भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 119, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 119

( ६८ ) सिद्धान्तकौमुद्याम्- वृद्धिः । अदसोऽसेरिति मत्वोत्वे । अमू । जसः शी । आद्गुणः ॥ एत ईद्बहुवचने ।८।२।८१॥ अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बहुवर्थोक्तौ ॥ अमी ॥ पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते विसंज्ञायां नाभावः ॥ न मु ने । ८।२।३ ॥ नाभावे कर्तव्ये¹ कृते² च मुभावो नासिद्धः स्यात् । अमुना । अमूभ्याम् ३ ॥ अमीभिः । अमुष्मै । अमीभ्यः २ । अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमु- ष्मिन् । अमुयोः । अमीषु ॥ ॥ इति हलन्तपुँल्लिङ्गप्रकरणम् । अथ हलन्तस्त्रीलिङ्गप्रकरणम् । नहो धः ।८।२।३४ ॥ नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् । उपानद् । उपा- नहौ ॥ उपानहः । उपानद्भ्याम् । उपानत्सु । उत्पूर्वात् ष्णिह प्रीतावित्यस्मादृत्विगादिना किन् । निपातनात्तलोपषत्वे । क्विन्नन्तत्वात्कुत्वेन हस्य घः । जश्त्वचर्त्वे । उष्णिक् । उष्णिग् । उष्णिहौ । उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु ॥ द्यौः । दिवौ । दिवः । द्युषु ॥ गीः । गिरौ । गिरः । एवं पूः ॥ चतुरश्छतस्रादेशः । चतस्रः २ । चतसृणाम् ॥ किमः कादेशे टाप् । का । के । काः । सर्ववत्सर्वा ॥ यः सौ ।७।२।११० ॥ इदमो दस्य यः स्यात्सौ ॥ इदमो मः ॥ इयम् । त्यदाद्यत्वं टाप् । दश्चेति मः । इमे । इमाः । इमाम् । इमे । इमाः । अनया ॥ हलि लोपः ॥ आभ्याम् ३ । आभिः । अस्यै । अस्याः । अनयोः २ । आसाम् । अस्याम् । आसु ॥ अन्वादेशे तु । एनाम् । एने । एनाः । एनया । एनयोः २ ॥ ऋत्विगादिना सृजेः क्विन् अमागमश्च निपा- तितः । स्रक् । स्रग् । स्रजौ । स्रजः । स्रग्भ्याम् । स्रक्षु ॥ त्यदाद्यत्वं टाप् । स्या । त्ये । त्याः ॥ एवं तद् यद् एतद् ॥ वाक् । वाग् । वाचौ । वाचः । वाग्भ्याम् । वाक्षु ॥ अप्- शब्दो नित्यं बहुवचनान्तः । अतृन्निति दीर्घः । आपः । अपः ॥ अपो भिः ।७।४।४८॥ अप- स्तकारः स्यादादौ प्रत्यये परे ॥ अद्भिः । अद्भ्यः २। अपाम् । अप्सु ॥ दिक् । दिग् । दिशौ । दिशः । दिग्भ्याम् । दिक्षु ॥ त्यदादिष्विति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक् । दृग् । दृशौ । दृशः ॥ त्विट् । त्विड् । त्विषौ । त्विषः । त्विड्भ्याम् । त्विट्सु । त्वित्सु ॥ सह जुषते इति-सजूः । सजुषौ । सजुषः । सजूभ्याम् । सजूषु । सजूःषु ॥ षत्वस्या- १ कर्तव्ये इत्युक्त्या 'अद् आ' इत्यवस्थायां 'टाङसिङ' इत्येतस्मात्परत्वेन 'अदसोऽसेः' इति प्रवर्तते 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधः' इत्यस्याप्रवृत्तेरिति भावः ॥ २ कृते चेत्युक्त्या 'सुपि च' इति दीर्घो न प्रवर्तत इति भावः ॥ ३ कैयटमतेनेदमिति बोध्यम् । दीक्षितसिद्धान्ते तु 'डङगकाः' इत्येवं क्रमो बोध्यः ॥ 'उष्णिगञ्चु' इति निर्देशेन लौकिकतक्षकौण्डिन्यन्यायबाधस्यैवौचित्यात् ॥ ४ 'उभा- दुदात्तो नित्यम्' इत्यत्रेव शब्दपरत्वान्न सर्वनामकार्यं पुंवद्भाव इति बोध्यम् ॥