उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 88, कुल 439 में से
संदर्भ में पढ़ें३-३३ ] उत्तररामचरितं ७१ दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसा- त्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥ सीता—एवं णेदं । एवं निवेदम् । रामः—हे भवन्तः पौरजानपदाः । न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत- स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता । चिरपरिचितास्ते ते भावाः परिद्रवयन्ति मा- मिदमशरणैरद्याक्रन्दैः प्रसीदत रुद्यते ॥ ३२ ॥ वासन्ती—( स्वगतम् । ) अतिगम्भीरमापूरणं मन्युसम्भारस्य । ( प्र- काशम् । ) देव अतिक्रान्ते धैर्यमवलम्ब्यताम् । रामः—सखि किमुच्यते धैर्यमिति । देव्या शून्यस्य जगतो द्वादशः परिवत्सरः । प्रणष्टमिव नामापि न च रामो न जीवति ॥ ३३ ॥ सबोधनम् ॥ दलति हृदयमिति ॥ ३१ ॥ 'दलति स्फुटति' इति माठरः । उद्वेगः तीव्रता । विकलं अवयवभूतम् । मोहं मूर्च्छां । चेतनां ज्ञप्तिम् । अन्तर्दाहः अवाङ्मुखसन्तापः । तनूं भस्मसात् भस्माधीनम् न करोति । विधिः दैवम् । जीवितं जीवम् । अत्र तुशब्दः पादपूरणे ॥ ३१ ॥ एव- मेतद् सत्यमिति भावः ॥ न किल भवतामिति ॥ ३२ ॥ स्थानं वासः । ततः तस्मात् । नातिशोचिता किञ्चिच्छोचितेति यावत् । अपिस्संभा- वनायाम् । पूरणे इति केचित् । ते ते विविधाः । 'भावाः सञ्चारिणः क्रियाः' इति वामनः । परि परितः द्रवयन्ति आर्दीकुर्वन्तीति यावत् । अस्मा- भिरिदमिति भवद्भिः श्रूयमाणं यथा तथैत्यर्थः । प्रसिद्धमिति केचित् । अशर- णमगतिकम् । रुद्यते प्रसीदत रोदनाय किल भवद्भिरेवावकाशो निर्मित इति भावः ॥ ३२ ॥ मन्युसंभारस्य दैन्यसामग्र्याः । आपूरणं पूर्ति । अतिक्रान्ते गते सतीत्यर्थः । कार्ये इति शेषः ॥ देव्या शून्यस्येति ॥ ३३ ॥ 'संवत्सरो वत्सरश्च परिवत्सरः' इति द्विरूपः । नाम देव्या इति शेषः । गानास्या इति वा पाठः । रामो न जीवतीति न जीवत्येवेत्यर्थः । चकारः १ 'शोकोद्वेगात्' न, 'गाढोद्वेगः' टी. २ 'तथा द्रवयन्ति' न, 'परिस्पन्दन्ति' .घ. ३ 'मद्याप्येवं' व-घ. ४ 'अवधूतः शोकसंभारस्य' व-घ, 'मन्युभारस्य' न. ५ 'तुत दीर्यते' घ.