वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 146, कुल 835 में से
संदर्भ में पढ़ेंकारकप्रकरणम् । (९५) हृक्रोरण्यौ यः कर्ता स णौ वा कर्म स्यात् ॥ हारयति कारयति वा भृत्यं भृत्येन वा कटम् ॥ अभिवादिदृशोरात्मनेपदे वेति वाच्यम् * ॥ अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ॥ अधिशीङ्स्थासां कर्म । १।४।४६ ॥ अधिपूर्वाणामेषामाधारः कर्म स्यात् ॥ अधि- शेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥ अभिनिविशश्च । १ । ४ । ४७ ॥ अभिनीत्ये- तत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् ॥ अभिनिविशते सन्मार्गम् ॥ परिक्रयणे संप्रदानमिति सूत्रादिह मण्डूकप्लुत्याऽन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्न । पापेऽभिनि- वेशः ॥ उपान्वध्याङ्वसः । १।४।४८ ॥ उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिः ॥ अभुक्त्यर्थस्य न * ॥ वने उपवसति। उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ॥ द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते * उभयतः कृष्णं गोपाः सर्वतः कृष्णम् । धिक् कृष्णभक्तम्। उपर्युपरि लोकं हरिः । अध्यधि लोकम्। अधोऽधो लोकम्॥ अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि * ॥ अभितः कृष्णम् । परितः कृष्णम्। ग्रामं समया। निकषा लङ्काम् । हा कृष्णभक्तम् । तस्य शोच्यतेत्यर्थः । बुभुक्षितं न प्रति- भाति किंचित् ॥ अन्तरान्तरेण युक्ते ।२।३।४ ॥ आभ्यां योगे द्वितीया स्यात् । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् । कर्मप्रवचनीयाः । १।४।८३ ॥ इत्यधिकृत्य ॥ अनुर्ल- क्षणे । १।४।८४ ॥ लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ॥ कर्मप्रवचनी- ययुक्ते द्वितीया । २।३।८॥ एतेन योगे द्वितीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपल- १ भृत्यनिष्ठकटहरणानुकूलव्यापारानुकूलो देवदत्तनिष्ठो व्यापार इति बोधः ॥ २ हरिनिष्ठो वैकुण्ठ- कर्मकाधिशयनानुकूलो व्यापार इति बोधः ॥ ३ ‘सत्त्वे निविशते ।’ इति भाष्यप्रयोगे द्वितीयाया अदर्शनेन ‘अभिपूर्वनिपूर्वविश=अभिनिविश्’ इत्यङ्गीकारफलितमर्थमाह-संघातेत्यादि ॥ ४ यदि तु ‘देवत्रातो गलो ग्राहः’ इति व्यवस्थितविभाषाः परिगणिताः इति विभाव्यते, तदा ‘एष्वर्थेष्व- भिनिविष्टानाम्’ इति भाष्ये प्रयोगाद् ‘अभिनिविश्’ इत्यविकृतानुपूर्व्या एव ग्रहणविवक्षणेन न ‘पापेऽभिनिवेशः’ इत्यत्र कर्मत्वापत्तिरिति बोध्यम् ॥ ५ ‘अश्यर्थस्य न’ इत्येतद्वार्तिकम् ‘मशकार्थो धूमः’ इतीव ‘भोजननिवृत्त्यर्थस्य न’ इति फलितार्थकमर्थतो वदति-अभुक्त्यर्थस्येति ॥ हरिदिन- मुपोषित इत्यादौ तु ‘कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया ॥ ६ कारकविभक्तिद्वितीयाप्रकरणमुपन्यस्य उपपदविभक्तिद्वितीयाप्रकरणमुपन्यस्यति-उभसर्वतसोरिति । उभसर्वयोस्तसाविति विग्रहः ॥ उभशब्द- सर्वशब्दप्रकृतिकतसन्तयोगे इत्यर्थः । नित्यशब्दस्य प्रायःशब्दपर्यायत्वं ध्वनयन्नेवात्र नैव कृतोऽयमिति बोध्यम् ॥ ७ धिग् मूर्खेत्यत्र तु गच्छेत्यादिक्रियान्वये प्रथमैव । अनध्याहारे तु द्वितीयैव ॥ ८ ‘उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः’ इत्यस्य तु ‘उपरि बुद्धीनां श्रेष्ठबुद्धीनाम् उपरि ईश्वरबुद्धयश्चरन्ति’ इत्येवार्थः । तेनाम्रेडितत्वाभावेन नैव द्वितीयापत्तिरिति बोध्यम् ॥ ९ ‘विभाषा कृञि’ इति यावत् ॥ १० लक्ष्यते ज्ञायतेऽनेनेति लक्षणम् । ज्ञानजनकज्ञानविषयत्वं हि लक्षणत्वमिति वृष्टिः करणभूतजपज्ञापिकेति दृष्ट्या ज्ञानेन रहस्यकारितजपज्ञानं जायते इति हेतुभूतजप उपलक्षितो येनेति । ‘वाहिताग्न्यादिषु’ इति निष्ठान्तस्य परप्रयोगः सूत्रे लक्षणशब्दोऽर्शआद्यजन्तो लक्ष्यपर इति लक्ष्याज्जपाद् द्वितीया इति भावः। प्राञ्चस्तु जपज्ञानेन वर्षणज्ञानं जायत इति जपो लक्षणम् वृष्टिलक्ष्यम् इति वदन्ति ॥