भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 127, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 127

( ७६ ) सिद्धान्तकौमुद्याम्- नरान् कायतीति नरिका ॥ त्यक्त्यपोश्च * ॥ दाक्षिणात्यिका । इहत्यिका ॥ न यासयोः ।७ ।३।४५ ॥ यत्तदोरस्येन्न स्यात् ॥ यका । सका । यकाम् । तकाम् ॥ त्यकनश्च निषेधः * ॥ अधित्यका । उपत्यका ॥ आशिषि वुमश्च न *॥ जीवका । भवका ॥ उत्तरपदलोपे न * ॥ देवदत्तिका देवका ॥ क्षिपकादीनां च * ॥ क्षिपका । ध्रुवका । कन्यका । चटका ॥ तारका ज्योतिषि * ॥ अन्यत्र तारिका ॥ वर्णका तान्तवे * ॥ अन्यत्र वर्णिका ॥ वर्तका शकुनौ प्राचाम् * ॥ उदीचां तु वर्तिका ॥ अष्टका पितृदेवत्ये * ॥ अष्टिकान्या ॥ सूतकापुत्रि- कावृन्दारकाणां वेति वक्तव्यम् * ॥ इह वा अ इति च्छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः ॥ तेन पुत्रिकाशब्दे ङीन ईवर्णस्य पक्षेऽकारः । अन्यत्रैत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतका । सूतिकेत्यादि ॥ उदीचामातः स्थाने यकपूर्वायाः ।७।३।४६ ॥ यकपूर्वस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादपि परे ॥ केऽण इति ह्रस्वः । आर्यका आर्यिका ॥ चटकका । चटकिका ॥ आतः किम् ? सांकाश्ये भवा सांकाशियका । यकेति किम्? अश्विका । स्त्रीप्रत्ययेति किम् ? शुभं यातीति शुभंयाः अज्ञाता शुभंयाः शुभंयिका ॥ धात्वन्तयकोस्तु नित्यम् * ॥ सुनयिका । सुपाकिका ॥ भस्त्रैषाजाज्ञाद्वास्वानञ्पूर्वाणामपि ।७।३।४७ ॥ स्त्र्यन्तं लुप्तषष्ठीकं पदम् । एषामत इद्वा स्यात् ॥ तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् ॥ एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनीं विभक्तिमाश्रित्याऽसुप् इति प्रति- षेधात् । अनेषका । परमैषका । अद्वके । परमद्वके । स्वशब्दग्रहणं संज्ञोपसर्जनार्थम् । इह हि ‘आतः स्थाने’ इत्यनुवृत्तं स्वशब्दस्यातो विशेषणम् । नतु द्वयोरसंभवात् । नाप्यन्येषाम- व्यभिचारात् । स्वशब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्थः । अर्थान्तरे तु न स्त्री । संज्ञोपस- १ ‘उदीचामातः स्थाने’ इति विकल्पबाधाय वार्तिकमिदमिति भावः ॥ २ क्षिपका, ध्रुवका, चरका, सेवका, करका, चटका, अवका, लहका, अलका, कन्यका, एडका । एते क्षिपकादयः । आकृति- गणोऽयम् ॥ ३ अन्यत्र सूतकावृन्दारकयोरित्यर्थः ॥ ४ ‘आतः’ इत्येतद्विशेषणभूते ‘यकपूर्वायाः’ इत्यत्र स्त्रीलिङ्गनिर्देशः स्त्रीत्वद्योतकत्वविवक्षार्थः इत्यभिप्रेत्याह-स्त्रीप्रत्ययाकारस्येति ॥ ५ ‘सांकाश्ये भवा’ इत्यर्थे ‘धन्वयोपधाद् वुञ्’ इति जातस्य वुञः स्थाने जातस्याकादेशस्यायमकारो न स्त्रीप्रत्ययाकारस्य स्थाने इति भावः ॥ ६ अत्र धातोरकारस्य स्थानेऽकारः नतु स्त्रीप्रत्ययाकारस्येति भावः ॥ ७ ‘पदाङ्गा- धिकारे तस्य च तदन्तस्य च’ इति पूर्वपदरहितानामितरपूर्वाणामपि सिद्धेरिति भावः ॥ ८ उपसर्जने तदन्तस्य भाषितपुंस्कत्वात् उत्तरसूत्रस्याप्राप्तेरिति भावः ॥ ९ अन्यस्य अनुपसर्जनस्य । उत्तरसूत्रेण ‘अभाषितपुंस्काच्च’ इत्यनेन ॥ १० ‘न + एतकद् सु’ ‘न + द्वि औ’ इति विग्रहे समासे ‘अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते’ इति पूर्वं सुब्लुकि समासात्प्रातिपदिकात्सुपि त्यदायत्वे टापि प्रत्ययलक्षणेन अन्तर्वर्तिसुपः पर एव टाबिति भावः ॥ ११ असंभावात् । अकचि ककारात्प्राक्तनस्याकारस्यौपदेशिकत्वेन स्त्रीप्रत्ययाकारस्य स्थानेऽजातत्वादिति भावः ॥ १२ अव्यभिचारादिति । स्त्रीप्रत्ययाकारस्थान एव सर्वत्र जातत्वेन व्यभिचाराभावादिति भावः ॥ १३ ‘अतो न तत्र स्त्रीप्रत्ययाकारस्थानिकत्वमकारस्य मेलतीति भावः ॥ १४ ‘तर्हि कथमकारस्य स्त्रीप्रत्ययाकारस्थानिकत्वं संभवेदिति शेषः ॥ ‘स्वा ज्ञातावा- त्मानि, स्वं त्रिष्वात्मीये, स्वोऽस्त्रियां धने’ इत्यमरादिति भावः ॥