वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 152, कुल 835 में से
संदर्भ में पढ़ेंचतुर्थी स्यात् ॥ हरये नमः ॥ उपपदविभक्तेः कारकविभक्तिर्बलीयसी ॥ नमस्करोति देवान् ॥ प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा ॥ अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि ॥ प्रभ्वादियोगे षष्ठ्यपि साधुः । तस्मै प्रभवति ‘स एषां ग्रामणीरिति निर्देशात् । तेन ‘प्रभुर्बुभूषुर्भूवनत्रयस्येति सिद्धम् ॥ वषडिन्द्राय ॥ चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि ‘चतुर्थी चाशिषीति’ षष्ठीं बाधित्वा चतुर्थ्येव भवति। स्वस्ति गोभ्यो भूयात् ॥मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ।२।३।१७॥ प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे॥ न त्वां तृणं मन्ये तृणाय वा ॥ श्यना निर्देशात्तानादिकयोगे न-न त्वां तृणं मन्वे ॥ अप्राणिष्वित्यपनीय, नौकाकान्नशुकशृगालवर्जिष्विति वाच्यम् * ॥ तेन ‘न त्वां नावमन्नं वा मन्ये’ इत्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने मन्ये इत्यत्र प्राणित्वेऽपि भवत्येव ॥ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि ।२।३।१२ ॥ अध्वभिन्ने गत्यर्थानां कर्मणि एते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति ॥ चेष्टायां किम् ? मनसा हरिं व्रजति ॥ अनध्वनीति किम् ? पन्थानं गच्छति ॥ गन्त्राधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥ ध्रुवमपायेऽपादानम् १।४।२४ ॥ अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारक- मपादानं स्यात् ॥ अपादाने पञ्चमी ।२।३।२८ ॥ ग्रामादायाति । धावतोऽश्वात्पतति ॥ कारकं किम् ? वृक्षस्य पर्णं पतति ॥ वा जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् * ॥ १ स्वसमभिव्याहृतपदविशेषनिमित्तका विभक्तिरुपपदविभक्तिः । कारकाधिकारीयसंज्ञाविशेषरूपस्वार्थनि- मित्तका कारकविभक्तिः । तथा च कारकस्य स्वार्थत्वात्तन्निमित्तकविभक्तेरन्तरङ्गत्वम्, स्वसमभिव्याहृतपदान्तर योगनिमित्तकत्वादुपपदविभक्तेर्बहिरङ्गत्वम् एवं चान्तरङ्गपरिभाषाफलितत्वेऽपि पृथगुपन्यासः प्रपञ्चार्थः ‘अभ्यर्हितं च’ इत्यनेनैव सिद्धौ ‘वर्णानामानुपूर्व्येण’ ‘भ्रातुश्च ज्यायसः’ इत्यनयोरिवेति न वाचनिकत्वकल्पने गौरवमिति बोध्यम् ॥ २ ‘स्वस्तिर्भवतु मे नित्यम्’ इति भविष्योत्तरे प्रयोगादनव्ययमपि स्वस्तिशब्दः ॥ ३ श्यन्निर्देशो न श्यन्विशिष्टोपादानार्थः किंतु तानादिकव्युत्पत्त्यर्थ एव । तेन दैवादिकादेव श्यन्सत्त्वे प्रत्यया- न्तरसत्त्वे वा चतुर्थी भवत्येवेति ‘तृणाय मत्वा रघुनन्दनो न’ इति भट्टिप्रयोगोपपत्तिरिति बोध्यम् ॥ ४ अपायः संयोगनाशको व्यापार इति संयोगनाशौ स्वरूपसत्ताविव बुद्धिकल्पितावपि गृह्येते इति ‘माथुराः पाटलिपुत्रेभ्य आढ्यतराः’ इति बुद्धिकल्पितमाथुरपाटलिपुत्रसंयोगनाशमेवाश्रित्य भाष्यकृत्तोक्तं पञ्चमीसाधनं संगच्छते । असतोपि बुद्धौ कल्पनं भवत्येवेति शशशृङ्गादिशब्दानां प्रातिपदिकत्वसिद्धिः स्थाल्यादीनां कर्तृत्व- सिद्धिश्चेति बोध्यम् ॥ ५ ध्रुवस्य निश्चलपर्यायत्वे ‘त्रस्तादश्वात्पतितः’ ‘सार्थाद्गच्छतो हीनः’ इत्यादावश्वसार्था- दीनां निश्चलत्वाभावेनापादानसंज्ञानुपपत्तिमाशङ्क्य ‘न वाध्रौव्यस्याविवक्षितत्वात्’ इति समाधानं कृतवान् वार्ति- ककारः । तत्र ध्रुवत्वमविवक्षितमिति ध्रुवाध्रुवयोरुभयोरपि संयोगाश्रयत्वेन विवक्षितयोर्बौद्धसंयोगनाशावधित्व- मात्रविवक्षयाऽपादानत्वसिद्धिरित्यभिप्रायेण व्याचष्टे-ध्रुवमवधिभूतमिति । अवधिभूतत्वेनैव विवक्षितं चलम् अचलं वापादानसंज्ञमित्यर्थः ॥ ६ निश्चलं विभागावधिं दर्शयति-ग्रामादिति ॥ चलस्याप्यवधि- त्वमात्रविवक्षाफलं दर्शयितुं विशिनष्टि-धावत इति ॥ धावनकर्त्रश्वापादानकं पतनमिति बोधः ॥ ७ वृक्षस्येति । पर्णपतनावधित्वस्य वृक्षे सत्त्वेऽपि यदा ‘वृक्षावधिकं पर्णकर्तृकं पतनम्’ इति बोधे वृक्षस्य पत- नक्रियायामन्वयित्वेन कारकत्वं तदाऽपादानसंज्ञायां ‘वृक्षात्’ इति पञ्चमी भवत्येव ॥ यदा तु ‘वृक्षसंबन्धिपर्ण- कर्तृकं पतनम्’ इति बोधे वृक्षस्य पर्ण एव संबन्धित्वेनान्वयः तदा वृक्षस्य क्रियान्वयित्वाभावात्कारकत्वाभावेपि पञ्चमी मा भूदिति ‘कारकम्’ इत्युपात्तम् ॥ ८ ‘दुःखोऽधर्मो नानेन कृत्यमस्ति’ इति बुद्ध्या संप्राप्य निवर्तते इत्येव बौद्धविभागासिद्धापादानसंज्ञानुवादकं वार्तिकमाह-जुगुप्सेति ॥ पापापादानकं जुगुप्सनं विरमणम् वेति बोधः ॥