वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 145, कुल 835 में से
संदर्भ में पढ़ेंवाहयति वा भारं भृत्येन ॥ नियन्तृकर्तृकस्य वहेरनिषेधः * ॥ वाहयति रथं वाहान् सूतः ॥ आदिखाद्योर्न *॥ आदयति खादयति वान्नं वटुनो ॥ भक्षेरहिंसार्थस्य न *॥ भक्षयत्यन्नं वटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्द्दान् सस्यम् ॥ जल्पतिप्रभृतीना- मुपसंख्यानम् * ॥ जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ॥ दृशेश्च * ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणम्, न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते । तेन स्मरतिजिघ्रतीत्यादीनां न–स्मारयति घ्रापयति वा देवदत्तेन ॥ शब्दायतेर्न * ॥ शब्दाययति देवदत्तेन । धात्वर्थसंगृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः ॥ येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्मणोऽपि । तेन मासमासयति देवदत्तमित्यादौ