वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 109, कुल 835 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into clean Devanagari Markdown:
( ५८ ) सिद्धान्तकौमुद्याम्- शः । तस्य जश्त्वेन जः । भृज्जौ । भृजः ॥ ऋत्विगित्यादिना ऋतावु Dufde यजेः क्विन् । क्विन्नन्त- त्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः ॥ रात्सस्येति नियमान्न संयोगान्त- लोपः । ऊर्क् । ऊर्ग् । ऊर्जौ । ऊर्जः ॥ त्यदाद्यत्वं पररूपत्वं च ॥ तदोः सः सावनन्त्ययोः ।७।२।१०६ ॥ त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे ॥ स्यः । त्यौ । त्ये । त्यम् । त्यौ । त्यान् ॥ सः । तौ । ते । परमसः । परमत्तौ । परमते ॥ द्विपर्यन्तानामि- त्येव । नेह–त्वम् । नच तकारोच्चारणसामर्थ्यान्नेति वाच्यम् . अतित्वमिति गौणे चरितार्थ- त्वात् ॥ संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ । अतित्यदः ॥ यः । यौ । ये ॥ एषः । एतौ । एते । अन्वादेशे तु, एनम् । एनौ । एनान् । एनेन । एनयोः २ ॥ ङे प्रथमयोरम् ।७।१।२८॥ युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमा- द्वितीययोश्चामादेशः स्यात् ॥ मपर्यन्तस्य ।७।२।९१ ॥ इत्यधिकृत्य ॥ त्वाहौ सौ ।७।२। ९४ ॥ युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे ॥ शेषे लोपः ।७।२।९०॥ आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् ॥ अतो गुणे ॥ अमि पूर्वः ॥ त्वम् । अहम् ॥ ननु त्वं स्त्री अहं स्त्री इत्यत्र त्व अम् अह अम् इति स्थिते अमि पूर्व- रूपं परपि बाधित्वाऽन्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिङ्गे युष्मदस्मदी । तेन स्त्रीत्वाभा- वान्न टाप् ॥ यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अद् इत्यस्य लोपः । स च परोऽप्यन्तरङ्गे अतो गुणे कृते प्रवर्त्तते । अदन्तत्वाभावान्न टाप् ॥ पर- मत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥ युवावौ द्विवचने ।७।२।९२ ॥ द्वयोरोक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥ प्रथमायाश्च द्विवचने भाषायाम् ।७।२। १ 'झलां जश् झशि' इत्यनेनेत्यादिः ॥ २ 'स्वा हौ सौ' इति सूत्रकरणे गौणे 'अतिस्वम्' इत्यनिष्टरूपवार- णाय तकारोच्चारणस्य चारितार्थत्वादिति भावः ॥ ३ 'तदोः सः सौ' इति सकारस्तु गौणे न भवति यथा तथाऽह- संज्ञायामिति ॥ ४ 'ङे' इति लुप्तषष्ठ्यन्तं पृथक् पदम् 'प्रथमयोः' इत्यनेनानादेशत्वादेव सिद्धौ 'द्वितीयायां च' इत्यारम्भसामर्थ्यात् विभक्त्योरेव ग्रहणमित्याह-प्रथमाद्वितीययोरिति ॥ ५ मप- र्यन्तस्येति । अङ्गभागपूर्वस्येत्यर्थः । परिग्रहणाभावे तु 'मान्तस्य युष्मदोऽस्मदश्च' इत्यर्थे युष्म्यतेरस्मयते- श्चाप्रत्यये एव स्यादिति भाष्ये स्पष्टम् ॥ ६ 'स्वार्थद्रव्यलिङ्गसंख्याकार कनिमित्तकार्येषु अर्थोपस्थितिकर्मेंणैव प्रत्ययोत्पत्तेरपि 'अचः परस्मिन्' इति सूत्रभाष्ये सिद्धान्तितत्वेन लिङ्गबोधकप्रत्ययस्य कारकापेक्षविभक्त्यम्- सापेक्षरूपतोऽन्तरङ्गत्वम् परनिमित्तानपेक्षत्वाच्चेति भावः ॥ ७ 'साम आकम्' इति सूत्रे भाष्यकृत्तैव 'लिङ्गाभावः टिलो पवचनानर्थक्यम्' इति वार्तिकव्याख्यायामेतत्स्पष्टमभिहितमेवेति बोध्यम् ॥ ८ 'नपुंसकादेशेभ्यो युष्मदस्मदोर्विभक्त्यादेशा विप्रतिषेधेन' इति 'नेतराच्छन्दसि' इति सूत्रभाष्ये वार्तिकेन युष्मदस्मदोः सलिङ्गत्वमपि प्रतीयते । तदाप्याह-यद्वेति ॥ आदेशोत्तरं मकाराभावे- ऽप्युपलक्षणतया शेषपदं व्याचष्टे-आदित्यस्येति ॥ अन्तरङ्ग इति । शेषलोपस्य 'त्वदीयः त्वत्पुत्र' इत्यादौ वारणाय विभक्तिनिमित्तकत्वेन विभक्तेश्च पररूपनिमित्तगुणाद्वहिर्भूतत्वेन बहिरङ्गत्वम्, विभक्त्यपेक्षयाऽन्तर्भूत- गुणनिमित्तकत्वेन पररूपस्यान्तरङ्गत्वमिति भावः ॥ 'वर्णादाङ्गं बलीयः' इति त्वनित्यत्वान्नात्र प्रवर्त्तते स्थानिभेदाद्वेति बोध्यम् ॥ इदं च सर्वमादेशानामादन्तत्वे समाधानकल्पनम् । आदेशानां हलन्तत्वे ऽकारस्याविवक्षि- तत्वेन तु न कोपि क्लेशः ॥