भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 110, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 110

हलन्तपुँल्लिङ्गप्रकरणम् । ( ९९ ) ८८ ॥ इह युष्मदस्मदोराकारोऽन्त्यादेशः स्यात् ॥ औङीत्येव सुवचम् ॥ भाषायां किम् ? युवं वस्त्राणि ॥ युवाम् । आवाम् । मपर्यन्तस्य किम् ? साकच्कस्य मा भूत्—युवकाम् । आव- काम् । त्वया मयेत्यत्र त्वया म्येति मा भूत् । युवकाभ्यामावकाभ्यामिति च न सिध्येत् ॥ यूयवयौ जसि ॥७।२।९३ ॥ स्पष्टम् ॥ यूयम् । वयम् । परमयूयम् । परमवयम् । अति- यूयम् । अतिवयम् ॥ इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शी प्राप्तः । अङ्गकार्ये कृते पुन- र्नाङ्गकार्यमिति न भवति । ङेप्रथमयोरित्यत्र मकारान्तरं प्रश्लिष्य अम् मान्त एवावशिष्यते नतु विक्रियत इति व्याख्यानाद्वा ॥ त्वमावेकवचने ॥७।२।९७ ॥ एकत्वोक्तौ युष्मद- स्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥ द्वितीयायां च ॥७।२।८७ ॥ युष्मदस्मदोराकारः स्यात् ॥ त्वाम् । माम् । युवाम् । आवाम् ॥ शसो न ॥७।२।२९ ॥ नेत्यविभक्तिकम् । युष्मदस्मद्भ्यां परस्य शसो नकारः स्यात् ॥ अमोऽपवादः । आदेः परस्य । संयोगान्तस्य लोपः । युष्मान् । अस्मान् ॥ योऽचि ॥७।२।८९ ॥ अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः ॥ त्वया । मया ॥ युष्मदस्मदोरनादेशे ॥७।२।८६ ॥ अनयोराकारः स्यादादेशे हलादौ विभक्तौ ॥ युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥ तुभ्यमह्यौ ङयि ॥७।२। ९५ ॥ अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि ॥ अमादेशः । शेषे लोपः । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ॥ भ्यसो- भ्यम् ॥७।१।३० ॥ भ्यसो भ्यम् अभ्यम् वा आदेशः स्यात् ॥ आद्ये शेषे लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्त्वं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युष्मभ्यम् । अस्मभ्यम् ॥ एकवचनस्य च ॥७।१।३२ ॥ आभ्यां पञ्चम्येकवचनस्य अत्स्यात् ॥ त्वत् । मत् । ङसेश्चेति सुवचम् । युवाभ्याम् । आवाभ्याम् ॥ पञ्चम्या अत् ॥७।१।३१ ॥ आभ्यां पञ्चम्या भ्यसो- ऽत्स्यात् ॥ युष्मत् । अस्मत् ॥ तवममौ ङसि ॥७।२।९६ ॥ अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥ युष्मदस्मद्भ्यां ङसोऽश् ॥७।१।२७ ॥ स्पष्टम् ॥ तव । मम । युवयोः । आवयोः ॥ १ 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति न्यायेनाकच्सहितस्यादेशेऽकचः श्रवणं न स्यादिति भावः ॥ २ ओकारसकारभकारादौ सुपि परतः सर्वनाम्नष्टेः प्रागकच् । अन्यत्र तु सुबन्तस्य टेः प्रागकच् इति सिद्धान्तितत्वेन युवकाम् आवकामित्यत्र दोषाभावात् मपर्यन्तस्येत्यर्थि- कारस्य प्रयोजनान्तरमाह-त्वया मयेति ॥ योऽचीत्यत्र 'अच्ये' इति न्यासेन त्वया मयेति सिद्धौ- दोषान्तरमाह-युवकाभ्यामिति ॥ ३ 'अङ्गवृत्ते पुनर्वृत्तावविधिः' इति परिभाषया 'ज्ञाजनोर्जा' इत्यादेशे दीर्घोच्चारणज्ञापितेयेति पूर्वशेषः ॥ ४ पिवेरदन्तत्वनिपातनसिद्धगुणाभावमात्रस्यैवैतत्प्रयोजनकथनेन 'द्वयोः' इति निर्देशेन चैतत्परिभाषाया व्यर्थत्वसूचने समाधानान्तरमाह-ङेप्रथमयोरिति ॥ मकारान्तर- मिति ॥ 'अमोमश्' इति भाष्यसूचितसंयोगान्तलोपेनेत्यादिः ॥ ५ आद्यः 'भ्यम्' इत्यादेशः ॥ ६ एवकारेण टिलोपपक्षव्यावृत्तिः ॥ ७ 'अङ्गवृत्ते पुनर्वृत्तावविधिः'-अङ्गाधिकारे वृत्तं निष्पन्नं कार्ये तस्मिन्सति पुनरन्यस्याङ्गकार्यस्य प्रवृत्तौ प्राप्तायामविधिरित्यर्थः ॥ ८ पक्षद्वये अन्त्यलोपपक्षे टिलोपपक्षे चेत्यर्थः ॥ ९ 'अनादेशग्रहणं शक्यमकर्तुम् ।' कथम् ? 'हलि' इत्यनुवर्तते । 'नचादेशो हलादिरस्ति' इति भाष्यसंमतश्च ॥