उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 97, कुल 439 में से
संदर्भ में पढ़ें८० उत्तररामचरितं [ ३-४५ उपायानां भावादविरतविनोदव्यतिकरै- र्विमर्दैर्धीराणां जगति जनितात्यद्भुतरसः । वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् कथं तूष्णीं सह्यो निरवधिरयं त्वप्रतिविधः ॥ ४४ ॥ सीता—णिरवहित्ति हा हदम्हि मन्दभाइणी । निरवधिरिति हा हतास्मि मन्दभागिनी । रामः—हा कष्टम् । व्यर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा प्रज्ञा जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि । मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषये तत्र प्रिये क्वासि मे ॥ ४५ ॥ सीता—बहुमण्णाविद्म्हि तं पुव्वविरहं । बहुमानितास्मि तं पूर्ववि- रहम् । रामः—सखि वासन्ति दुःखायैव सुहृदामिदानीं रामस्य दर्शनम् । कि- मथिरं स्वा रोदयिष्यामि । तदनुजानीहि मां गमनाय । ब्यास ॥ उपायानां भावादिति ॥ उपायानां सामादीनां चतु- र्णाम् । भावात् अविरतं सन्ततम् विनोदव्यतिकराः कौतुक- व्यापारा येषु । 'विनोद कौतुके हास्ये' इति, 'व्यापारे मुदि सम्बन्धे योगे व्यतिकरे' इति नामार्णवशब्द्रार्णवौ । विमर्दैः सङ्ग्रामैः । रिपुघातः अवधिः अवसानं यस्य । 'वृथार्थेऽपि तूष्णीम्' इति रभसः । 'परित्याग- वियोगान्तपाता प्रविलयास्तु ता' इति केदारः ॥ ४४ ॥ निरवधिरिति हा हतास्मि । पूर्ववियोगापेक्षया आधुनिकवियोगस्य वैलक्षण्यमाह ॥ व्यर्थं यत्र कपीन्द्रेति ॥ ४५ ॥ यच्छब्दन्रयेण प्रलय परामृश्यते । अविषये अगोचरे । तत्र तस्मिन् प्रविलये इति शेषः । यनेति पञ्चधा वक्तव्ये त्रिधा कथनं प्रक्रमभङ्गः । 'न स्थातुं न पलायितुं यतितु नोन्मीलितुं नो हातुं निज- जीवितं प्रभवति' इति लीलाधरप्रयोग इव अनुग्राह्य । केचिदविषये इति पाठमाश्रित्य य इत्यध्याहारमुररीचक्रु । तत् कुरीकन्दितमिव परिहास्यम् । यनेति प्रायपाठ, प्रतीतस्य प्रातिकूल्यात् । अभिनयमधिरूम् ॥ ४५ ॥ १ 'अविरल' न. २ 'व्यतिकर' घ. ३ 'जनितवरुदत्यद्भुत०' न. ४ 'वतु' न. ५ 'तु प्रक्षिप्त' न, 'निरन्तरिदानीं तु विरह.' घ. ६ 'जाम्ब- वतो न यत्र' न ७ 'अविषय' घ. ८ 'बहुमानिदिम्हि पुव्वविरहे' न.