भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 130, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 130

।४।१।१८॥ लोहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् ॥ लौहित्यायनी । कात्यायनी ॥ कौरव्यमाण्डूकाभ्यां च ।४।१।१९॥ आभ्यां ष्फः स्यात् । टाप्डीपो- रपवादः । कुर्वादिभ्यो ण्यः । कौरव्यायणी । ढक् च मण्डूकादित्यण् । माण्डूकायनी ॥ औ- सुरेरुपसंख्यानम् * ॥ आसुरायणी ॥ वयसि प्रथमे ।४।१।२० ॥ प्रथमवयोवाचिनो- ऽदन्तात् स्त्रियां ङीप् स्यात् । कुमारी ॥ वयस्यचरम इति वाच्यम् * ॥ वधूट्टी । चिरण्टी । वधूटचिरण्टशब्दौ यौवनवाचिनौ ॥ अतः किम् ? शिशुः ॥ कन्याया न । कन्यायाः कनीन चेति निर्देशात् ॥ द्विगोः ।४।१।२१॥ अदन्ताद्विगोर्डीप् स्यात् ॥ त्रिलोकी । अजादित्वा- त्त्रिफला । त्र्यनीका सेना ॥ अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि ।४।१।२२ ॥ अपरिमाणान्ताद्विस्ताद्यन्ताच्च द्विगोर्डीप् न स्यात्तद्धितलुकि सति ॥ पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्टक् । अध्यर्धेति लुक् । द्वौ विस्तौ पचति द्विविस्ता । द्वयाचिता । द्विकम्बल्या । परिमाणान्तात्तु द्व्याढकी । तद्धितलुकि किम् ? समाहारे पञ्चाश्वी ॥ काण्डा- न्तात्क्षेत्रे ।४।१।२३ ॥ क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि ॥ द्वे काण्डे प्रमाणमस्याः सा द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे द्वयसजिति विहितस्य मात्रचः 'प्रमाणे लो द्विगोर्नित्यमिति लुक् ॥ क्षेत्रे किम् ? द्विकाण्डी रज्जुः ॥ पुरुषात्प्रमाणेऽन्यतरस्याम् ।४।१।२४ ॥ प्रमाणे यः पुरुषस्तदन्ताद्विगोर्डीप् वा स्यात्तद्धितलुकि ॥ द्वौ पुरुषौ ६ प्रमाण- मस्याः सा द्विपुरुषी द्विपुरुषा वा परिखा ॥ ऊधसोऽनङ् ।५।४।१३१ ॥ ऊधोऽन्तस्य बहु-


१ भाष्योपलब्धमपीदम् अकारस्य सवर्णदीर्घेणेष्टसिद्धौ 'यस्येति च' इतीकारलोपार्थेन 'ष्फ तद्धितः' इति तद्धितग्रहणेन ज्ञाप्यते इति नव्याः ॥ २ प्रकृतसूत्रभाष्ये कृतायाः यदि तर्हि यत्र संबन्धाद् वयो गम्यते तत्र न प्राप्नोति, इहापि तर्हि न प्राप्नोति कुमारीति । अत्रापि संबन्धाद्वयो गम्यते । कोऽसौ संबन्धः ? 'पुंसा सहसंप्रयोगः' इति शङ्कायाः 'संबन्धादेवात्र वयो गम्यते' इति समाधानस्य चावलोकनात् कुमारीशब्दस्य शब्दशक्तिस्वभावत एव पुंसाऽसंप्रयोग एव प्रवृत्तिनिमित्तम् ॥ सोसंप्रयोगश्च विवाहाभावेन तयोर्ग्यवयसोऽप्राप्त्या चेति द्विधा संभवति । तत्राद्ये जातिलक्षणो ङीष् भवतीति 'जातेरस्त्रीविषयात्' इति सूत्रभाष्ये स्पष्टम् । द्वितीयेऽनेन ङीप् भवतीति प्रकृतसूत्र- भाष्ये ॥ 'वृद्धकुमारी' इति प्रयोगो जातिलक्षणाद्डीषा सुसाध्य एवेति कथं तस्य गौणत्वमङ्गीकृतमिति विभावयन्तु भाष्यविदः ॥ संप्रयोगयोग्यवयस्तु 'ऊनषोडशवर्षायामप्राप्तः पंचविंशतिम् । यद्याधत्ते पुमान् गर्भं कुक्षिस्थः स विपद्यते ॥ जातो वा न चिरंञ्जीवेत् जीवेद्वा दुर्बलेन्द्रियः । तस्मादत्यन्तबालायां गर्भाधानं न कारयेत् ॥ पंचविंशे ततो वर्षे पुमान् नारी तु षोडशे । समत्वागतवीर्यौ तौ जानीयान्निपुणो भिषक् ॥' इति शारीरस्थाने दशमाध्याये सुश्रुताचार्येण दर्शितम् एवं च 'आषोडशाद्भवेद् बालस्तरुणस्तत उच्यते । वृद्धस्तु सप्ततेरूर्ध्वं वर्षीयान् नवतेः परः' ॥ इति चतुर्थी विभागो वयसो बोध्यः ॥ भाष्ये-असंप्रयोगशब्दश्च 'नक्षत्रं दृष्ट्वा वाचं विसृजेत्' इत्यादाविव कालवाचक इत्यभिप्रायेण 'वयो गम्यते' इत्युक्तमिति भावः ॥ ३ त्रिफलाशब्दस्याजादिवत्कल्पनमनर्थकम् । 'त्रेञ्' इति वार्तिकेन ङीप्निषेधसामर्थ्यान्ङीबपि न भवति । तयोरत्र विशेषाभावादिति कैयटः ॥ ४ 'सुवर्णबिस्तौ हेम्नोऽक्षे' 'आचितो दश भाराः स्युः' 'कम्बल्पमूर्णापलशतम्' ५ षोडशहस्तमितो दण्डः काण्डम् ॥ ६ 'पञ्चारत्निः पुरुषः' इति शुल्वसूत्रम् ॥