वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 158, कुल 835 में से
संदर्भ में पढ़ेंकारकप्रकरणम् । ( १०७ ) तत्संबन्धिनी याञ्चेत्यर्थः ॥ जासिनिप्रहणनाटक्राथपिषां हिंसायाम् । २ । ३ । ५६ ॥ हिंसार्थानामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा ॥ नट अवस्कन्दने चुरा- दिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् ॥ हिंसायां किम् ? धानापेषणम् ॥ व्यवहृपणोः समर्थयोः । २ । ३ । ५७ ॥ शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रयविक्रयव्यव- हारे चानयोस्तुल्यार्थता । शतस्य व्यवहारणं पणनं वा ॥ समर्थयोः किम् ? शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनम् । स्तुतिरित्यर्थः ॥ दिवस्तदर्थस्य । २ । ३ । ५८ ॥ द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शत