वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 106, कुल 835 में से
संदर्भ में पढ़ें।६।१।६७॥ अपृक्तस्य वस्य लोपः स्यात् । कृत्तद्धितेति प्रातिपदिकत्वात्स्वादयः ॥ युजेर- समासे ।७।१।७१ ॥ युजेः सर्वनामस्थाने नुम् स्यादस्रमासे ॥ सुलोपः । संयोगान्तस्य लोपः ॥ क्विन्प्रत्ययस्य कुः ।८।२।६२ ॥ क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्प- दान्ते ॥ नस्य कुत्वेनानुनासिको ङकारः-युङ् ॥ नश्चापदान्तस्येति नुमोऽनुस्वारः, परसवर्णः, तस्यासिद्धत्वाच्चोः कुरिति कुत्वं न-युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युजा । युग्भ्या- मित्यादि ।असमासे किम् ? ॥ चोः कुः ।८।२।३०॥ चवर्गस्य कवर्गः स्याज्झलि पदान्ते च ॥ इति कुत्वम् । क्विन्प्रत्ययस्येति कुत्वस्यासिद्धत्वात् । सुयुक् । सुयुग् । सुयुजौ । सुयुजः ॥ युजेरित