उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 86, कुल 439 में से
संदर्भ में पढ़ें३-२८ ] उत्तररामचरितं ६९ रामः—सखि समाश्वसिहि समाश्वसिहि । वासन्ती—( समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन । सीता—सहि वासन्दि विरम विरम । सखि वासन्ति विरम विरम । रामः—लोको न मृष्यतीति । वासन्ती—कस्य हेतोः । रामः—स एव जानाति किमपि । तमसा—विरामोपालम्भः । वासन्ती—अयि कठोर यशः किल ते प्रियं किमपयशो ननु घोरमतः परम् । किमभवद्विपिने हरिणीदृशः कथय नाथ कथं बत मन्यसे ॥ २७ ॥ सीता—तुमं जेव्व सहि वासन्दि दारुणा कठोरा अ जा एव्वं अज्जउत्तं पदिउत्तं पदीवेसि । त्वमेव सखि वासन्ति दारुणा कठोरा च यैवमार्यपुत्रं प्रदीप्तं प्रदीपयसि । तमसा—प्रजय एवं व्याहरति शोकश्च । रामः—सखि किमत्र मन्तव्यम् । प्रस्तैकेहायनकुरङ्गविलोलदृष्टे- स्तस्याः परिस्फुरितगर्भभरालसायाः । ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥ २८ ॥ नसांनि भावः ॥ २६ ॥ स्थाने युक्तम् । निवृत्तिः कुण्ठनम् । चतुर्थचरणं पूरयति–शान्तमिति । गतमित्यर्थः । अतः त्यागादपि । अन्याय्यं न्या- यादपेतम् । सखि वासन्ति विरम विरम । कस्य हेतोः केन हेतुनेत्यर्थः । ‘विस्मृतं कस्य हेतोः’ इति मुद्राराक्षसः । लज्जावशात् किमपीत्युक्तम् ॥ अयि कठोर यश इति ॥ २७ ॥ कठोर इति संबोधनम् । अतः पत्नी- त्यागात् । किं चरितमिति शेषः ॥ २७ ॥ त्वमेव सखि वासन्ति दारुणा कठोरा च या एवं विप्रलपन्ती पर्यात्तं विप्रलापयसि । विप्रलापवन्तं करोषीति यावत् । अय्यउत्तं इति शेषः । आर्यपुत्रमित्यर्थः । विप्रलापो विरोधोक्तिः, पर्यात्तं यथेप्सितम् ॥ प्रस्तैकहायनेति ॥ २८ ॥ एकहायनः । एकव- त्सर इत्यर्थः । तृतीयचरणेन विरहपाण्डिमा । कव्याद्भिः राक्षसैः । विक्षे- १ ‘तत्कस्य’ घ-च. २ ‘टचित्तसमुपा’ घ-च. ३ ‘पडवन्तं पढावेसि’ ( प्रलपन्तं प्रलापयसि ) न. ४ ‘मुग्ध’ च-प.