उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 96, कुल 439 में से
संदर्भ में पढ़ें३-४३ ] उत्तररामचरितं ७९ सीता—मए जेव्व दारुणाए विप्पलब्धो अज्जउत्तो । मयैव दारुणया वि- प्रलब्ध आर्यपुत्रः । वासन्ती—देव पश्य पश्य पौलस्त्यस्य जटायुषा निघटितः कार्ष्णायसोऽयं रथ- स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः । खङ्गच्छिन्नजटायुपक्षतिरिनः सीतां चलन्तीं वह- न्नन्तर्व्यापृतविद्युदम्बुद इव द्यामभ्युदस्त्यादरिः ॥ ४३ ॥ सीता—(सखेदम्) अज्जउत्त तादो वावादीअदि अहं वि अवहरि- जामि । हा परित्ताहि । आर्यपुत्र तातो व्यापाद्यते अहमप्यपह्रिये । तस्मात्प- रित्रायस्व । रामः—(सावेगमुत्थाय) आः पाप तातप्राणसीतापहारिन् क्व यासि । वासन्ती—अयि देव राक्षसकुलप्रलयधूमकेतो किमद्यापि ते मन्यु- विषय । सीता—अम्मो अहं वि उब्भमन्तम्हि । अहो अहमप्युद्भ्रान्तास्मि । रामः—अन्यै एवायमधुना विपर्ययो वर्तते । लब्धः वञ्चित पातिव्रत्यंमादिनेति भाव । 'विप्रलब्धस्तु वञ्चित' इत्यमरः ॥ अन्यतो दर्शयन्ती मनो विनोदयति-देवेति ॥ पौलस्त्यस्य जटायुषेति ॥ ४३ ॥ पौलस्त्यस्य रावणस्य । कृष्णाजोनय कार्ष्णायसः कृष्णायस्स- म्बन्धी वा । कृष्णं नीलं य चत् अय लोह तद्विकार इति वा । कार्ष्णायस इति कथन दाढ्यौतिशयसूचकम् । पिशाचानामिव वदनानि येषा ते । कङ्कालैः शरीरास्थिभि । शेषाः अतिशयेन कृशा इति यावत् । अत एव नलेन तावदेन एव बलिन इति परीक्ष्य ऋतुपर्णस्य रथे ह्रस्वतरा वाजिन योजिता इति महाभारते । खराः वेगादिषु तुरहाधिकाः । 'खपर' इति महाराष्ट्राः । जटायोः पक्षतिः पक्षमूलम् । 'जटायुवत्पक्षिरथो न गन्य.' इति बोधाय- नरामायणे । चलन्तीं कम्पमानाम् । अन्ततः सात्मनि । व्यापृता स्फुरन्ती विद्युत् यस्य । द्यां आकाशम् । अरिः रावण ॥४३॥ हा आर्यपुत्र तातो व्यापाद्यते । तातो जटायु. । व्यापाद्यते हन्यते । अहमपि अवहरि- जामि अपह्रिये । अपहृता भवामीत्यर्थ । परित्तायस्व परित्रायस्व । सावेगः झंझानातिशय. । प्रलयो नाशो । धूमकेतुः उत्पातविशेषः । हे तव मन्योः कोपस्य विषयः गोचर । अरिरित्यनुषज्यते । अहो उद्भ्रान्तास्मि । विपर्ययः १ 'दरनेनै' ब-घ. २ 'वलन्दो' ब-घ. ३ 'गन्तव्यांवु' क-घ-च. ४ '०केनो अद्यापि' घ-घ. ५ 'अन्यथै एवायमधुना प्रमादो वर्तते' ब-घ.