वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 101, कुल 835 में से
संदर्भ में पढ़ें(५२) सिद्धान्तकौमुद्याम्- यथोद्देशपक्षे षार्ष्टीं परिभाषां प्रति श्रुत्वस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः ॥ जञोर्झः । राज्ञः । राज्ञा ॥ न लोपः सुप्स्रसंज्ञात्तुग्विधिषु कृति ।८।२।२ ॥ सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपोऽसिद्धो नान्यत्र राजाश्व इत्यादौ ॥ इत्य- सिद्धत्वादत्वमेत्त्वमैत्त्वं च न । राजभ्याम् । राजभिः । राज्ञे । राजभ्यः । राज्ञः । राज्ञोः । रा- ज्ञाम् । राज्ञि । राजनि । प्रतिदीव्यतीति-प्रतिदिवा । प्रतिदिवानौ । प्रतिदिवानः । अस्य भवि- ष्येड्लोपे कृते-॥ हलि च ।८।२।७७ ॥ रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि ॥ १ 'असिद्धं बहिरङ्गमन्तरङ्गे' इति लोकन्यायसिद्धेति 'अचः परस्मिन्' इत्यत्र भाष्ये स्पष्टमभिहितम् । लौकिकन्यायस्यास्मिन् शास्त्रे