वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 12, कुल 835 में से
संदर्भ में पढ़ेंप्रस्तावना। अयि गीर्वाणवाणीविलासासादितहृदयानन्दाः ! इदन्तावन्नाविदित मस्ति सर्वेषां शासितोपलब्धिवतां यद्व्याकरणस्य पदपदार्थावभा- सकत्वेन सर्वशास्त्रोपकारकत्वमिति । तत्र सत्स्वपि महर्षिशाकटा- यनादिप्रणीतेषु व्याकरणान्तरेषु, आम्नायमूलकत्वेन झटित्यज्ञा- नकान्तारसञ्चारसन्तारकत्वेन च पदवाक्यप्रमाणपारावारपारीणानां मस्तकालंकारमणिरिवाभासते पाणिनीयमेव, अत एव “काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् ।” इति वैचक्षण्यसमानाधि- करणमनर्वाचीनं वचनमनूचाना वदन्ति । तदिदमघटितघटना- पटीयसः सुरकुलमुकुटालंकारमन्दारमकरन्दपंकिलपादारविन्दान्म- हेशानजानेः शब्दार्णवतरणतरणिमिवोदग्रतपःफलमिव मनोरथ- निदानमिव चतुर्दशसूत्रात्मकं साम्नायं पटहारावाविस्फुरितं स्फुलिङ्गमिव दीप्यन्तं समुपलभ्य भगवान् महर्षिदाक्षीपुत्रः तपः प्रभावविस्फूर्तिशालिन्या प्रतिपत्त्याऽनायासेनाष्टाभिरध्यायैरुपनिब- बन्ध यदिदानीमपि विद्वत्प्रकाण्डैर्हृदयाधिष्ठितदेवतेव वरिवस्यते । अनन्तरं करालकलिकालमाहात्म्यात्सूत्राक्षरैर्भगवदाशयमावि- ष्कर्तुमसमर्थानामौदास्यमसहमानेन महर्षिणा पतञ्जलिनाऽष्टाभिरे- वाध्यायैः सूत्रव्याख्या निरमायि, या इदानीमपि भूमण्डले महाभा- ष्याख्यया विख्यातास्ति । तथा सूत्रव्याख्यानभूतो व्याडिविदुषा संग्रहोऽपि संगृहीतः । व्याकरणन्यायमिश्रितपदपदार्थावबोधजनकं वाक्यपदीयमपि भर्तृहरिपादैराविर्भावि। परन्तु तावतापि ग्रन्थनिव- हेन जनहृदयानन्दमसमीक्षमाणाभ्यां करुणासागरविहितस्नानाभ्यां