वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 157, कुल 835 में से
संदर्भ में पढ़ेंप्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि ॥ षष्ठयतसर्थप्रत्ययेन ।२।३।३० ॥ एतद्योगे षष्ठी स्यात् । दिक्शब्देति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः पुरः पुरस्तात् उपरि उपरिष्टात् ॥ एनपा द्वितीया ॥ २।३।३१ ॥ एनबन्तेन योगे द्वितीया स्यात् ॥ एनपेति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥ दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ॥ २।३।३४ ॥ एतैर्योगे षष्ठी स्यात्पञ्चमी च ॥ दूरं निकटं ग्रामस्य ग्रामाद्वा ॥ ज्ञोऽविदर्थस्य करणे ॥ २।३।५१ ॥ जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् ॥ सर्पिषो ज्ञानम् ॥ अधीगर्थदयेशां कर्मणि ॥ २।३।५२ ॥ एषां कर्मणि शेषे षष्ठी स्यात् ॥ मातुः स्मरणम् । सर्पिषो दयनम् । ईशनं वा ॥ कृञः प्रत