उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 95, कुल 439 में से
संदर्भ में पढ़ें७८ उत्तररामचरितं [ ३-४२ सीता-(स्वगतम्।) अम्महे अवसेण एदेण अत्ताणएण लज्जाविदम्हि भयवँदीए तमसाए। किं ति क्खु एसा मण्णिस्सदि एसो परिवादो एसो अहिसङ्गो त्ति। [अहो अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया। किमिति स्विदेषा मंस्यत एष परिवाद एषोऽभिषङ्ग इति । रामः-(सर्वतोऽवलोक्य।) हा कथं नास्त्येव। नन्वकरुणे वैदेहि। सीता-सच्चं अकरुणह्नि जा एव्वंविहं तुमं पेक्खन्ती जीवेमि जेव्व। [सत्यमकरणास्मि यैवम्विधं त्वां प्रेक्षमाणा जीवाम्येव । रामः-क्वासि देवि प्रसीद। न मामेवंविधं परित्यक्तुमर्हसि। सीता-अयि अज्जउत्त विव्वरीअं विअ एदं । [अयि आर्यपुत्र विप्रतीप- मिवैतत् । वासन्ती-देव प्रसीद प्रसीद। स्वेनैव लोकोत्तरेण धैर्येण सस्तम्भया- तिभूमिं गतमात्मानम्। कुतोऽत्र मे प्रियसखी। रामः-व्यक्तं नास्त्येव कथमन्धया वासन्त्यपि तां न पश्येत्। अपि खलु स्वप्न एष स्यात् । न चास्मि सुप्त । कुतो रामस्य निद्रा। सर्वथा स एवेष भगवाननेकवारपरिकल्पनानिर्मितो विप्रलम्भ पुन पुनरनुबध्नाति माम्। किमेषा शास्यति । एष परिवाद एषोऽभिषङ्ग इति । अम्महे खेदादिषु । अवशं पराधीनत्वम् । लज्जापिता लज्जां प्रापिता । एव मस्येत्यर्थ । मुणिस्सदीत्यत्र 'शे मुण' इति गुणादेश । परिवादः अपवाद । 'अभि- षङ्गः अभिनिवेश' इति धरणि । अकरुणतरास्मि या एवंविधमपि त्वां पश्यन्ती जीवाम्येव । पश्यन्त्येव जीवामीति च चमत्कार ॥ अयि आर्यपुत्र विप्रतीपमिवैतत् । एतत् प्रेमेति शेष । विशेषेण प्रतीपं प्रतिकूलम् । तथा च परित्यागे कृते एव पुन प्रेमानुसरणमनुचितमिति भाव । अतिभूमिं मर्या- दापरपारमिति यावत् । प्रियसखी सीता । अन्यथा सा यदि स्यात् कथं न पश्येदिति योज्यम् । सर्वथा प्रकारेण । अनेकवारं असकृत् परि- कल्पनानि सङ्कल्पविकल्पादीनि यस्मिन् स । 'विप्रलम्भस्तु वञ्चना' इति नानार्थः । विप्रलम्भस्य भगवानिति विशेषण माहात्म्यापादकम् । अत एव 'भगवति निद्रे दयस्व'इति भट्टाचार्याः । विप्रलम्भ शृङ्गारविशेष इति केचित् । विप्रयोग इत्यन्ये । उभे अपि क्षमञ्जसे ॥ 'मए एव्वं विप्पलद्धो' इत्युत्तरवाक्यविरोधात् । मयैव दारुणया एवं विप्रलब्ध आर्यपुत्र । विप्र- १ 'मुणिस्सदि' ( शास्यति ) टी. २ 'परिवाद ' टी. ३ 'विवरीद' ( विपरीत ) - क-घ-च. ४ '°भूमिगतविप्रलम्भन्' क-घ-च.