॥ यतः यस्माद् ॥ २० ॥ नीरन्ध्रबालेति ॥ २१ ॥ प्रथमचरणमेकपदम् । 'तृणाया- १ 'कृतचक्षुः' घ, 'मण्डलावृत्ति चक्षु.' ग. २ 'य आसीद्' घ-च. ३ 'दत्त- ऽनेन कदली०' क-घ-च. ४ 'वनगोचरैस्स्मः' म-टी

रामः-इदं तावदशक्यमेव द्रष्टुम् । ( इत्यन्यतो रुदन्नुपविशति । ) सीता-सहि वासन्दि किं तुए किदं अज्जउत्तस्स मह अ एवं दंसअ- न्तीए। हद्धी हद्धी । सो जेव्व अज्जउत्तो तं जेव्व पञ्चवटीवणं सा जेव्व पियसही वासन्दी दे जेव्व विविहविस्सम्भसक्खिणो गोदावरीकाणणुद्देसा दे जेव्व जादणिव्विसेसा मिगपक्खिपादवा सा जेव्व चाहम् । मह उण मन्द- भाइणीए दीसन्तं वि सव्वं जेव्व एदं णत्थि त्ति सा ईरिसो जीवलोअस्स परिणामो संवुत्तो। सखि वासन्ति किं त्वया कृतमार्यपुत्रस्य मम चैतद्दर्शय- न्त्या । हा धिक् हा धिक् । स एवार्थपुत्रस्तदेव पञ्चवटीवनं सैव प्रियसखी वासन्ती त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशास्त एव जातनिर्वि- शेषा मृगपक्षिपादपा सैव चाहम् । मम पुनर्मन्दभाग्योया दृश्यमानमपि सर्वमे- वैतन्नास्तीति तदीदृशो जीवलोकस्य परिणाम संवृत्त' । वासन्ती-सखि सीते कथं न पश्यसि रामभद्रस्यावस्थाम् । नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं सततमपि नः स्वेच्छादृश्यो नवो नव एव यः । विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः ॥ २२ ॥ सीता-पेक्खामि सहि पेक्खामि । प्रेक्षे सखि प्रेक्षे । तमसा-पश्यन्ती प्रियं भूयाः । सीता-हा देव्व एसो मए विणा अहं वि एदेण विणेत्ति सिविणेवि वनगोचरा' इति कपिला । ततः अनन्तरम् । हरिणकैः बालहरिणै । न विमुच्यते स्म न विमुक्ता ॥ २१ ॥ वासन्ति किं त्वया कृतं आर्यपुत्राय ममैतद्दर्शयन्त्या । हा धिक् हा धिक्, स एवार्थपुत्र, तदेव पञ्चवटीवनम्, सैव प्रियसखी वासन्ती, त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशाः, त एव जातनिर्विशेषा मृगपक्षिण । मम पुनर्मन्दभागिन्याः दृश्यमानमपि सर्वमेवैतन्नास्ति । ईदृशो जीवलोकस्य परिणामस्संवृत्त । एतत् शिलातल- मित्यर्थ । जातः निर्विशेषः अस्मतसाधारण्य येषु । निर्भया इति भाव ॥ नवकुवलय इति ॥ २२ ॥ ददत् वितरन् । ददन् इति वोडपि यन्नाम । विकलानि असमर्थानि करणानि इन्द्रियाणि यस्य । परि अन्तर्बहिश्च । तथापि स्वभावादिति शेष ॥ २२ ॥ पश्यामि सखि पश्यामि । प्रियं प- श्यन्ती भूयाः इत्यन्वय । हा दैव एष मया विना अहमपि एतेन विनेति १ 'परिवत्तो' ( परिवर्त्त: ) क-घ-च. २ 'कुवलयदल' क-घ-म. ३ 'ददौ' घ-म. ४ 'ते' च-प्र. ५ 'नव नवमेव य.' घ-छ. ६ 'पाण्डुः सोय'- घ-घ. ७ 'पश्य प्रिय भूय:' न.

३-२४] उत्तररामचरितं ६७ केण मंमाविदं आसी । ता मुहुत्तमेत्तं जम्मन्ररादो विअ लद्धेदंसणं बाहस- लिलन्तरेपु पेक्खामि दाव वच्छलं अज्जउत्तम् । (इति पश्यन्ती स्थिता ।) हा देव एप मया विना अहमन्येतेन विनेति स्वप्नेपि केन सम्भावितमासीत् । तन्मुहूर्त्तमात्रं जन्मान्तरादिव लब्धदर्शनं बाष्पसलिनान्तरेषु प्रेक्षे तावद्वत्सल- मार्यपुत्रम् । तमसा-(परिष्वज्य साश्रम् ।) विलोलितमतिपूरैर्बाष्पमानन्दशोक- प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा । स्रपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः ॥ २३ ॥ वासन्ती-ददतु तरवः पुष्पैर्घ्यं फलैश्च मधुश्च्युतः स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः । कलमरिरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः ॥ २४ ॥ रामः-एहि सखि वासन्ति मन्वितः स्थीयताम् । वासन्ती-(उपविश्य साश्रम् ।) महाराज अपि कुशलं कुमारलक्ष्मणस्य । स्वप्नेऽपि केन संभाविनासीत् । तत्सन्मुहूर्तमपि जन्मान्तरतोऽपि लब्धिस- रणीयदर्शनं बाष्पसल्लिनान्तरेषु पश्यामि तावद्वत्सलमार्यपुत्रम् । केन संभा- वितं न केनापीत्येकोऽर्थः । केन ब्रह्मणा संभावितमित्यन्योऽर्थः । 'शे ब्रह्मा' इत्येकाक्षरः । सलिलानामन्तरेषु अमृतप्तिदृशासु । 'अन्तर प्रा- गभावादौ' इति ससारार्त. ॥ विलोलितमतिपूरैरिति ॥ २३ ॥ विलोलितं विशेषेण तरङ्गितम् । आनन्दशोकाभ्यां दर्शनपरित्यागजन्मभ्यामित्यर्थः । पक्ष्मला पक्ष्मनिबिडा उत्ताना चासौ दीर्घा । 'निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये' इत्यमरः । हृदयेशं रामम् । 'मधुरमङ्गलः' इति रत्नमाला । 'कुल्या कृत्रिमा सरित्' इत्यमरः ॥ २३ ॥ ददतु तरवः पुष्पैश्चेति ॥ २४ ॥ मधूनि च्युतानि एभ्यस्तैः फलैः । 'अर्धंयुष्फलादिभिः' इति स्मृतेः । आमोदानां परिमलानां प्रायो भूमा येषु । अविरलं सान्द्रम् । १ 'अनुत्दृदंसना' ध., 'दुल्लहदंस०' न. २ 'तुष्पलोत्तान' च-घ. ३ 'र- ड्ढ' घ-व. ४ 'रत्युत्कण्ठाः' प-घ.

६८ उत्तररामचरितं [ ३-२६ रामः—( अश्रुतिमभिनीय । ) करकमलवितीर्णैरम्बुनीवारशष्पै- स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत् । भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्तरोद्भेदयोग्यः ॥ २५ ॥ वासन्ती—महाराज ननु पृच्छामि अपि कुशलं कुमारलक्ष्मणस्येति । रामः—( आत्मगतम् । ) अये महाराजेति निष्प्रणयमामन्त्रणपदं सौमित्रिमात्रे च बाष्पस्खलिताक्षरः कुशलप्रश्नः । तया मन्ये विदित- सीतावृत्तान्तेयमिति । ( प्रकाशम् । ) भद्रे कुशलं कुमारस्य । वासन्ती—( रुदती । ) अयि देव १किं परं दारुण एवासि । सीता—सहि वासन्दि किं तुमं एव्वंवादिणी होसि । पिओरहो क्खु सव्वस्स अज्जउत्तो विसेसदो मह पिअसहीए । सखि वासन्ति किं त्वमेवंवा- दिनी भवसि । पूजार्हः खलु सर्वस्यार्यपुत्रो विशेषतो मम प्रियसख्याः । वासन्ती—त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे । इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमिहोत्तरेण ॥ २६ ॥ ( इति मूर्च्छति । ) तमसा—६स्थाने बाष्पनिवृत्तिर्मोहश्च । रज्यत्कण्ठाः । फलं मधुरस्फुटं यथा तथा फणन्तु ॥ २४ ॥ करक- मलवितीर्णैरिति ॥ २५ ॥ अम्बुभिः तरुशकुनीन् वृक्षविहङ्गान् । नी- वाराः तृणधान्यानि । तेषां शष्पैः बालतृणैः कुरङ्गान् इति क्रमालङ्कारः । शष्पैरिति ध्वनिरप्यतिशिरकर इति भावः । अत एव-'गङ्गाप्रपातान्तनिषूढ- शष्पम्' इति ईश्वरकृष्णमिश्रः । विकारः ममता । प्रस्रवः इत्युपचारः । उद्भेदः उदयः ॥ २५ ॥ अपरमिति ध्वनिः ॥ सखि वासन्ति किमिति त्व- मेववादिनी । पूजार्हं खलु सर्वस्यार्यपुत्र, विशेषत पुनर्मम प्रियसख्याः ॥ त्वं जीवितं त्वमसीति ॥ २६ ॥ जीवितं जीवः । द्वितीयं स्त्रीरूपकम् । कौमुदी आनन्दयिनी । अमृतं अमरत्वसाधनम् । 'वपुष्यवयवे त्वङ्गम्' इति नन्दी । अत्र त्वच्छब्दानयमधिकम् । मुग्धां मूढां च तामेव लब्ध्वा- १ 'अनाकर्णनम्' न. २ 'प्रस्रवोद्भेद' न. ३ 'किमिति' च; 'किमिति दा- रुणो दारुणः' घ. ४ 'पूआरहो' (पूजार्हः) नं. ५ 'किमतः परेण' न. ६ 'स्थाने...मोहश्च' इत्येतद्रामवाक्यमिति च-घ.

३-२८ ] उत्तररामचरितं ६९ रामः—सखि समाश्वसिहि समाश्वसिहि । वासन्ती—( समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन । सीता—सहि वासन्दि विरम विरम । सखि वासन्ति विरम विरम । रामः—लोको न मृष्यतीति । वासन्ती—कस्य हेतोः । रामः—स एव जानाति किमपि । तमसा—विरामोपालम्भः । वासन्ती—अयि कठोर यशः किल ते प्रियं किमपयशो ननु घोरमतः परम् । किमभवद्विपिने हरिणीदृशः कथय नाथ कथं बत मन्यसे ॥ २७ ॥ सीता—तुमं जेव्व सहि वासन्दि दारुणा कठोरा अ जा एव्वं अज्जउत्तं पदिउत्तं पदीवेसि । त्वमेव सखि वासन्ति दारुणा कठोरा च यैवमार्यपुत्रं प्रदीप्तं प्रदीपयसि । तमसा—प्रजय एवं व्याहरति शोकश्च । रामः—सखि किमत्र मन्तव्यम् । प्रस्तैकेहायनकुरङ्गविलोलदृष्टे- स्तस्याः परिस्फुरितगर्भभरालसायाः । ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥ २८ ॥ नसांनि भावः ॥ २६ ॥ स्थाने युक्तम् । निवृत्तिः कुण्ठनम् । चतुर्थचरणं पूरयति–शान्तमिति । गतमित्यर्थः । अतः त्यागादपि । अन्याय्यं न्या- यादपेतम् । सखि वासन्ति विरम विरम । कस्य हेतोः केन हेतुनेत्यर्थः । ‘विस्मृतं कस्य हेतोः’ इति मुद्राराक्षसः । लज्जावशात् किमपीत्युक्तम् ॥ अयि कठोर यश इति ॥ २७ ॥ कठोर इति संबोधनम् । अतः पत्नी- त्यागात् । किं चरितमिति शेषः ॥ २७ ॥ त्वमेव सखि वासन्ति दारुणा कठोरा च या एवं विप्रलपन्ती पर्यात्तं विप्रलापयसि । विप्रलापवन्तं करोषीति यावत् । अय्यउत्तं इति शेषः । आर्यपुत्रमित्यर्थः । विप्रलापो विरोधोक्तिः, पर्यात्तं यथेप्सितम् ॥ प्रस्तैकहायनेति ॥ २८ ॥ एकहायनः । एकव- त्सर इत्यर्थः । तृतीयचरणेन विरहपाण्डिमा । कव्याद्भिः राक्षसैः । विक्षे- १ ‘तत्कस्य’ घ-च. २ ‘टचित्तसमुपा’ घ-च. ३ ‘पडवन्तं पढावेसि’ ( प्रलपन्तं प्रलापयसि ) न. ४ ‘मुग्ध’ च-प.

७० उत्तररामचरितं [३-३० सीता-अज्जउत्त धरामि एसा धरामि । आर्यपुत्र प्रिये एषा प्रिये । रामः-हा प्रिये जानकि क्वासि । सीता-हद्धी हद्धी । अण्णो विअ अज्जउत्तो पमुक्तकण्ठं रोइदि । हा धिक् हा धिक् । अन्य इवार्यपुत्रः प्रमुक्तकण्ठं रोदिति । तमसा-वत्से सांप्रतिकमेवैतत् । कर्तव्योनि खलु दुःखितैर्दुःखनिर्व्वा- पणानि । पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया । शोकक्षोभे च हृदयं प्रलापैरेव धार्यते ॥ २९ ॥ विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः । इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुममिव घर्मो म्लपयति । स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ- स्तदद्याप्युच्छ्वासो भवति ननु लाभो हि रुदितम् ॥ ३० ॥ रामः-कष्टं भो कष्टम् । येन तृप्ता ॥ २८ ॥ धरामि आर्यपुत्र धरामि । जीवामीत्यर्थः । 'द्वौ मासा- वहं धरामि दिने दिने' इति बोधायनरामायणे ॥ हा धिक् हा धिक् अन्य इवार्यपुत्र प्रमुक्तकण्ठं प्ररुदितः । प्रकृष्टं अधिकं रुदितं अस्य । अन्य इवा- र्यपुत्र इति ध्वनि । सांप्रतं इदानीम् । तत्सम्बन्धि सांप्रतिकं योग्यमिति- यावत् । 'त्रिषु सांप्रतिकं योग्यं' इति विक्रमार्कः । एतन् प्ररुदितम् । निर्वापणानि प्रमार्जनानि ॥ पूरोत्पीडे तटाकस्येति ॥ २९ ॥ पूरैः उत्पीडे उत्पीडने सति परीवाहः जलनिर्गमः । शोकेन क्षोभे सती- त्यर्थः । 'प्रलापोऽनर्थकं वचः' इत्यमरः ॥ २९ ॥ बहुप्रकारं कष्टं यस्मिन् स जीवलोकः मर्त्यभुवनम् ॥ तदेवोपपादयति-इदं विश्वं पाल्यमिति ॥ ३० ॥ विश्वं जगत् । विधिवत् यथाराजधर्मम् । पाल्यं रामेणेति शेषः । अभियुक्तेन अभितो युक्तेन न्यायकरणात् । उचितेनेत्यर्थः । जीवं असुधारणम् । रामस्येत्यनुषङ्गः । त्यागं तव सीताया इति बोध्यम् । असु- लभ इति तस्यैव अनर्थमूलकत्वादिति भावः । तत् तस्मात् । उच्छ्वास इति दुःखातिशयतः । 'श्वासो महानुच्छ्वास' इत्यमरशेषः ॥ उच्छ्वासोऽस्तु रुदिते किं फलमत आह-न्विति । रुदितं लाभो हि । तथा च रुदिते कृते दुःखस्य न्यूनतैव लाभो हि इति भावः ॥ ३० ॥ भो इति मनःप्रति १ 'निर्धारणानि' न. २ 'अवधार्यते' न. ३ 'रामभद्रस्य यस्य' क ४ 'बहुतर' क-घ-च. ५ 'म्लमयति' घ-च.

३-३३ ] उत्तररामचरितं ७१ दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसा- त्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥ सीता—एवं णेदं । एवं निवेदम् । रामः—हे भवन्तः पौरजानपदाः । न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत- स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता । चिरपरिचितास्ते ते भावाः परिद्रवयन्ति मा- मिदमशरणैरद्याक्रन्दैः प्रसीदत रुद्यते ॥ ३२ ॥ वासन्ती—( स्वगतम् । ) अतिगम्भीरमापूरणं मन्युसम्भारस्य । ( प्र- काशम् । ) देव अतिक्रान्ते धैर्यमवलम्ब्यताम् । रामः—सखि किमुच्यते धैर्यमिति । देव्या शून्यस्य जगतो द्वादशः परिवत्सरः । प्रणष्टमिव नामापि न च रामो न जीवति ॥ ३३ ॥ सबोधनम् ॥ दलति हृदयमिति ॥ ३१ ॥ 'दलति स्फुटति' इति माठरः । उद्वेगः तीव्रता । विकलं अवयवभूतम् । मोहं मूर्च्छां । चेतनां ज्ञप्तिम् । अन्तर्दाहः अवाङ्मुखसन्तापः । तनूं भस्मसात् भस्माधीनम् न करोति । विधिः दैवम् । जीवितं जीवम् । अत्र तुशब्दः पादपूरणे ॥ ३१ ॥ एव- मेतद् सत्यमिति भावः ॥ न किल भवतामिति ॥ ३२ ॥ स्थानं वासः । ततः तस्मात् । नातिशोचिता किञ्चिच्छोचितेति यावत् । अपिस्संभा- वनायाम् । पूरणे इति केचित् । ते ते विविधाः । 'भावाः सञ्चारिणः क्रियाः' इति वामनः । परि परितः द्रवयन्ति आर्दीकुर्वन्तीति यावत् । अस्मा- भिरिदमिति भवद्भिः श्रूयमाणं यथा तथैत्यर्थः । प्रसिद्धमिति केचित् । अशर- णमगतिकम् । रुद्यते प्रसीदत रोदनाय किल भवद्भिरेवावकाशो निर्मित इति भावः ॥ ३२ ॥ मन्युसंभारस्य दैन्यसामग्र्याः । आपूरणं पूर्ति । अतिक्रान्ते गते सतीत्यर्थः । कार्ये इति शेषः ॥ देव्या शून्यस्येति ॥ ३३ ॥ 'संवत्सरो वत्सरश्च परिवत्सरः' इति द्विरूपः । नाम देव्या इति शेषः । गानास्या इति वा पाठः । रामो न जीवतीति न जीवत्येवेत्यर्थः । चकारः १ 'शोकोद्वेगात्' न, 'गाढोद्वेगः' टी. २ 'तथा द्रवयन्ति' न, 'परिस्पन्दन्ति' .घ. ३ 'मद्याप्येवं' व-घ. ४ 'अवधूतः शोकसंभारस्य' व-घ, 'मन्युभारस्य' न. ५ 'तुत दीर्यते' घ.

७२ उत्तररामचरितं [३-३६ सीता-मोहिदम्हि एदेहिं अज्जउत्तवअणेहिं । मोदितास्म्येतैरायंपुत्र- वचनैः । तमसा-एवमेव वत्से । नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः । एतास्ता मधुनो धाराः क्ष्योतन्ति सविषास्त्वयि ॥ ३४ ॥ रामः-अयि वासन्ति मया खलु यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दंशः । तथैव तीव्रो हृदि शोकशनु- र्मर्माणि कृन्तन्नपि किं न सोढः ॥ ३५ ॥ सीता-एव्वं ह्मि मन्दभाइणी पुणोवि आभासभारिणी अज्जउत्तस्स एवमस्मि मन्दभागिनी पुनरप्यायासकारिणी आर्यपुत्रस्य । रामः-एवमतिनिष्कंपस्तम्भिमान्तःकरणस्यापि मम संस्तुतवेत्तप्रिय वस्तुदर्शनाद्दुर्वारोयमवेगः । तथाहि हेलोल्लोलक्षुभितकरणोज्जृम्भणस्तम्भनार्थे यो यो यत्नः कथमपि मया धीयते तं तमन्तः । भित्त्वा भित्त्वा प्रसरति बलात्कोऽपि चेतोविकार- स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥ ३६ ॥ पूरणे । नैष इति वा पाठः ॥ ३३ ॥ मोदितेवार्यपुत्रस्य प्रियवचने. ॥ नैताः प्रियतमा इति ॥ ३४ ॥ शोकदारुणतया नैताः प्रियतमाः । अत्र भ- ङ्ग्यन्तरेण निदर्शनमाह-एता इति । यद्यपि मधुनो धाराः । तथापि सविषाः क्ष्योतन्ति गलन्तीत्यर्थ ॥ ३४ ॥ धैर्यमवलम्बितमेव मयेत्याह- यथा तिरश्चीनमिति ॥ ३५ ॥ सविषः विषेण सहित अप्रदेशो यस्य सन् । सविषाप्रदेश । तिर्यग्भवं तिरश्चीनम् । अलातशल्यं अङ्गारा- प्तसंबन्धलोहाग्रं यथा अन्तः आत्मनि प्रत्युप्तम् । अत्र सविषत्वं तिरश्ची- नत्वमलाताग्निसंबन्धश्च बाधानिश्चयद्योतनायोक्त इति सूक्ष्मदृष्टिभिरूह्यम् । तथैव हृदि तीव्रः तीक्ष्ण. न सोढः किं सोढ एवेत्यर्थ ॥ ३५ ॥ एव- मस्मि मन्दभागिनी । अहं पुन पुन. आयासकारिण्यार्यपुत्रस्य । संस्तुताः परिचिताश्च ते वर्गा वृक्षादीनां वर्गा. । 'संस्तव स्यात्परिचय' इत्यमर । 'सं- स्तुता नुता.' इति कोपि बभ्राम ॥ हेलोल्लोलेति ॥ ३६ ॥ हेलया लीलया । १ 'दन्त.' न. २ 'अतिगूढ' न. ३ 'संस्तुतवहुतर' घ, 'संस्तुतप्रियव- स्तु०' न. ४ 'अपायमावेग' न-च. ५ 'लोलोल्लोल' क-घ-च, 'हेलेल्लोल' टी. ६ 'करणो०' प-टी. ७ 'समाधीयते' न. ८ 'हित्वा हित्वा' भ.

३-३७ ] उत्तररामचरितं ७३ सीता—एदिणा अज्जउत्तस्स दुव्वारदारुणारम्भेण दुक्खसंखोएण परिमु- सिअणिअदुक्खं किंपि पमुदं मे हिअअं । एतेनार्यपुत्रस्य दुर्वारदारुणारम्भेण दुःखसंक्षोभेण परिमुषितनिजदुःखं किमपि प्रमुग्धं मे हृदयम् । वासन्ती—( स्वगतम् ।) कष्टमभ्यापन्नो देवः । तदन्यतः क्षिपामि तावत् । ( प्रकाशम् ।) चिरपरिचितानिदानीं जनस्थानभागानवलोकनेन मानयतु देवः । रामः—एवमस्तु । ( इत्युत्थाय परिक्रामति । ) सीता—संदीवेण जेव्व दुक्खस्स पियसहीए विणोदणोआओ त्ति तक्केमि । संदीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि । वासन्ती—( सकरुणम् ।) देव देव अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद्गोदावरीसैकते । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरनिन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः ॥ ३७॥ सीता—दारुणासि वासन्ति दारुणासि। जा एदेहिं हिअअमम्मँगूढसह- ंसंधट्टेहिं पुणो पुणोवि मं मन्दभाहिणीं अज्जउत्तं अ संदावेसि । दारुणासि वासन्ति दारुणासि । या एतैर्हृदयमर्मगूढशल्यसंघट्टनैः पुन पुनरपि मां मन्द- भागिनीमार्यपुत्रं च सन्तापयसि । करणानां इन्द्रियाणाम् । प्रतिहतः विहत रयः वेग यस्य स । सोय- सेति जातावेकवचनम् । ओघः प्रवाहः ॥ ३६ ॥ आर्यपुत्रस्य एतेन दुर्वार- दारुणारम्भेण दुःखसंक्षोभेण प्रमुषितनिजदु खमपि किमपि प्रमुग्ध्यमिव मे हृदयम् । किमपि अनिर्वचनीयम् । प्रकर्षेण मुग्ध मूढम् । अभ्यापक्तः आपुत्कण्ठित । कष्टमझा कृच्छ्रमुदी प्राप्तवान्ध । आभोगः परिपूर्णता । सन्दीपनमेव दुःखस्य प्रियसख्या विनोदनोपाय इति मन्यये ॥ अस्मिन्नेव लतागृहे इति ॥ ३७ ॥ 'विमनायित साधुर्मनायित' इति नन्दी । अञ्जलिरिति कथनं कवेरचातुर्यम् । यैश्चाजनक्रियमाणोऽयं विलासः न तु कुलरांगना संप्रदाय । कदाचिदपराधे सति सदा पादपीडनमेवारभयन्ति- १ 'अनापन्नः' न-टी. २ 'सन्देबणाइ' (सन्दीपनानि) व-प्र. ३ 'पि- यसही विनोद...त्ति मण्णेदि' (प्रियसखी विनोदनोपाय इति मन्यते) य-प्र. ४ 'मम्मूग्गूढडिअभट्टहं' भ (मर्मोद्घाटितशल्य) । ७ उ०

७४ उत्तररामचरितं [३-३८ रामः-अयि चण्डि जानकि इतस्ततो दृश्यस इवै नानु कम्पसे । हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि। सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ ३८॥ (इति मूर्च्छति।) सीता-हद्धी हद्धी पुणोवि पमूढो अज्जउत्तो। हा धिक् हा धिक् पुन- रपि प्रमूढ आर्यपुत्र । वासन्ती-देव समाश्वसिहि समाश्वसिहि । सीता-अज्जउत्त म मन्दभाइणि उद्दिसिअ सअलजीवलोभमङ्गलांधा रस्स दे वारंवार संसइदजीवितदारुणो दसापरिणामो त्ति हा हदम्हि। (इति मूर्च्छति।) आर्यपुत्र मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमङ्गला- धारस्य ते वारंवारं संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि। तमसा-वत्से समाश्वसिहि समाश्वसिहि । पुनस्त्वत्पाणिस्पर्श एव सञ्जीवनोपायो रामभद्रस्य। तराम्, इत्युभयितरत्न । अलैरित्यनैदिकघण्टापथमन्थ (१) विशेषज्ञ प्रमाणम् ॥ ३७ ॥ या एतैर्हृदयमर्मगूढशल्यपट्टनै पुन पुनरपि मा मन्दभा गिनीमार्यपुत्राय स्मरयति ॥ हा हा देवि स्फुटतीति ॥ ३८ ॥ हाहेति वीप्सायाम् । देहशब्देनाङ्गानि लक्ष्यन्ते । तेषां बन्धः परस्परसम्बन्धः । ध्वं- सते ध्वस्तो भवति । अविरलज्वालं यथा तथा । 'मनस्यात्मनि चान्त स्स्यात्' इति रत्नमाला । तमसि भ्रमे । अन्धे गाढे सति । सीदन् ह्रिष्य मान । 'विधुरो दीन' इति शब्दार्णव । आत्मा देह । 'मूर्तिर्देह त्रि- प्वात्मा' इति हलायुध । अन्त मनसि । कत्त पश्यामीति दीक्षिताः । मोह मूर्च्छा । विष्वक् अभित । स्थगयति पुष्ठयतीति केदार । मामिति शेष । 'निमित्तार्थेऽपि च क्व' इति शब्दमाला ॥३८॥ हा धिक् हा धिक् पुन- रपि प्रमूद आर्यपुत्र । आर्यपुत्र मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमङ्ग लाधारजन्मलाभस्य ते संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि । संशयितं सम्जातसंशय जीवितं यस्मिन् दशापरिणामे । स चासौ दा- १ 'दृश्यसे नानु०' ग, 'दृश्यसे एव' घ २ 'अविरत' ग-घ ३ 'मह- त्तिजग्मलाइस्स' ( महत्त्थदामहामस्स ) ग, 'मङ्गलाधारजन्मलाभस' टी.

३-३९] उत्तररामचरितं ७५ वासन्ती-कथमद्यापि नोच्छ्वसिति। हा प्रियसखि सीते क्वासि सम्भाव- यात्मनो जीवितेश्वरम्। ( सीता ससंभ्रममुपसृत्य हृदि ललाटे च स्पृशति । ) वासन्ती-दिष्ट्या प्रत्यापन्नचेतनो रामभद्रः । रामः-आलिम्पन्नमृतमयैरिव प्रलेपै- रन्तर्वा बहिरपि वा शरीरधातून् । संस्पर्शः पुनरपि जीवयन्नकस्मा- दानन्दादपरमिवादधाति मोहम् ॥ ३९ ॥ ( आनन्दनिमीलिताक्ष एव ) सखि वासन्ति दिष्ट्या वर्धसे । वासन्ती-देव कथमिव । रामः-सखि किमन्यत् । पुनः प्राप्ता जानकी । वासन्ती-अयि देव रामभद्र क्व सा । रामः-( सशंमुखमभनीय । ) पश्य नन्विर्य पुरत एव । वासन्ती-अयि देव किमिति मर्मच्छेददारुणैरेभिः प्रलापैः प्रियसखी- दुःखदग्धामपि मां पुनर्मन्दभाग्यां दहसि । सीता-ओसरिदुं इच्छम्मि । एसो उण विरसंभावसोम्मसीदलेण अज्जउत्तप्फंसेण दीहदारुणं वि झत्ति संदावं हरन्तेण वज्जलेवोव्वेलिव्वदो रणः । दशा अवस्था । जीवितेश्वरं भर्तारम् । ध्वनिञ्च । 'जीवितेशः प्रिये यमे' इत्यमरः ॥ आलिम्पन्निति ॥ ३९ ॥ आ समन्तात् प्रकृष्टाय ते लेपाः । वाशब्दार्थेः । 'इवार्थेचार्थयोर्वा स्यात्' इति कपिल्लः । अपि- रेश्ः साकल्य पुनरुक्तौ । शरीरधातूनित्यर्थः । 'श्लेष्मादि रसस्त्रादि महा- भूतानि तद्गुणाः । इन्द्रियाण्यश्नबहिरिति शब्दयोनिष धातव' इत्यमरः । सः पूर्व कृतः । प्रसिद्धो वा । 'अकस्मात् सहार्थे ( सहसार्थे ? ) स्यात्' इति कपिलः । 'अकस्मान्' इति महाराष्ट्राः । आनन्दाद्धेतोः । न विद्यते परः यस्माद् अपरः तं मोहं पारवश्यम् । 'मोहो मूर्च्छापारवश्यतमोनैष्ट्य- भ्रमादिषु' इत्यगस्त्यः । अकस्मात् अहेतुकादानन्दान्दिति केचित् । तन । स्पर्शस्यैव सुटनहेतुत्वात् ॥ ३९ ॥ इतोऽपसरणं कर्तुमिच्छामि । एष पुनश्चि- रप्रणयसम्भावसौम्यशीतलेन आर्यपुत्रस्पर्शन दीर्घदारुणमपि झटिति सन्ता- १ 'मएसिविइ सुन्दोमि' क-च-घ. २ 'विरम्यासभामारमोन्न' ( विरच्याय- संभारमोम्य ) न; 'विरणायस्वभाव०' टी. ३ 'उठाहअन्तेण' ( उल्लाघयता ) म-टी. ४ 'लेपोत्तरो' ( लेपोत्तरः ) न-टी.

७६ उत्तररामचरितं [ ३-४० विअ सिज्जन्तजीसहविअदिरथो घेत्तव्वसीलो अवसो णिअ मे हत्थो । अपसत्तुं- मिच्छामि । एष पुन चिरसङ्गावसौम्यशीतलेन आर्य्यपुत्रस्पर्शेन दीर्घदारुणमपि

  • झटिति सन्ताप हरता वज्रलेपोपनिबद्ध इव स्तिर्य्यति सद्विपर्य्यस्तो वेपनशी- लोऽवश इव मे हस्त । रामः—मयि कुतः प्रलापाः । गृहीतो यः पूर्वं परिणयविधौ कङ्कणधरः सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः । सीता—अज्जउत्त मो जेव्व दाणि सि तुमं । आर्य्यपुत्र स एवेदानी- मसि त्वम् । रामः—स एवायं तस्यास्तुहिननिकरोपम्यसुभगो मया लब्धः पाणिललितलवलीकन्दलनिभः ॥ ४० ॥ पमुहापयना वज्रलेपोपबद्ध इव स्तिचरस्वेदनिस्सहो विप्रलप्धवेविर अवस- मिक्षो मे हस्त. । आर्यपुत्रविषवे स्पर्शेन वज्रलेपेन उपनद्धः यद्व इव स्थित । वज्रलेपेति कवनमतिदार्घ्यसूचनाय । स्वेदः निस्सहः दुस्सह येन । स्सियदित्यत्र 'स्वध्या वछना' इति जलम् । बहुकालाविषावाप्तिप्र लब्धो वभितधासी चेविरः सास्थिरभावात् कम्पनशील इत्यर्थ । देसी- योऽय शब्द । अवंसजितः सम्मीष्टत । प्रेमवशादिति भाव । अचे त्युपसर्गो रक्षणया अवधानवाचक ॥ गृहीतो यः पूर्वमिति ॥ ४० ॥ धरतीति धर कङ्कणस्य धरः । सुधाना सूतिर्यस्मात् । चन्द्रस्य पादैः किरणै अमृतं जलम् । तद्वत् शिशिरैः शीते । 'शैत्यं हि यत्स्या प्रकृ- तिर्जलस्य' इति ईश्वरकृष्णमिश्र. । 'पय कीलालममृतम्' इति । 'अमृत जलं' इति च अमरनन्दिनी । परिचितः कृतपरिचय इत्यर्थ । एतेन पाणिम्सजीवन इति व्यज्यते । आर्यपुत्र स एवेदानीमसि त्वम् । तदि- तरेति-तस्या भीताया, इतर स्पर्शकारणात्पाणेरन्य । तस्य हस्तस्य । औपम्येन दृष्टान्तेन सुभगः मनोहर । 'स्यादौपम्य तु दृष्टान्त' इति शाश्वतः । 'अनौपम्या रम्याम्' इति भगवत्पादाः । अत्र तस्या इति कथने उभयन चारिताय्यत् पुनस्तदितरेति कथन कवेरचातुर्य्यरूढ प्रमाद । 'कन्दलः कन्दगोल' इति कषिल । तस्याः पाणिः मया लब्ध. अथेति १ 'त्सियन्मेदनि सह' टी. २ 'चिर सेच्हाससी' क-प-च. ३ 'तदि- तरकरीपम्य' न-टी.

( इति गृह्णाति । ) सीता—हद्धी हद्धी । अज्जउत्तप्फंसमोहेदाए पमादो क्खु मे संवृत्तो । हा धिक् हा धिक् । आर्यपुत्रस्पर्शमोहितायाः प्रमादः खलु मे संवृत्तः । राम—मयि चापम्नि आनन्दनिमीलितेन्द्रियः स्फारस्तेन परवानस्मि । तन् तावदेनां धारय । वासन्ती—कष्टमुन्माद एव । ( सीता ससम्भ्रमं हस्तमाक्षिप्यापसर्पति । ) राम—हा धिक् प्रमादः । करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः । परिमुषितप्रकम्पी करान्मम स्विद्यतः स्विद्यन् ॥ ४१ ॥ सीता—हद्धी हद्धी । अज्जवि अत्थावत्थयदिएमिदमुद्धपुष्णन्तणअणो ण पव्वववारेइ अत्ताणअं । हा धिक् हा धिक् । अद्याप्यवस्थायितस्तिमितमूढ- पूर्णनयना न पदव्यवसायावलात्मानम् । तमसा—( सस्नेहकौतुकस्मितं निरूप्य । ) सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा । मरुन्नवाम्भःप्रविधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव ॥ ४२ ॥ क्षेपे ॥ ४० ॥ हा धिक् आर्यपुत्रस्पर्शमोहितायाः प्रमादः संवृत्तः । 'सदो ईमव सन्त्रादि माधवम् नतनीडनम् । पत्यारुत्व तपनन्दरस्कूर्तिरुन्मादवा स्त्रिया ॥ इति काव्यदीपिकायाम् । उन्माश्वनिववेत्रम । करेति ॥ ४१ ॥ जडः शिशिरः ॥ ४१ ॥ हा धिक् अवयस्थितस्तिमितभूषणाननं रिखलेवेद्म न पर्वव्यवपादान्यात्मानम् । स्तिमितः निश्चलः । निरूप्यं दृष्ट्वा ॥ सस्वेद्रोमाञ्चितेति ॥ ४२ ॥ मरुता पवनेन प्रविधूता नवाम्भसा सिक्केति कर्म । व्यर्थोऽपि प्रगन्दः पादपूरकः । कदम्बयष्टिः शापशाखा । 'विभक्तारः कोरकाणि' इति भावप्रयोगात् स्फुटानि कोरकाणि यस्या इति केचित् । तन्न, यथा जलधरपटल इत्यादिवत् कोरकाथीत्वसाधु कोरका पाठ- स्यायेव साधु । अत एव 'कोरकः पुमान्' इति, 'समूहे षण्डं न ना' इति च त्रिवेषशारदावलिठनामलिङ्गानुशासने भावत्पादानुग्रहानुकृभैरमर- सिंहोऽमणीत् ॥ ४२ ॥ अनईं ववणं न्तेने नमनाञ्जन स्नापितासि ।

७८ उत्तररामचरितं [ ३-४२ सीता-(स्वगतम्।) अम्महे अवसेण एदेण अत्ताणएण लज्जाविदम्हि भयवँदीए तमसाए। किं ति क्खु एसा मण्णिस्सदि एसो परिवादो एसो अहिसङ्गो त्ति। [अहो अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया। किमिति स्विदेषा मंस्यत एष परिवाद एषोऽभिषङ्ग इति । रामः-(सर्वतोऽवलोक्य।) हा कथं नास्त्येव। नन्वकरुणे वैदेहि। सीता-सच्चं अकरुणह्नि जा एव्वंविहं तुमं पेक्खन्ती जीवेमि जेव्व। [सत्यमकरणास्मि यैवम्विधं त्वां प्रेक्षमाणा जीवाम्येव । रामः-क्वासि देवि प्रसीद। न मामेवंविधं परित्यक्तुमर्हसि। सीता-अयि अज्जउत्त विव्वरीअं विअ एदं । [अयि आर्यपुत्र विप्रतीप- मिवैतत् । वासन्ती-देव प्रसीद प्रसीद। स्वेनैव लोकोत्तरेण धैर्येण सस्तम्भया- तिभूमिं गतमात्मानम्। कुतोऽत्र मे प्रियसखी। रामः-व्यक्तं नास्त्येव कथमन्धया वासन्त्यपि तां न पश्येत्। अपि खलु स्वप्न एष स्यात् । न चास्मि सुप्त । कुतो रामस्य निद्रा। सर्वथा स एवेष भगवाननेकवारपरिकल्पनानिर्मितो विप्रलम्भ पुन पुनरनुबध्नाति माम्। किमेषा शास्यति । एष परिवाद एषोऽभिषङ्ग इति । अम्महे खेदादिषु । अवशं पराधीनत्वम् । लज्जापिता लज्जां प्रापिता । एव मस्येत्यर्थ । मुणिस्सदीत्यत्र 'शे मुण' इति गुणादेश । परिवादः अपवाद । 'अभि- षङ्गः अभिनिवेश' इति धरणि । अकरुणतरास्मि या एवंविधमपि त्वां पश्यन्ती जीवाम्येव । पश्यन्त्येव जीवामीति च चमत्कार ॥ अयि आर्यपुत्र विप्रतीपमिवैतत् । एतत् प्रेमेति शेष । विशेषेण प्रतीपं प्रतिकूलम् । तथा च परित्यागे कृते एव पुन प्रेमानुसरणमनुचितमिति भाव । अतिभूमिं मर्या- दापरपारमिति यावत् । प्रियसखी सीता । अन्यथा सा यदि स्यात् कथं न पश्येदिति योज्यम् । सर्वथा प्रकारेण । अनेकवारं असकृत् परि- कल्पनानि सङ्कल्पविकल्पादीनि यस्मिन् स । 'विप्रलम्भस्तु वञ्चना' इति नानार्थः । विप्रलम्भस्य भगवानिति विशेषण माहात्म्यापादकम् । अत एव 'भगवति निद्रे दयस्व'इति भट्टाचार्याः । विप्रलम्भ शृङ्गारविशेष इति केचित् । विप्रयोग इत्यन्ये । उभे अपि क्षमञ्जसे ॥ 'मए एव्वं विप्पलद्धो' इत्युत्तरवाक्यविरोधात् । मयैव दारुणया एवं विप्रलब्ध आर्यपुत्र । विप्र- १ 'मुणिस्सदि' ( शास्यति ) टी. २ 'परिवाद ' टी. ३ 'विवरीद' ( विपरीत ) - क-घ-च. ४ '°भूमिगतविप्रलम्भन्' क-घ-च.

द्वितीय अङ्क: दण्डकारण्य प्रवेश (आत्रेयी संवाद)

३-४३ ] उत्तररामचरितं ७९ सीता—मए जेव्व दारुणाए विप्पलब्धो अज्जउत्तो । मयैव दारुणया वि- प्रलब्ध आर्यपुत्रः । वासन्ती—देव पश्य पश्य पौलस्त्यस्य जटायुषा निघटितः कार्ष्णायसोऽयं रथ- स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः । खङ्गच्छिन्नजटायुपक्षतिरिनः सीतां चलन्तीं वह- न्नन्तर्व्यापृतविद्युदम्बुद इव द्यामभ्युदस्त्यादरिः ॥ ४३ ॥ सीता—(सखेदम्) अज्जउत्त तादो वावादीअदि अहं वि अवहरि- जामि । हा परित्ताहि । आर्यपुत्र तातो व्यापाद्यते अहमप्यपह्रिये । तस्मात्प- रित्रायस्व । रामः—(सावेगमुत्थाय) आः पाप तातप्राणसीतापहारिन् क्व यासि । वासन्ती—अयि देव राक्षसकुलप्रलयधूमकेतो किमद्यापि ते मन्यु- विषय । सीता—अम्मो अहं वि उब्भमन्तम्हि । अहो अहमप्युद्भ्रान्तास्मि । रामः—अन्यै एवायमधुना विपर्ययो वर्तते । लब्धः वञ्चित पातिव्रत्यंमादिनेति भाव । 'विप्रलब्धस्तु वञ्चित' इत्यमरः ॥ अन्यतो दर्शयन्ती मनो विनोदयति-देवेति ॥ पौलस्त्यस्य जटायुषेति ॥ ४३ ॥ पौलस्त्यस्य रावणस्य । कृष्णाजोनय कार्ष्णायसः कृष्णायस्स- म्बन्धी वा । कृष्णं नीलं य चत् अय लोह तद्विकार इति वा । कार्ष्णायस इति कथन दाढ्यौतिशयसूचकम् । पिशाचानामिव वदनानि येषा ते । कङ्कालैः शरीरास्थिभि । शेषाः अतिशयेन कृशा इति यावत् । अत एव नलेन तावदेन एव बलिन इति परीक्ष्य ऋतुपर्णस्य रथे ह्रस्वतरा वाजिन योजिता इति महाभारते । खराः वेगादिषु तुरहाधिकाः । 'खपर' इति महाराष्ट्राः । जटायोः पक्षतिः पक्षमूलम् । 'जटायुवत्पक्षिरथो न गन्य.' इति बोधाय- नरामायणे । चलन्तीं कम्पमानाम् । अन्ततः सात्मनि । व्यापृता स्फुरन्ती विद्युत् यस्य । द्यां आकाशम् । अरिः रावण ॥४३॥ हा आर्यपुत्र तातो व्यापाद्यते । तातो जटायु. । व्यापाद्यते हन्यते । अहमपि अवहरि- जामि अपह्रिये । अपहृता भवामीत्यर्थ । परित्तायस्व परित्रायस्व । सावेगः झंझानातिशय. । प्रलयो नाशो । धूमकेतुः उत्पातविशेषः । हे तव मन्योः कोपस्य विषयः गोचर । अरिरित्यनुषज्यते । अहो उद्भ्रान्तास्मि । विपर्ययः १ 'दरनेनै' ब-घ. २ 'वलन्दो' ब-घ. ३ 'गन्तव्यांवु' क-घ-च. ४ '०केनो अद्यापि' घ-घ. ५ 'अन्यथै एवायमधुना प्रमादो वर्तते' ब-घ.

८० उत्तररामचरितं [ ३-४५ उपायानां भावादविरतविनोदव्यतिकरै- र्विमर्दैर्धीराणां जगति जनितात्यद्भुतरसः । वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् कथं तूष्णीं सह्यो निरवधिरयं त्वप्रतिविधः ॥ ४४ ॥ सीता—णिरवहित्ति हा हदम्हि मन्दभाइणी । निरवधिरिति हा हतास्मि मन्दभागिनी । रामः—हा कष्टम् । व्यर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा प्रज्ञा जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि । मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषये तत्र प्रिये क्वासि मे ॥ ४५ ॥ सीता—बहुमण्णाविद्म्हि तं पुव्वविरहं । बहुमानितास्मि तं पूर्ववि- रहम् । रामः—सखि वासन्ति दुःखायैव सुहृदामिदानीं रामस्य दर्शनम् । कि- मथिरं स्वा रोदयिष्यामि । तदनुजानीहि मां गमनाय । ब्यास ॥ उपायानां भावादिति ॥ उपायानां सामादीनां चतु- र्णाम् । भावात् अविरतं सन्ततम् विनोदव्यतिकराः कौतुक- व्यापारा येषु । 'विनोद कौतुके हास्ये' इति, 'व्यापारे मुदि सम्बन्धे योगे व्यतिकरे' इति नामार्णवशब्द्रार्णवौ । विमर्दैः सङ्ग्रामैः । रिपुघातः अवधिः अवसानं यस्य । 'वृथार्थेऽपि तूष्णीम्' इति रभसः । 'परित्याग- वियोगान्तपाता प्रविलयास्तु ता' इति केदारः ॥ ४४ ॥ निरवधिरिति हा हतास्मि । पूर्ववियोगापेक्षया आधुनिकवियोगस्य वैलक्षण्यमाह ॥ व्यर्थं यत्र कपीन्द्रेति ॥ ४५ ॥ यच्छब्दन्रयेण प्रलय परामृश्यते । अविषये अगोचरे । तत्र तस्मिन् प्रविलये इति शेषः । यनेति पञ्चधा वक्तव्ये त्रिधा कथनं प्रक्रमभङ्गः । 'न स्थातुं न पलायितुं यतितु नोन्मीलितुं नो हातुं निज- जीवितं प्रभवति' इति लीलाधरप्रयोग इव अनुग्राह्य । केचिदविषये इति पाठमाश्रित्य य इत्यध्याहारमुररीचक्रु । तत् कुरीकन्दितमिव परिहास्यम् । यनेति प्रायपाठ, प्रतीतस्य प्रातिकूल्यात् । अभिनयमधिरूम् ॥ ४५ ॥ १ 'अविरल' न. २ 'व्यतिकर' घ. ३ 'जनितवरुदत्यद्भुत०' न. ४ 'वतु' न. ५ 'तु प्रक्षिप्त' न, 'निरन्तरिदानीं तु विरह.' घ. ६ 'जाम्ब- वतो न यत्र' न ७ 'अविषय' घ. ८ 'बहुमानिदिम्हि पुव्वविरहे' न.

३-४५ ] उत्तररामचरितं ८१ सीता-( सोद्वेगमोहं तन्वनानाष्टिद्य) भअवदि तमसे गच्छदि दाणि अज्जउत्तो । ( इति मूर्च्छति ) भगवति तमसे गच्छतीदानीमार्यपुत्रः । तमसा-वत्से समाश्वसिहि समाश्वसिहि । नन्वावामायुष्मतोः कु- शलवयोर्वर्षवर्धनमङ्गलानि सम्पादयितुं भागीरथीपदान्तिकमेव गच्छावः । सीता-भअवदि पसीद । खणमेत्तं वि दाव दुल्लहदंसणं जणं पेक्खामि । भगवति प्रसीद । क्षणमात्रमपि तावद्दुर्लभदर्शनं जनं प्रेक्षे । रामः-अस्ति चेदानीमश्वमेधाय सहधर्मचारिणी मे । सीता-( सोकम्पम् ) अज्जउत्त का । आर्यपुत्र का । रामः-हिरण्मयी सीताप्रतिकृतिः । सीता-( सोच्छासाश्रुम् । ) अज्जउत्तो दाणिं सि तुमं । अम्महे उक्खा- त्तिदं दाणिं मे परित्त्यागलज्जाशल्यं अज्जउत्तेण । आर्यपुत्र इदानीमसि त्वम् । अहो उत्खातमिदानीं मे परित्यागलज्जाशल्यमार्यपुत्रेण । रामः-तत्रापि तावद्वाष्पदिग्धं चक्षुर्बिनोदयामि । सीता-धण्णा सा जा एव्वं अज्जउत्तेण बहुमण्णीअदि जा अ अज्जउत्तं विणोदअन्ती आसाणिबन्धणं जादा जीवलोअस्स । धन्या सा चैवमार्यपुत्रेण बहु मन्यते या चार्यपुत्रं विनोदयन्त्याशानिबन्धनं जाता जीवलोकस्य । तमसा-( सस्मितस्नेहास्रं परिष्वज्य । ) अयि वत्से एवमात्मा स्तूयते । बहुमानितासि पूर्वेतिरद्द, दृष्टिश्वेत्यर्थं । उद्वेगो भयसभ्रम ॥ हा भगवति तमसे गच्छतीदानीमार्यपुत्र । वर्षवर्धनं अभ्युत्पूर्ति । भगवति प्रसीद । क्षणं तावदुर्लभदर्शनमार्यपुत्रं पश्यामि । क्षणमिति पाठस्साधु । दुर्लभेति ध्वनि । आर्यपुत्र का । आर्यपुत्र इदानीमसि त्वम् । अद्यहे उत्खातमिदानीं परित्यागस्लज्जाशल्यमार्यपुत्रेण । उत्खातं त्राटश्म् । तत्रापि कनकसीताप्र- तिकृतावित्यर्थं । चक्षुः कर्म । धन्या खलु सा या एवमार्यपुत्रेण बहु मन्यते या चार्यपुत्रं विनोदयन्ती आशानिबन्धनं जाता जीवलोकस्य । जीवलोकस्तद्रू- पस्य । शश्या-गोपीकृष्ण सीलाराम इत्यादि यथा गोपीजुलकृष्ण सीतायुक्त- राम इति समाथीर्यते । तथा प्रकृते जीवयुक्तां शेषा भुवनानि यस्मिन् तस्य जीवलोकस्य रामस्येत्यर्थं । जीवलोक इत्युपलक्षणम् । तथा च जीवलोकस्य रामस्य चाभेद सिद्ध । अत एव 'विश्वं विष्णु' इति । 'वासनाद्वासुदेवस्य' इत्यादि पौराणिका इति । आशेति यथा रामं विहाय थाशा न निर्गच्छेत् । १ 'अहिलासब्यापारि' क. २ 'सांप्रतं गच्छाव' क.