वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 138, कुल 835 में से
संदर्भ में पढ़ेंसकृदित्यादिकिम् ? देवदत्ता ॥ गोत्रं च चरणैः सह * ॥ अपत्यप्रत्ययान्तः शाखाध्येतृवाची च शब्दो जातिकार्यं लभत इत्यर्थः ॥ औपगवी । कठी । बह्वृची ॥ ब्राह्मणीत्यत्र तु शार्ङ्गरवादिपाठात् ङीनो ङीष् बाध्यते । जातेः किम् ? मुण्डा ॥ अस्त्रीविषयात्किम् ? बलाका ॥ अयोपधात्किम् ? क्षत्रिया ॥ योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः * ॥ हयी । गवयी । मुक्यी । हलस्तद्धितस्येति यलोपः—मनुषी ॥ मत्स्यस्य ङ्याम् * ॥ मत्स्यी ॥ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ।४।१।६४ ॥ पाकाद्युत्तरपदाज्जातिवाचिनः स्त्री- विषयादपि ङीष् स्यात् ॥ ओदनपाकी । शंकुकर्णी ॥ शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूर्ला । गोवाली । ओषधिविशेषे रूढा एते ॥ इतो मनुष्यजातेः ।४।१।६५॥ ङीष् स्यात् । दाक्षी । योपवादपि । उदमेयस्यापत्यं औदमेयी ॥ मनुष्येति किम् ? तित्तिरिः ॥ ऊङुतः ।४।१।६६॥ उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् ॥ कुरूः 'कुरुनादिभ्यो- ण्यः' तस्य 'स्त्रियामवन्तीत्यादिना लुक् ॥ अयोपधात्किम् ? अध्वर्युः ॥ अप्राणिजातेश्चा- रज्जवादीनामुपसंख्यानम् * ॥ रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव । अलाब्वो । कर्कन्ध्वा । अनयोर्दीर्घान्तत्वेऽपि 'नोद्धातोरिति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् ॥ प्राणिजातेस्तु कृकवाकुः ॥ रज्ज्वादेस्तु–रज्जुः । हनुः ॥ बाह्वन्तात्संज्ञायाम् ।४।१।६७ ॥ स्त्रियामूङ् स्यात् ॥ भद्रबाहूः ॥ संज्ञायां किम् ? वृत्तबाहुः ॥ पङ्गोश्च ।४।१।६८ ॥ पङ्गूः ॥ श्वशुर- स्योकाराकारलोपश्च * ॥ चादूङ् । पुंयोगलक्षणस्य ङीषोऽपवादः ॥ लिङ्गविशिष्टपरि- भाषया स्वादयः—श्वश्रूः ॥ ऊरूत्तरपदादौपम्ये ।४।१।६९ ॥ उपमानवाचिपूर्वपदमूरू- १ अपत्यप्रत्ययान्ते शाखाध्येतरि च संस्थानविशेषाभावात् व्यक्त्यन्तरे सुग्रहत्वाभावाच्च जातिकार्यं न प्राप्नोतीत्यतो जातिकार्यमतिदिशति–अपत्यप्रत्ययान्त इति ॥ २ कठीति । कठेन प्रोक्तम् अधीत इति वैशम्पायनान्तेवासित्वाज्जातस्य णिनेः 'कठचरकाल्लुक्' इति लुकि कठशब्दः कठप्रोक्तवेदाध्यायिवा- चकत्वाज्जातिकार्यं ङीषं लभते ॥ स्त्रीणामपि पतिसमानमेव वेदाध्ययनादिष्वाधिकारिकम् 'स्त्री चाविशेषात्' 'दर्शनाच्च' इति श्रौतसूत्रे कात्यायनः, 'जातिं तु बादरायणः तस्माद अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्' इति पूर्वमीमांसायां जैमिनिः, 'काशकृत्स्निना प्रोक्तां मीमांसाम- धीते काशकृत्स्ना ब्राह्मणी' 'उपेत्याधीयतेऽस्या इति उपाध्यायी उपाध्याया' इत्युदाहरण- मुपन्यस्यन् भगवान्भाष्यकारश्च स्वीकरोत्येवेति भावः ॥ तद्रूप्यत्वेन ताच्छन्द्ये तु 'वृषली' इत्यत्रेव 'सकृ- दाख्यातनिर्याह्या' इत्यनेनैव सकलेष्टसिद्धौ 'गोत्रं च चरणैः सह' इत्यस्य वैयर्थ्यापत्तिः स्यादिति बोध्यम् ॥ किंच 'अनुपसर्जनात्' इति सूत्रे तु स्वयमपि भाष्योक्ते एवोदाहरणे 'काशकृत्स्ना आपि- शला' इति स्वीकृतवान् । अत्राधिकाराभावमिति पूर्वापरविरोधो विचार्य एवेति बोध्यम् ॥ ३ इञ उपसं- ख्यानम् * । सौतंगमी । मौनिचिती । तेन निर्वृत्तमित्यर्थे 'वुञ्छण्'-इति चातुरर्थिक इञ् ॥ ४ कुरुशब्दस्य जातिकार्यसंपत्तये ऽपत्यप्रत्ययान्तत्वं दर्शयति-कुरुनादिभ्य इत्यादिना । 'जनपदसमानशब्दात्क्षत्रियात्' इत्य- नुवृत्त्या अपत्ये ण्य इति भावः ॥ ५' ङ्याप्प्रातिपदिकात्' इति सूत्रभाष्ये "उवर्णान्तःदूङ् विधीयते । तत्रै- कादेशः । एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति" इति ग्रन्थेन तु श्वशूरशब्देऽ- व्युत्पन्नत्वं ध्वन्यते ॥ ६ उपमीयते इति उपमा । कर्मण्यङ् । उपमेयम् । तद्भाव औपम्यम् । तत्रोपमेयत्व- विषयवर्तमानोत्तरपदादित्यर्थ .ऊरुत्तरपदस्योपमेयत्वं पूर्वपदस्योपमानवाचित्व एव संभवतीत्यभिप्रेत्याह- उपमानवाचीति ॥-