वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 137, कुल 835 में से
संदर्भ में पढ़ेंमध्येऽपवादन्यायात् । सहननञ्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः ॥ तुङ्गनासिकी तुङ्गनासिका इत्यादि ॥ नेह--सहनासिका । अनासिका ॥ अत्र वृत्तिः--अङ्गात्प्रकण्ठेभ्यो वक्तव्यम्* ॥ स्वङ्गी । स्वङ्गेत्यादि ॥ एतच्चानुक्तसमुच्चयार्थेन चकारेण संग्राहामिति केचित् ॥ भाष्याद्यनुक्तत्वा- दप्रमाणमिति प्रामाणिकाः ॥ अत्र वार्तिकानि ॥ पुच्छाच्च * ॥ सुपुच्छी । सुपुच्छा ॥ कबरम- णिविषशरेभ्यो नित्यम् * ॥ कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि ॥ उपमानात्पक्षाच्च पुच्छाच्च * ॥ नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥ न क्रोडादिवह्वचः ॥४।१।५६ ॥ क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् ॥ कल्याणक्रोडा । अश्वा- नामुरः क्रोडा । आकृतिगणोऽयम् । सुजघना ॥ सहननञ्विद्यमानपूर्वाच्च ॥४।१।५७ ॥ सहेत्यादित्रिकपूर्वान्न ङीष् ॥ संकेशा । अकेशा । विद्यमाननासिका ॥ नखमुखात्संज्ञायाम् ॥४।१।५८ ॥ ङीप् न स्यात् ॥ शूर्पणखा । गौरमुखा ॥ संज्ञायां किम् ? ताम्रमुखी कन्या ॥ दिक्पूर्वपदान्डीप् ॥४।१।६० ॥ दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् ॥ प्राङ्मुखी । आद्युदात्तं पदम् ॥ वाहः ॥४।१।६१ ॥ वाहन्तात्प्रातिपदि- कात् ङीप् स्यात् ॥ ङीषेवानुवर्तते, न ङीप् । दित्यवाट् च मे दित्यौही च मे ॥ सख्य- शिश्वीति भाषायाम् ॥४।१।६२ ॥ इति शब्दः प्रकारे भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी । आधेनवो धुनयन्तामशिश्वीः ॥ जाते- रस्त्रीविषयादयोपधात् ॥ ४ । १ । ६३ ॥ जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् ॥ आकृतिग्रहणा जातिः * ॥ अनुगतसंस्थानव्यङ्ग्येत्यर्थः । तटी ॥ लिङ्गानां च न सर्वभाक् ॥ सकृदाख्यातनिर्ग्राह्या * ॥ असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम्।वृषली।सत्यन्तं किम् ? शुक्ल ॥ १ मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान् । तेनौष्ठादिषु पञ्चसु असंयोगोपधादिति निषेध एव बाध्यते नतु सहननञ्विद्यमान इति । पूर्वोपस्थितबाधेन नैराकाङ्क्ष्यमस्य बीजम् ॥ २ क्रोड, नख, खुर, उखा, बाल, शफ, गुद । आकृतिगणोऽयम् । तेन भग, गल, घ्रोण, नाल, भुज, कर, इत्यादि । इति क्रोडादिः ॥ ३ नान्दीमुख्यौ मातर इत्यत्र तु न निषेधः निषेधसूत्रे संज्ञापदेन पौरुषेयसंज्ञाया एव ग्रहणेन ईश्वरीयसंज्ञायां निषेधाप्रवृत्तेरिति भावः ॥ ४ कस्यांचिच्छाखायां ‘ सखा सप्तपदी भव ’ इति तु ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते ’ इति ङीषभावे द्रष्टव्यम् ॥ ५ जातौ स्त्रीविषयत्वायोपधत्वादीनामभावात्तद्वाचकशब्दोपादानमित्याह-जातिवाचीति ॥ ६ इदं श्लोक- वार्तिकम् ॥ ७ ‘ आकृतिर्जातिलिङ्गाख्या ’ ( २।६५ ) इति गौतमसूत्रम् । ‘ यया जातिर्जाति- लिङ्गानि च प्रख्यायन्ते तामाकृतिं विद्यात् । सा च नान्यत्सत्त्वावयवानां तदवयवानां च नियताद् व्यूहादिति । नियतावयव्यूहाः खलु सत्त्वावयवा जातिलिङ्गम् । शिरसा पादेन गामनुमिन्वन्ति । नियते च सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायते ’ इति वात्स्यायनभाष्यं च मनसि निधायाह-अनुगतेति ॥ ८ मनुष्यमात्रे संस्थानस्यानुगतत्वेन वृषल्यादिजाति- ग्राहकसंस्थाने विशेषाभावाद् वृषलादिजातिसंभवाभाव इत्यतो लक्षणान्तरमाह-लिङ्गानां चेति ॥