भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 132, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 132

स्त्रीप्रत्ययप्रकरणम् । ( ८१ ) विभाषा सपूर्वस्य । ४ । १ । ३४ ॥ पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः । गृहपतिः । गृहपत्नी । अनुपसर्जनस्येतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किंतु तदन्तस्य । तेन बहुव्रीहावपि—दृढपत्नी,—दृढपतिः । वृषलपत्नी । वृषलपतिः ॥ अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् ? पत्नीव पत्नीत्युपचारात् । यद्वा—आचारक्विन्तात्कर्तरि क्विप् । अस्मिंश्च पक्षे पत्नियौ पत्नियः इतीयङ्विषये विशेषः ॥ सपूर्वस्य किम् ? गवां पतिः स्त्री ॥ नित्यं सपत्न्यादिषु । ४ । १ । ३५ ॥ पूर्वविकल्पापवादः । समानस्य सभावोऽपि निपात्यते ॥ समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ॥ पूतक्रतोरै च । ४ । १ । ३६ ॥ इयं त्रिसूत्री पुंयोग एवेष्यते ॥ पूतक्रतोः स्त्री पूतक्रतायी