वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 129, कुल 835 में से
संदर्भ में पढ़ेंगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन ‘लाश्रयमनुबन्धकार्यं नादेशानामिति ज्ञापनान्न भवति । श्वः शानचः शित्त्वेन ‘क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेध’ ज्ञापनाद्वा ॥ सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी । ऊरुद्वयी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ ताच्छीलिके णेऽपि ॥ चौरी । नञ्स्नञीकक्क्र्यूंस्तर- णतलुनानामुपसंख्यानम् * ॥ स्त्रैणी । पौंस्री । शाक्तीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥ यञश्च ॥४।१।१६ ॥ यञन्तात्स्त्रियां ङीप्स्यात् ॥ अकारलोपे कृते ॥ हलस्तद्धितस्य ।६।४। १५० ॥ हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादिति परे ॥ गार्गी ॥ अनपत्या- धिकारस्थान्न ङीप् ॥ द्वीपे भवा द्वैप्या ॥ अधिकारग्रहणान्नेह—