वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 120, कुल 835 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्तिशः लिप्यन्तरण है:
हलन्तनपुंसकलिङ्गप्रकरणम् । (६९) सिद्धेत्वात् रुत्वम् । आशीः । आशिषौ । आशिषः । आशीर्भ्याम् ॥ असौ । त्यदाद्यत्वम् । टाप् । औडः शी । उत्वमत्वे । अमू । अमूः । अमूम् । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमूभ्याम् । अमूभ्यः । अमुष्याः २ । अमुयोः २ । अमूषाम् । अमुष्याम् । अमूषु ॥ इति हलन्तस्त्रीलिङ्गप्रकरणम् ॥ अथ हलन्तनपुंसकलिङ्गप्रकरणम् । स्वमोर्लुक् । दत्वम् । स्वनडुत् । स्वनडुद् । स्वनडुही । चतुरनडुहोराम् । स्वनड्वांहि । पुनस्तद्वत् । शेषं पुंवत् ॥ दिव उत् ॥ अहर्विमलद्यु । अन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पूर्वपदस्येवोत्तरखण्डस्यापि पदसंज्ञायां प्राप्तायाम् ‘उत्तरपदत्वे चापदादि- *विधौ प्रतिषेधः ’ इति प्रत्ययलक्षणं न । विमलदिवी । विमलदिवि ॥ अपदादिविधौ किम् ? दिविसेचौ । इह षत्वनिषेधे कर्तव्ये पदत्वमस्त्येव । कुत्वे तु न ॥ वाः । वारी । अझलन्त- त्वात्र नुम् । वारि ॥ चत्वारि ॥ न लुमतेति कादेशो न । किम् । के । कानि ॥ इदम् । इमे । इमानि ॥ अन्वादेशे नपुंसके एनद्वक्तव्यः * ॥ एनत् । एने । एनानि । एनेन एनयोः २ ॥ ब्रह्म । ब्रह्मणी । ब्रह्माणि । हे ब्रह्मन् । हे ब्रह्म ॥ रोऽसुपि-अहर्भाति । विभाषा ङिश्योः । अह्नी । अहनी । अहानि ॥ अहन् ।८।२।६८ ॥ अहन्नित्यस्य रुः स्यात् पदान्ते ॥ अहोभ्याम् । अहोभिः । इह अहः अहोभ्यामित्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते– अहन्नित्यावृत्य नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि रुत्वत्वे । दीर्घाह्णयहानि
१ असिद्धत्वादिति । गतेरपि प्राप्यपरपर्यायत्वात् गतौ प्राप्तेरपि गणनात् अप्राप्तत्वादित्यर्थः ॥ प्राप्य- भावश्चापदान्तत्वाभावादिति बोध्यम् ॥ २ दत्वमिति । ‘पदाङ्गाधिकारे तस्य तदन्तस्य च’ इति परिभा- षया पदाधिकारे तदन्तविधिना ‘अनडुच्छब्दान्तस्य पदस्य दत्वम्’ इत्यर्थाङ्गीकारेण ‘न लुमताङ्गस्य’ इत्यस्य ‘न लुमता तस्मिन्’ इति न्याससमानप्रयोजनकतासाधनाय ‘लुमल्लुप्तप्रत्ययाव्यवहितपूर्वत्वनिमित्तककार्यस्यैव कर्तव्यत्वे प्रत्ययलक्षणं न’ इत्यर्थाङ्गीकारेण ‘सुप्तिङन्तम्’ इति पदत्वनिमित्तककार्यस्य निषेधाभावादिति भावः ॥ ३ पदसंज्ञायामिति । ‘दिव उत्’ ‘इत्येतन्निमित्तभूतायाम्’ इत्यादिः ॥ ४ ‘वृत्तिचरमखण्डस्य पदत्वप्रयुक्ते पदादिविधिभिन्ने कार्ये कर्तव्ये प्रत्ययलक्षणं न’ इत्यर्थकेन समासचरमावयव ‘दिव्’ इत्यस्य पदत्वप्रयुक्ते ‘दिव उत्’ इति कार्ये कर्तव्ये प्रत्ययलक्षणनिषेधेन पदत्वाप्राप्त्यैव नोत्त्वप्राप्तिरिति भावः ॥ परम ‘दण्डिप्रियः’ इत्यत्र दण्डिशब्दस्य नोत्तरपदत्वमिति नलोपे प्रत्ययलक्षणं भवत्येवेति ॥ ५ ‘पदादिविधि’ शब्देन प्रतिपदोक्तः ‘सात्पदाद्योः’ इति षत्वनिषेध एव गृह्यते इति तस्मिन् कर्तव्ये प्रत्ययलक्षणं भवत्येवेति पदत्वमस्त्येवेति षत्वनिषेधो भवत्येवेति तात्पर्यम् ॥ ६ कुत्वे त्विति । कुत्वस्य पदादिविधित्वाभावात्प्र- त्ययलक्षणं न भवतीति पदत्वाभावात् कुत्वं नैव भवतीति भावः ॥ एवमेव ‘बहुसेचौ’ इत्यादौ बोध्यम् ॥ ७ ‘न लुमता ऽङ्गस्य’ इत्यस्यानित्यत्वात् एनदादेशविधानसामर्थ्याद्वा प्रत्ययलक्षणेन द्वितीयाैकवचनेपि एनदा- देशो भवत्येवेति ॥ अयं चादेशो द्वितीयाैकवचन एव भवति ‘एनदिति नपुंसकेकवचने’ इति वार्तिकात् ॥ एवं चान्यत्र त्वेनादेश एवेति बोध्यम् ॥ ८ ‘असुपि’ इत्यस्य प्रसज्यप्रतिषेधत्वेन ‘सुपि न’ इति प्रति- षेधस्य करणीयत्वे ‘न लुमता’ इत्यनेन प्रत्ययलक्षणप्रतिषेधात् सुप्परत्वाभावेन नैव रेफस्य प्रतिषेधः ॥