उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 98, कुल 439 में से
संदर्भ में पढ़ें३-४५ ] उत्तररामचरितं ८१ सीता-( सोद्वेगमोहं तन्वनानाष्टिद्य) भअवदि तमसे गच्छदि दाणि अज्जउत्तो । ( इति मूर्च्छति ) भगवति तमसे गच्छतीदानीमार्यपुत्रः । तमसा-वत्से समाश्वसिहि समाश्वसिहि । नन्वावामायुष्मतोः कु- शलवयोर्वर्षवर्धनमङ्गलानि सम्पादयितुं भागीरथीपदान्तिकमेव गच्छावः । सीता-भअवदि पसीद । खणमेत्तं वि दाव दुल्लहदंसणं जणं पेक्खामि । भगवति प्रसीद । क्षणमात्रमपि तावद्दुर्लभदर्शनं जनं प्रेक्षे । रामः-अस्ति चेदानीमश्वमेधाय सहधर्मचारिणी मे । सीता-( सोकम्पम् ) अज्जउत्त का । आर्यपुत्र का । रामः-हिरण्मयी सीताप्रतिकृतिः । सीता-( सोच्छासाश्रुम् । ) अज्जउत्तो दाणिं सि तुमं । अम्महे उक्खा- त्तिदं दाणिं मे परित्त्यागलज्जाशल्यं अज्जउत्तेण । आर्यपुत्र इदानीमसि त्वम् । अहो उत्खातमिदानीं मे परित्यागलज्जाशल्यमार्यपुत्रेण । रामः-तत्रापि तावद्वाष्पदिग्धं चक्षुर्बिनोदयामि । सीता-धण्णा सा जा एव्वं अज्जउत्तेण बहुमण्णीअदि जा अ अज्जउत्तं विणोदअन्ती आसाणिबन्धणं जादा जीवलोअस्स । धन्या सा चैवमार्यपुत्रेण बहु मन्यते या चार्यपुत्रं विनोदयन्त्याशानिबन्धनं जाता जीवलोकस्य । तमसा-( सस्मितस्नेहास्रं परिष्वज्य । ) अयि वत्से एवमात्मा स्तूयते । बहुमानितासि पूर्वेतिरद्द, दृष्टिश्वेत्यर्थं । उद्वेगो भयसभ्रम ॥ हा भगवति तमसे गच्छतीदानीमार्यपुत्र । वर्षवर्धनं अभ्युत्पूर्ति । भगवति प्रसीद । क्षणं तावदुर्लभदर्शनमार्यपुत्रं पश्यामि । क्षणमिति पाठस्साधु । दुर्लभेति ध्वनि । आर्यपुत्र का । आर्यपुत्र इदानीमसि त्वम् । अद्यहे उत्खातमिदानीं परित्यागस्लज्जाशल्यमार्यपुत्रेण । उत्खातं त्राटश्म् । तत्रापि कनकसीताप्र- तिकृतावित्यर्थं । चक्षुः कर्म । धन्या खलु सा या एवमार्यपुत्रेण बहु मन्यते या चार्यपुत्रं विनोदयन्ती आशानिबन्धनं जाता जीवलोकस्य । जीवलोकस्तद्रू- पस्य । शश्या-गोपीकृष्ण सीलाराम इत्यादि यथा गोपीजुलकृष्ण सीतायुक्त- राम इति समाथीर्यते । तथा प्रकृते जीवयुक्तां शेषा भुवनानि यस्मिन् तस्य जीवलोकस्य रामस्येत्यर्थं । जीवलोक इत्युपलक्षणम् । तथा च जीवलोकस्य रामस्य चाभेद सिद्ध । अत एव 'विश्वं विष्णु' इति । 'वासनाद्वासुदेवस्य' इत्यादि पौराणिका इति । आशेति यथा रामं विहाय थाशा न निर्गच्छेत् । १ 'अहिलासब्यापारि' क. २ 'सांप्रतं गच्छाव' क.