भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 126, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 126

स्त्रीप्रत्ययप्रकरणम् । ( ७५ ) कृतसमासान्तस्तदन्तात्प्रातिपदिकात् ङीब्वेवा स्यात् ॥ द्विपदी । द्विपात् ॥ टाबुचि ।४।१।९॥ ऋचि वाच्यायां पादन्ताट्टाप् स्यात् ॥ द्विपदा ऋक् । एकपदा ॥ न षट्स्वस्रादिभ्यः ॥ पञ्च । चतस्रः ॥ पञ्चेत्यत्र नलोपे कृतेऽपि ष्णान्ता षडिति षट्संज्ञां प्रति नलोपः सुप्स्वरेति नलोप- स्यासिद्धत्वान्न षट्स्वस्रादिभ्य इति न टाप् ॥ मनः ।४।१।११ ॥ मन्नन्तान्न ङीप् ॥ सीमा । सीमानौ ॥ अनो बहुव्रीहेः ।४।१।१२ ॥ अनन्ताद्बहुव्रीहेर्न ङीप् ॥ बहुयज्वा । बहुय- ज्वानौ ॥ डाबुभाभ्यामन्यतरस्याम् ।४।१।१३॥ सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् ॥ सीमा । सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि दामेत्यमरः ॥ बहुयज्वा । बहु- यज्वे । बहुयज्वानौ ॥ अन उपधालोपिनोऽन्यतरस्याम् ।४।१।२८ ॥ अनन्ताद्बहुव्रीहे- रुपधालोपिनो वा ङीप् स्यात् ॥ पक्षे डाव्निषेधौ । बहुराज्ञी । बहुराज्ञ्यौ । बहुराजा । बहुराजे । बहुराजानौ ॥ प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ।७।३।४४ ॥ प्रत्यय- स्थात्क