वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 103, कुल 835 में से
संदर्भ में पढ़ें( ५४ ) सिद्धान्तकौमुद्याम्- वा तृ इत्यन्तादेशः स्यात् ॥ ऋ इत् ॥ उगिदचां सर्वनामस्थानेऽधातोः ।७।१।७० ॥ अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे ॥ उपधादीर्घः । मघवान् । इह दीर्धे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वं न भवति बहुलग्रहणात् ॥ तथा च श्वन्नुक्षन्निति निपातनान्मघवच्छब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैतत् सूत्रं प्रत्याख्यातमाकरे ॥ हविर्यक्षिति निःशङ्को मखेषु मघवान्साविति भट्टिः । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि ॥ तृत्वाभावे-मघवा । छन्द- सिवनिपौ चेति वनिबन्तं मध्योदात्तं छन्दस्येव, अन्तोदात्तं तु लोकेऽपीति विशेषः । मघ- वानौ । मघवानः । सु