वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
कारकप्रकरणम् । ( १०७ ) तत्संबन्धिनी याञ्चेत्यर्थः ॥ जासिनिप्रहणनाटक्राथपिषां हिंसायाम् । २ । ३ । ५६ ॥ हिंसार्थानामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा ॥ नट अवस्कन्दने चुरा- दिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् ॥ हिंसायां किम् ? धानापेषणम् ॥ व्यवहृपणोः समर्थयोः । २ । ३ । ५७ ॥ शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रयविक्रयव्यव- हारे चानयोस्तुल्यार्थता । शतस्य व्यवहारणं पणनं वा ॥ समर्थयोः किम् ? शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनम् । स्तुतिरित्यर्थः ॥ दिवस्तदर्थस्य । २ । ३ । ५८ ॥ द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शत
( १०८ ) सिद्धान्तकौमुद्याम्-
गुणकर्मणि वेष्यते*॥ नेताऽश्वस्य स्रुघ्नस्य स्रुघ्नं वा ॥ २कृति किम् ? ३तद्धिते मा भूत् । कृतपूर्वी कटम् ॥ उभयप्राप्तौ कर्मणि । २ । ३ । ६६ ॥ ४उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् ॥ आश्चर्यो गवां दोहोऽगोपेन ॥ ५स्त्रीप्रत्यययोरकाकारयोर्नायं नियमः * ॥ भेदिका विभित्सा वा रुद्रस्य जगतः ॥ शेषे विभाषा * ॥ स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिर्हरे- र्हरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति-शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥ क्तस्य १ “अथेह कथं भवितव्यम्-‘नेताऽश्वस्य स्रुघ्नम्' इति आहोस्वित् ‘नेताऽश्वस्य स्रुघ्नस्य इति इत्याक्षेपस्य ‘उभयथा गोणिकापुत्रः’ इति समाधानस्य “अकथित” सूत्रभाष्योक्तस्य फलितम् ‘प्रधाने नियता षष्ठी गुणे तूभयथा भवेत्' इति कैश्चित्पठितं मनसि निधायाह-गुणकर्मणीति ॥ २ ‘कर्तृकर्मणोः' इत्येतावन्मात्रे सूत्रेऽपि कृते कर्तृकर्मभ्यां क्रियाया आक्षेपे क्रियावाचकस्य धातोः ‘न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः' इति “परश्च” इति सूत्रफलितन्यायेन प्रत्ययविशिष्ट- स्यैव प्रयोगे प्राप्ते तिङ्प्रयोगे प्राप्तायाः षष्ठ्याः “'न लोकाव्यय” इति निषेधस्येष्टसाधकत्वेन कृदन्तक्रिया- प्रयोग एवेष्टा षष्ठी भविष्यतीति नार्थः ‘कृति' इति ग्रहणेनेति शङ्कते-कृतीति किमिति ॥ ३ एवं सिद्धे सति कृद्ग्रहणं ‘कृदन्तशक्तिग्रहमात्रप्रयोज्योपस्थितिविषयक्रियानिरूपितकर्तृकर्मणोरेव' षष्ठी यथा स्यात्, तद्धितान्तशक्तिग्रहमात्रप्रयोज्योपस्थितिविषयक्रियानिरूपितकर्तृकर्मणोर्मा भूत् इति नियमार्थमे- वेति नियमव्यावर्त्यमाह-तद्धिते मा भूदिति । व्यावत्र्त्यमुदाहरणं स्पष्टतया निर्दिशति-कृतपूर्वी कट- मिति । अयं भावः- कृधातोः सकर्मकत्वे निष्ठया कर्मण उक्तत्वेन कटशब्दात् षष्ठ्या अनापत्तेरिव द्वितीयाया अप्यनुपपत्तेः प्रथमाया आपत्तेश्च पूर्वे कर्मणोऽविवक्षयाऽकर्मकत्वमाश्रित्य भाव एव निष्ठां कृत्वा कृतशब्दं भावक्तान्तं मनसि निधाय ‘कृतं पूर्वमनेन' इति विग्रहे ‘पूर्वादिनिः’ ‘सपूर्वाच्च' इति कृतपूर्वशब्दादि- निप्रत्यये ‘कृतपूर्विन्' शब्दे निष्पन्ने तेन कर्मण आकाङ्क्षायाम् उपस्थापितस्य कर्मभूतस्य कटस्य तद्धितान्त- कृतपूर्विन्शब्दे-नानभिहितत्वेन षष्ठ्यापत्तिदुर्वारैव स्यादिति नियमाश्रयणे तद्धितान्तकृतपूर्विन्शक्तिग्रहमात्र- प्रयोज्योपस्थितिविषयक्रियानिरूपितत्वात् कृदन्तकृतशब्दशक्तिग्रहमात्रप्रयोज्योपस्थितिविषयक्रियानिरूपित- त्वाभावाच्च कटरूपकर्मणो न षष्ठ्यापत्तिः ईदृशरीत्या भावे क्तसाधनं तु न सर्वत्र, किंतु कृतपूर्व्यादितद्धि- तान्तविषयमेवेति भाष्ये स्पष्टम् ॥ निष्ठान्तशक्तिग्रहमात्रप्रयोज्योपस्थितिविषयक्रियानिरूपितकर्मण एव षष्ठी- निषेधकं ‘न लोका' इति सूत्रमिति न तेनेह षष्ठीनिषेधप्राप्तिरिति षष्ठ्यनापत्तये नियमाश्रयणमावश्यक- मेवेति ॥ तण्डुलानां पाचकतर इत्यादौ तु तरप्प्रत्ययरहितानां पाचक इत्यादीनामपि लोके पृथक्प्रयोग- दर्शनात् कृदन्तशक्तिग्रहमात्रप्रयोज्योपस्थितिविषयक्रियानिरूपितकर्मत्वं तण्डुलादीनामव्याहतमेवेति षष्ठी निर्वाधैवेति बोध्यम् ॥ ४ उभयोः प्राप्तिरिति । प्रयोगे सत्येव प्राप्तेर्योग्यतया ‘उभयोः प्रयोग एव प्राप्तिर्यस्मिन्नित्येवार्थो बोध्यः' इति ‘आत्ममाने' इति निर्देशेन प्रतीयते तत्र कर्तुः प्रयोगाभावेन ‘उभय- प्राप्तौ कर्मणि' इत्यस्याप्रवृत्त्या ‘कर्तृकर्मणोः कृति’ इत्यनेनैव षष्ठ्यां जातायां ‘कर्मणि च’ इत्यत्र चकारेण ‘कर्मणि' इतिपदघटितसूत्रस्यैव ग्रहणेन तत्पदघटितसूत्रविहितषष्ठ्या एव समासनिषेधादत्र समासेन ध्वनि- ताया ‘उभयप्राप्तौ' इत्यस्याप्रवृत्तेः ‘उभयोः प्रयोगे प्राप्तिर्यत्र इति' समासाङ्गीकार एव संभवादिति बोध्यम् ॥ ५ ‘अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम्' इति उभयप्राप्तौ कर्तृषष्ठ्याः प्रतिप्रसवेन भावार्थकावेवाकाकारौ गृह्येते तौ च ‘स्त्रियां क्तिन्' इत्यधिकारविहितावेवेत्याशयेनाह-स्त्रीप्रत्यययोरिति ॥ भेदिकेति । ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्' ॥
कारकम्रकरणम् । ( १०९ ) च वर्तमाने । २ । ३ । ६७ ॥ वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । न लोकेति निषे- धस्याऽपवादः । राज्ञां मतो बुद्धः पूजितो वा ॥ अधिकरणवाचिनश्च । २ । ३ । ६८ ॥ क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं वा ॥ न लोकाव्ययनिष्ठाखलर्थ- तृनाम् । २ । ३ । ६९ ॥ एषां प्रयोगे षष्ठी न स्यात् । लादेशः-कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उैः-हरिं दिदृक्षुः । अलंकारिष्णुर्वा । उक-दैत्यान् घातुको हरिः ॥ कमेर्निषेधः * ॥ लक्ष्म्याः कामुको हरिः ॥ अव्ययम्-जगत् सृष्ट्वा । सुखं कर्तुम् । निष्ठा-विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः-ईषत्करः प्रपञ्चो हरिणा ॥ तृन्निति प्रत्याहारः शतृशान- चाविति तृशब्दादारभ्य तृनो नकारात्
भावः कृष्णेन । ततः—कर्तरि वा ॥ उक्तोऽर्थः ॥ तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यत- रसframe्याम् । २ । ३ । ७२ ॥ तुल्यार्थैर्योगे तृतीया वा स्यात्पक्षे षष्ठी ॥ तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा ॥ अतुलोपमाभ्यां किम् ? तुला उपमा वा कृष्णस्य नास्ति ॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः । २।३।७३ ॥ एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी आशिषि ॥ आयुष्यं चिरञ्जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं, कुशलं निरामयं, सुखं शम्, अर्थः प्रयोजन, हितं पथ्यं वा भूयात् ॥ आशिषि किम् ? देवदत्तस्यायुष्य- मस्ति॥ २व्याख्यानात्सर्वत्रार्थग्रहणम्। मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः॥ आधारोऽधि- करणम् । १।४।४५ ॥ ३कर्तृकर्मद्वारा तन्निष्ठक्रिया
१ योगः संयोगसमवायात्मकः ॥ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥' ॥ १ ॥ २ ३ हेतौ तृतीयाऽत्र प्राप्ता तन्निवारणार्थमिदम् । सीमाऽण्डकोशः । पुष्कलको गन्धमृगः ॥ योगविशेषे किम् ? वेतनेन धान्यं लुनाति ॥ यस्य च भावेन भावलक्ष- णम् । २।३।३७ ॥ यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् ॥ गोषु दुह्यमानासु गतः ॥ ४ अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च *॥ ५ सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥ षष्ठी चानादरे । २।३।३८ ॥ अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः ॥ ६ रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः
shape, and a blob!
Wait, could it be: निर्देशात्?
Wait, if it's निर्देशात्, then what is the letter after it?
Wait, is that letter 'य'?
Yes, it's 'य'!
Wait, why "निर्देशात् य"?
Because: "भावप्रधानत्वान्निर्देशात् य ईश्वरत्वपर इति" or "भावप्रधानत्वान्निर्देशाद्य ईश्वरत्वपर इति" (sandhi: निर्देशात् + यः = निर्देशाद्यः / निर्देशाद् यः)!
Wait, or is that blob an anusvara? No, it's too big, it's a smudge.
Wait, could it be: भावप्रधानत्वान्निर्देशात् 'य' ईश्वरत्वपर इति?
Notice: 'यस्य चेश्वरवचनम्' has TWO words: 'यस्य' and 'ईश्वरवचनम्'!
Wait! "यस्य" begins with 'य'!
Could it say: भावप्रधानत्वान्निर्देशात् 'य' ईश्वरत्वपर इति?
Wait, no: 'ईश्वर' is ঈশ্বরत्वपर, not 'य'!
The text says:
'ईश्वरशब्दो भावप्रधानत्वान्निर्देश... ईश्वरत्वपर' इति 'यस्य' इति षष्ठ्या निष्ठत्वं निरूपितत्वं वाऽर्थः ।
Notice the structure:
ईश्वरशब्दो ... ईश्वरत्वपर इति(Explanation of ईश्वरशब्द)- `'यस्य' इति षष्ठ्या निष्ठ
प्राक्कडारात्समासः ।२।१।३ ॥ कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते ॥ सह सुपा । २।१।४ ॥ सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते ॥ योगविभाग- स्येष्टसिद्धयर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्य- चलत् ॥ सुपा । २।१।४ ॥ सुप्सुपा सह समस्यते ॥ समासत्वात्प्रातिपदिकत्वम् ॥ सुपो धातुप्रातिपदिकयोः । २।४।७१ ॥ एतयोरवयवस्य सुपो लुक् स्यात् ॥ भूतपूर्वे चरडिति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः ॥ इवेन समासो विभक्त्यलोपश्च * ॥ जीमूतस्येव ॥ अव्ययीभावः । २।१।५ ॥ अधिकारोऽयम् ॥ अव्ययं विभक्तिसमीपस- म्मृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूूर्व्ययौगपद्यसादृश्यसंपत्ति- -त्यादि
साकल्यान्तवचनेषु । २ । १ । ६ ॥ अव्ययमिति योगो¹ विभज्यते । अव्ययं समर्थेन सह समस्यते सोऽव्ययीभावः ॥ प्रथमानिर्दिष्टं समास उपसर्जनम् । १ । २ । ४३ ॥ समासशास्त्रे² प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥ उपसर्जनं पूर्वम् । २ । २ । ३० ॥ समासे उपसर्जनं प्राक्प्रयोज्यम् ॥ एकविभक्ति चापूर्वनिपाते । १ । २ । ४४ ॥ विग्रहे³ यन्नियतविभक्तिकं तदुप- सर्जनसंज्ञं स्यात् नतु तस्य पूर्वनिपातः ॥ गोस्त्रियोरुपसर्जनस्य । १ । २ । ४८ ॥ उपसर्जनं⁴ यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् ॥ अव्ययीभावश्चेत्यव्य- यत्वम् ॥ नाव्ययीभावादतोऽम् त्वपञ्चम्याः । २ । ४ । ८३ ॥ अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमीं विना अमादेशः ॥ दिशयोर्मध्ये अपदिशम् । क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक्रियामित्यमरः ॥ तृतीयासप्तम्योर्बहुलम् । २ । ४ । ८४ ॥ अदन्तादव्ययी- भावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात् ॥ अपदिशम् । अपदिशेन । अपदिशम् । अपदिशे । बहुलग्रहणात्⁵सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः ॥ विभक्त्यादेरयमर्थः—विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते सोऽव्य- यीभावः ॥ विभक्तौ तावत्—हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र⁶ द्योतकोऽधिः । हरि ङि अधि
१ योगो विभज्यते इति । 'क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक स्त्रियाम्' इत्यमराद्युक्तिसंवादेनापदिश- शब्दस्य दिङ्मध्यवाचित्वनिर्णये मध्यरूपार्थस्य सूत्रपरिगणितायैष्वनायानाद् योगविभागेनेष्टार्थसिद्धिरिति भावः॥ यदि तु भाष्यानुक्तत्वाद्वयोगविभागो नाङ्गीक्रियेत तर्हि 'अपपरिबहिरञ्चवः पञ्चम्या' इत्यनेन समासोऽङ्गीकार्यः । उभयदिग्वर्जितदेशस्यैवोभयमध्यत्वान्नाथसंगतिरित्यङ्गीकरणीयमिति सर्वमनवद्यम् ॥ 'अपदिशम्' इत्यादि- मान्तानां 'स्वरादिपाठादव्ययत्वम्' इति शेखरकृत् तु व्युत्पत्तिपक्षे मान्तत्वसाधनं प्रष्टव्यः इति दाधिमथाः ॥ २ समासपदस्य यथाश्रुतार्थपरत्वे बह्वनिष्टापत्तिः स्यात् । अतः 'तादर्थ्यात्ताच्छब्द्यम्' इति न्यायेन सूत्रे समासपदं समासार्थपरं सत् समासविधायकविधिपरमिति मनसि निधायाह-समासशास्त्रे इति ॥ 'अप्रधानमुपसर्जनम्' इति व्याकरणान्तरोक्तलक्षणस्याप्यत्रानुसरणेन 'समासशास्त्रे प्रथमानिर्दिष्टं यत् प्रति अप्रधानम् तत् प्रति उप- सर्जनसंज्ञं स्यात्' इत्यर्थाङ्गीकारेण 'राज्ञः कुमारीं श्रितः' इत्येवं विग्रहेपि न कुमारीपदस्य राजशब्दात् पूर्वनिपा- तापत्तिरिति भाष्ये स्पष्टम् ॥ ३ अत्रानुवृत्तं समासपदं समासार्थपरं सद् विग्रहपरमेवेत्याह-विग्रह इति । विग्रहशब्दार्थश्चाग्रे सर्वसमासशेषप्रकरणे द्रष्टव्यः ॥ नियतविभक्तीति ॥ परिनिष्ठितविभक्त्या समास एवेदं सार्थकमिति तत्रेदमैव ज्ञापकम् ॥ इयं चोपसर्जनसंज्ञा पूर्वनिपातभिन्ने कार्ये कर्तव्ये भवतीत्याह-नतु तस्य पूर्व- निपात इति ॥ अव्ययीभावप्रकरणे अस्या उपसर्जनसंज्ञाया एतत्फलस्य ह्रस्वस्य चोपन्यासो विश्वपाशब्दे 'दीर्घाज्जसि च' इत्यस्येव न्याय्यत्वादेव ॥ ह्रस्वादेशस्तु 'अव्ययीभावश्च' इति नपुंसकसंज्ञायां 'ह्रस्वो नपुंसके' इति सिद्ध एवेति बोध्यम् ॥ ४ उपसर्जनपदस्य विशेष्यत्वे गोपदस्य विशेषणत्वेन तत्र तदन्तविधौ 'गोन्तस्य स्त्रीप्रत्ययान्तान्तस्य चोपसर्जनस्य' इत्येवमर्थसंभवे 'पञ्चगो' 'रूपवद्भार्य्य' समुदायस्योपसर्जनत्वाभावेन ह्रस्वा- नुपपत्या पञ्चगुः रूपवद्भार्य इत्याद्यसिद्ध्यापत्तिः स्याद् । अत उपसर्जनपदस्य गोस्त्रीविशेषणत्वमाश्रित्याह- उपसर्जनं यो गोशब्द इत्यादि ॥ 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इत्यतोऽनुवर्त्याह-प्रातिपदिकस्ये- त्यादि ॥ ५ "सप्तम्या ऋद्धि-नदीसमास-संख्यावयवेभ्यो नित्यम्" इति वार्तिकविषये 'बहुलग्र- हणाल्लब्धप्रायमर्थो वर्णितः' इति कैयटोक्तिमनुसृत्याह-बहुलग्रहणादिति ॥ आदिना एकविंशतिभारद्वा- जमित्यादिसंग्रहः ॥ ६ अव्ययस्य विभक्त्यर्थवृत्तित्वं दर्शयति-सप्तम्यर्थस्यैवेति ॥ अयं भावः-यद- व्ययं यस्या विभक्तेरर्थस्य द्योतकम् तद्विभक्त्यन्तस्यैव तेनाव्ययेन समासः प्रत्यासत्त्याऽङ्गीकरणीय इति ॥
इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी ॥ अव्य- यीभावश्च ॥२।४।१८ ॥ अयं नपुंसकं स्यात् ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ गोपायतीति गाः पातीति वा गोपाः । तस्मिन्नित्यधिगोपम् । समीपे-कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु नाव्ययीभावः। "अभितः परितः", "अन्यारादिति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् ॥ मद्राणां समृद्धिः सुमद्रम् ॥ यवनानां व्यृद्धिर्दुर्यवनम् । विगता ऋद्धिर्व्युद्धिः ॥ मक्षिकाणामभावो निर्मक्षिकम् ॥ हिमस्यात्ययोऽतिहिमम्³ । अत्ययो ध्वंसः ॥ निद्रा संप्रति न युज्यत इत्यतिनिद्रम् ॥ हरिशब्दस्य प्रकाश इतिहरि ॥ विष्णोः पश्चाद्- नुविष्णु । पश्चाच्छब्दस्य तु नायं समासः, 'ततः पश्चात्संन्यस्ते ध्वंस्यते' इति भाष्यप्रयो- गात् ॥ योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपम् । रूपस्य योग्यमि- त्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् । प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामर्थ्या- त्तद्योगे द्वितीयागर्भं वाक्यमपि ॥ शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्य- माणेन सहस्य सः ॥ ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् ॥ चक्रेण युगपदिति विग्रहे—॥ अव्ययीभावे चाकाले ॥६।३।८१ ॥ सहस्य सः स्यादव्ययीभावे न तु काले ॥ सचक्रम् । काले तु सहपूर्वाह्णम् ॥ सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये
१ 'क्वचिन्निपातेनाऽप्यभिधानम्' इति प्रागुक्तमनुसृत्य जातायाः शङ्कायाः समाधानमाह-वचनसाम- र्थ्यादिति । विभक्तिरूपार्थकथनसामर्थ्यादित्यर्थः ॥ यदि अधिशब्देनाभिहितत्वादधिकरणे सप्तमी न स्यात्तदा- अधिरूपाव्ययार्थाधिकरणस्य विभक्त्यर्थत्वमेव न स्यादिति विभक्तौ समासविधानं व्यर्थमेव स्यादिति भावः ॥ २ द्वितीयापञ्चम्योर्विधानेति ॥ रक्षितस्योक्तिरियम् ॥ मध्यार्थकसमयाशब्दयोगे द्वितीयायाः दूरार्थका- राच्छब्दयोगे पञ्चम्या विधानस्य चारितार्थ्याच्चिन्त्यैवेयं रक्षितस्योक्तिरिति ध्येयम् ॥ समया-निकषा-आ- राच्चाधिकरणशक्तिप्रधाना इति समीपमात्रवाचित्वाभावान्नैतैः समास इति शेखरोक्तेरभिप्रायः 'उप स्यादधिकार्थे च हीनार्थासन्नयोरपि' 'समयाऽन्तिकमध्ययोः' 'आराद् दूरे समीपे च' इति मेदिनीदर्शनेनोपसमयानिकषारादर्थे विशेषाभावात् केन वर्णनीयः स्यादिति बोध्यम् ॥ निकषासाहचर्यान्मध्यार्थकसमयायोगे द्वितीयाया अप्रवृत्त्यङ्गी- कारस्यैव सर्वसंमतत्वात् ॥ ३ 'निर्हिमम्' इत्येव पाठः । न तु 'अतिहिमम्' इति, तथाप्रयोगेण हिमा- तिशयस्यैव प्रतीत्याऽत्येस्तदर्थत्वाभावात् ॥ ४ भाष्यप्रयोगादिति । 'अचः परस्मिन् ' इति सूत्रे-इत्या- दिशेषः । 'एतत्सूत्रे तत्तदर्थबोधकपदघटकतयोच्चारितस्य तत्तदर्थबोधकस्याव्ययस्य समासो न' इति ज्ञायते-इति उत्तरत्र शेषः ॥ ५ सामर्थ्यादिति । प्रतिस्थानमित्यत्र षत्वाप्राप्तये कर्मप्रवचनीयसंज्ञायाश्चरितार्थत्वात्सा- मर्थ्यवर्णनमकिंचित्करमेव । वीप्साया द्वित्वेन द्योतितत्वात् प्रतिशब्दस्य वीप्साद्योतकत्वाभावेन समासो न प्राप्नो- तीति तत्त्वम् ॥ ६ वक्ष्यमाणेनेति । 'अनुपदमेव' इत्यादिः ॥ 'अव्ययीभावे चाकाले' इत्यनेनेति भावः ॥ ७ आनुपूर्व्येणेति । एतस्मिन्नेवार्थे एतदर्थबोधकपदघटकतयोच्चारितस्याप्यनोः समासो भवति सूत्र एव तथा निर्देशात् । सादृश्यपदे तु समानशब्दस्यैव निर्देशः, न तु सहेत्यव्ययस्येति सादृश्यार्थकेन सहेत्यव्ययेन समासो भवत्येव ॥ ८ पूर्वाह्णमपरित्यज्येत्यर्थे साकल्येऽव्ययीभावे 'सहपूर्वाह्णम्' इति भवति ॥ ९ गुणभूतेऽपीति । यथार्थान्तर्गतसादृश्यशब्दे तु सदृशशब्दाद्भावे ष्यञ् । तथा च सदृशभावस्य सादृश्यस्य निर्देशात्तत्र समासः । सूत्रघटके सादृश्य इत्यत्र तु स्वार्थे ष्यञ् व्याख्यानादिति सादृश्यवति सदृशे समासे सदृशार्थस्यैव विशेष्यत्वेन प्राधान्यम्, सादृश्यस्य तत्र विशेषणत्वेन गुणभूतत्वमेवेति 'सखिनिरूपितसादृश्य- वान्' इति 'ससखि' इत्यतो बोधः । 'सहरि' इत्यतस्तु 'हरिनिरूपितं सादृश्यम्' इति बोधः ॥
( ११६ ) सिद्धांतकौमुद्याम्-
यथा स्यादित्येवमर्थम् ।। क्षत्राणां संपत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः । अनुरूप आत्मभावः संपत्तिरिति भेदः ।। तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । नत्वत्र तृणभक्षणे तात्प- र्यम् ।। अन्ते-अग्निग्रन्थपर्यन्तमधीते साग्नि ।। यथाऽसादृश्ये ।२।१।७ ।। असादृश्ये एव यथाशब्दः समस्यते ।। तेनेह न-यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन सादृश्य इति [ यथार्थ इति वा ] प्राप्तं निषिध्यते ।। यावदवधारणे ।२।१।८ ।। यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामा यावच्छ्लोकम् ।। सुप् प्रतिना मात्रार्थे ।२।१।९ ।। शाकस्य लेशः शाकप्रति ।। मात्रार्थे किम् ? वृक्षं वृक्षं प्रति विद्योतते विद्युत् ।। अक्षशलाकासंख्याः परिणा ।२।१।१० ।। द्यूतव्यवहारे पराजय एवायं समासः । अक्षेण विपरीतं वृत्तं अक्षपरि । शला- कापरि । एकपरि ।। विभाषा ।२।१।११। अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्य- समासत्वम् । सुप्सुपेति तु न नित्यसमासः । अव्ययमित्यादिसमासविधानाज्ज्ञापकात् ।। अपप- रिवहिरञ्चवः पञ्चम्या ।२।१।१२॥ अपविष्णु संसारः । अप विष्णोः । परिविष्णु । परि वि- ष्णोः । बहिर्वनम् । बहिर्वनात् । प्राग्वनम् । प्राग्वनात् ।। आङ् मर्यादाभिविध्योः ।२।१।१३॥ एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः ।। आमुक्ति संसारः । आ मुक्तेः । आबालं हरिभक्तिः । आ बालेभ्यः ।। लक्षणेनाभिप्रती आभिमुख्ये ।२।१।१४॥ आभिमुख्यद्योतका- वभिप्रती चिह्नवाचिना सह प्राग्वत् ।। अभ्यग्नि शलभाः पतन्ति । अभि अग्नि । प्रत्यग्नि । अग्निं प्रति ।। अनुर्यत्समया ।२।१।१५॥ यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययी-
१ अनुरूपः अनुगतो रूपं श्लोकं यशः अनुरूपो यथायशः आत्मनः प्रवृत्तिनिमित्तस्य भावः सत्ता अन्यूनत्वम् संपत्तिः ।। एवं च ' सक्षत्रम्' इत्यस्य क्षत्राणां यथाप्रसिद्धमेव क्षात्रमित्यर्थः ।। परमप्यृणीकर्तुं शक्तिः समृद्धिः । स्वस्यैवानृणीभावसामर्थ्यं संपत्तिरिति समृद्धसंपन्नयोर्भेदः ।। २ 'यथाशब्दः समर्थेन सुब- न्तेन समस्यते, न तु सादृश्ये द्योत्ये' इति प्रसज्यप्रतिषेधाङ्गीकारे सूत्रार्थः । 'यथाशक्ति' इत्याद्युदाहरणम् । अत्र पदार्थानतिवृत्तियाथार्थ्ये नैव समासः तदर्थं तत्सूत्रगृहीताव्ययेन समासाभावज्ञापनात् । असादृश्ये इत्यस्य पर्युदासत्वमाश्रित्याह-असादृश्य एवेति ।। असादृश्यपदप्रयोजनमाह-तेनेह नेति । अत्र प्राप्तिं भाष्यकथि- तामाह-सादृश्य इतीति ।। हरदत्तोक्तं पक्षान्तरं दर्शयति-यथार्थे इति वेति ।। ३ 'अक्षादयस्त
अव्ययीभावप्रकरणम् । (११७)
भावः ॥ अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ॥ यस्य चायामः । २ । १ । १६ ॥ यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी । गङ्गाया अनु । गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षितेत्यर्थः ॥ तिष्ठद्गुप्रभृतीनि च । २ । १ । १७ ॥ एतानि निपात्यन्ते । तिष्ठन्त्यो गावो यस्मिन्काले स तिष्ठद्गु दोहनकालः । आयतीगवम् । इहँ शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते ॥ पारे मध्ये षष्ठ्या वा । २ । १ । १८ ॥ पारमध्यशब्दौ षष्ठ्यन्तेन सह वा समस्येते ॥ एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गादानय । गङ्गापारात् । मध्येगङ्गात् । गङ्गामध्यात् ॥ महाँविभाषया वाक्यमपि—गङ्गायाः पारात् । गङ्गाया मध्यात् ॥ संख्या- वंश्येन । २ । १ । १९ ॥ वंशो द्विधा विद्यया जन्मना च । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते ॥ द्वौ मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि । विद्यातद्गतामभेदविवक्षायां त्रिमुनि व्याकरणम् ॥ एकैविंशतिभारद्वाजम् ॥ नदीभिश्च । २ । १ । २० ॥ नदीभिः सह संख्या प्राग्वत् ॥ समाहारे चायमिष्यते * ॥ सप्त गङ्गम् । द्वियमुनम् ॥ अन्यपदार्थे च संज्ञायाम्
१ एवमेव 'अन्वक्षं स्फाटिकं चाक्षुषमानम्' इत्यस्य 'अक्षिसमीपं स्फटिकनिर्मितं चाक्षुषस्य रूपस्य मानं दर्श- नोपकरणम् 'अस्ति' इत्यर्थः ॥ २ एवमेव 'अन्वक्षं स्फाटिकं दर्शनम्' इत्यस्य 'अक्षिदैर्घ्यसदृशदैर्घ्योपलक्षितं स्फटिकनिर्मितं दर्शनोपकरणम्' इत्यर्थः ॥ ३ तिष्ठद्गु, वहद्गु, आयतीगवम्, खलेयवम्, खलेबुसम्, लूनयवम्, लूयमानयवम्, पूतयवम्, पूयमानयवम्, संहृतयवम्, संह्रियमाणयवम्, संहृतबुसम्, संह्रियमाणबु- सम्, समभूमि, समपदाति, सुषमम्, विषमम्, दुःषमम्, निःषमम्, अपसम्, आयतीसमम्, पापसमम्, पुण्यसमम्, प्राह्णम्, प्रत्यह्नम्, प्रमृगम्, प्रदक्षिणम्, संप्रति, असंप्रति, इक्षु, । इति तिष्ठद्ग्वादिः ॥ ४ ' तिष्ठद्गु (प्रभृतीनि) कालविशेषे' 'खलेयवादीन्यपदार्थे' इति वार्तिकमनुसृत्य विग्रहं दर्शयति-तिष्ठन्त्य इत्यादि ॥ सूत्रे च एवकारार्थः । तेन तिष्ठद्गुप्रभृतीनि समासान्तरे घटकानि न स्युः । तेन परमं तिष्ठद्गु' इत्यत्र समासो न भवतीति बोध्यम् ॥ ५ आयती- गवे निपातनीयं दर्शयति-इहेति ॥ तिष्ठद्गुशब्दे तु पुंवद्भावो जात एवेति भावः ॥ ६ 'एकारान्तं निपातनं च' 'पारेमध्ये षष्ठ्या वा वचनम्' 'अवचने हि षष्ठीसमासाभावो यथैकदेशिप्रधाने' इति वार्तिके अनुसृत्य व्याचष्टे-एदन्तत्वं चेत्यादि ॥ ७ महाविभाषयेति । 'विभाषा' इत्यधिकारेणे- त्यर्थः ॥ ८ विद्यया जन्मना चेति । विद्यया वंशो वंशब्राह्मणादिषु स्पष्टः । जन्मना वंशस्त्वावालं प्रसिद्ध एवेति बोध्यम् ॥ त्रिमुनि व्याकरणस्येति । त्रयो मुनयो वंशा वंशप्रवर्तका इत्यर्थः । पाणिनि- कात्यायनपतञ्जलयः । उपलक्षणं व्याडेरपि इदं सर्वं 'त्रिमुनि व्याकरणस्य' इति प्रयोगोपपादनाय ॥ शेखर- कृता तु विद्यावंशे गुरुशिष्यपरम्पराया एव ग्राह्यत्वात् पाणिनिकात्यायनव्याडिपतञ्जलीनां गुरुशिष्यत्वे मानाभावः। 'व्याकरण त्रिमुनि' इति प्रयोगस्येष्टत्वे तिष्ठद्गुप्रभृतिषु पाठः कल्पनीयः । 'त्रिमुनि व्याकरणम्' इति तु बहुव्री- हिणा साधु इति सिद्धान्तितम् ॥ ९ जन्मवंशमुदाहरति-एकविंशतिभारद्वाजमिति ॥ भारद्वाजशब्द- स्योपकादिगणे पाठाल्लुग्भावः ॥ १० समाहारे चेति । समाहार एवेत्यर्थः । तेन समाहाराविवक्षायाम् 'एकनदीतर' इत्यत्र 'पूर्वकालैकसर्व' इति समानाधिकरणतत्पुरुषस्यैव जातत्वादव्ययीभावाभावेन दीर्घ एव श्रूयते । अव्ययीभावत्वे तु नपुंसकह्रस्वापत्तिः स्यादिति भावः ॥ ११ सूत्रे 'नदीभिः' इति बहुवचननिर्देशान्न- दीपर्दं न नदीसंज्ञकपरम् नापि शब्दस्वरूपपरम् ॥ किंतु तदर्थपरं सद् अर्थे कार्यासंभवात् तद्वाचकपरं भवति । तथा च तद्विशेषवाचकशब्दानामिव सामान्यवाचकशब्दस्यापि ग्रहणम् इति संख्यासंज्ञासूत्रे भाष्ये स्पष्टमिति ध्वनयन् विशेषवाचकमुदाहरति-सप्तगङ्गमिति ॥ सामान्यवाचकस्य तु पञ्चनदमिति उदाहरणं बोध्यम् ॥
( ११८ ) सिद्धान्तकौमुद्याम्- ।२।१।२१ ॥ अन्यपदार्थे [विद्यमानं] सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् ॥ विभा- षाधिकारेऽपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ॥ समासान्ताः ।५।४।६८ ॥ इत्यधिकृत्य ॥ अव्ययीभावे शरत्प्रभृतिभ्यः ।५।४।१०७ ॥ शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे ॥ शरदः समीपमुपशरदम् । प्रतिविपाशम् ॥ शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर । त्यद् । तद् । यद् । कियत् । जराया जरस् च ॥ उपजरसम् । प्रति- परसमनुभ्योऽक्ष्णः ॥ यस्येति च ॥ प्रत्यक्षम् । अक्षणः परमिति विग्रहे समासान्तविधानसा- मर्यादव्ययीभावः । परोक्षे लिडिति निपातनात्परस्यौकारादेशः । परोक्षम् । परोक्षा क्रियेत्यादि तु अर्शआद्यचि । समक्षम् । अन्वक्षम् ॥ अनश्व । ५।४।१०८ ॥ अनन्तादव्ययीभावाट्टच् स्यात्। नस्तद्धिते ।६।४।१४४ ॥ नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते ॥ उपराजम् । अध्यात्मम् । नपुंसकादन्यतरस्याम् ।५।४।१०९ ॥ अनन्तं यत्क्लीबं तदन्तादव्ययीभावाट्टच् वा स्यात् ॥ १ अन्यपदार्थे इति 'समस्यते' इत्यनेनान्वेति । तथा च 'अन्यपदार्थे समस्यते समस्तं संज्ञायां चेत्' इत्यर्थः । एवं च वृत्तौ दृश्यमानम् 'विद्यमानम्' इति पदमनन्वितत्वात्केनचिच्छिद्वरेण 'अनेकमन्यपदार्थे' इति सूत्रवृत्तौ दृष्टं वर्धितमिति व्यर्थमेवेति बोध्यम् ॥ इति केचित् ॥ 'अन्यपदार्थे विद्यमानं यथा स्यात् तथा समस्यते' इति क्रियाविशेषणतया योज्यमिति तु दाधिमथाः ॥ २ वाक्येन संज्ञानवगमादिति । वृत्त्यर्थावबोधकमेव विग्रहवाक्यं भवति । संज्ञा हि अनादिपरम्परयोच्चारितैव भवति यथा 'पङ्कज' इत्येककमलसंज्ञा न तु 'पङ्के जातम्' 'पङ्कजनिकर्तृ' इति । तथा अनादिपरम्परया 'लोहितगङ्ग' इत्येव श्रूयते न तु 'लोहिता गङ्गा यस्मिन्' इति वाक्यमिति वाक्येन शक्तिग्रहाभावाद्वाक्यं संज्ञावाचकं न भवतीत्येवार्थः । न तु 'वाक्यं नैव प्रयुज्यते' इति, 'संज्ञायाम्' इति सूत्रविधेयसमासस्य भाष्ये 'वाप्यामश्वो वाप्याश्वः' इति विग्रहप्रदर्शनात् । 'द्वितीयातृतीये' इति सूत्रभाष्ये 'लोहितगङ्गमव्ययीभावेन 'मुक्ते बहुव्रीहिर्न' इत्यत्र मुक्तपदोपादानेन अव्ययी- भावाभावस्यापि ध्वननाच्च ॥ ३ नित्यसमास इति । "एष ब्रह्मदत्तः इति अब्रह्मदत्तं 'ब्रह्मदत्तः' इत्याह । तेन गम्यते 'ब्रह्मदत्तवदयम्' इति" तत्र भाष्यदर्शितरीत्या 'नित्यसमासवत्' इत्येवार्थः ॥ ४ शरद्, विपाश्, अनस्, मनस्, उपानह्, अनडुह्, दिव्, हिमवत्, हिरुक्, विद्, सद्, दिश्, दृश्, विश्, चेतस्, चतुर्, त्यद्, तद्, यद्, कियत्, जराया जरस् च, प्रतिपरसमनुभ्योऽक्ष्णः, पथिन् । इति शरदादिः ॥ ५ 'अव्ययीभावे' इति पञ्चम्यर्थे सप्तमीति 'शरदाद्यन्तादव्ययीभावसमासयोग्याल्लौकिकप्रक्रियावाक्य- स्यान्तावयवष्टच्' इत्येव सूत्रार्थ इति 'उप सु शरद् ङस्' इत्यलौकिकप्रक्रियावाक्यस्यैवान्तावयवे टचि जाते 'उप सु शरद् ङस् टच्' इत्येवं जाते तद्धितान्तत्वात्प्रातिपदिकत्वेन सुपो लुकि 'उपशरद' इति जाते समासत्वात्तद्धितान्तत्वाद्वा जातां प्रातिपदिकसंज्ञामारित्य जातस्य सुपः 'नाव्ययीभावाद्' इत्यमादेशः इति प्रक्रियातत्त्वम् ॥ ६ अक्षणः परमिति विग्रहे समासान्तविधानसामर्थ्यादिति । परशब्दस्या- व्ययत्वाभावेन समासाप्राप्तौ समासान्तविधानमसङ्गतं सत् समासं विशेषापेक्षया ज्ञापयति इति भावः ॥ इदं च परशब्दपाठं यथाश्रुतमकारान्तमनुसृत्य ॥ वस्तुतस्तु 'परि' इत्येव पाठः स्वल्पप्रमादेनैव तथापाठस्य संभवात् । तथा च 'अपपरिबहिरञ्चवः पञ्चम्या' इत्यनेन समासः सिद्ध एवेति लाघवम् ॥ परेर्वर्जनार्थस्या- संभवाभावात् ॥ 'परोक्षे' इति निर्देशेनौकारनिपातनस्य ज्ञाप्यसमासपाठसत्त्वे परशब्दाकारस्येव सिद्धसमास पाठसत्त्वे परिशब्दे इकारस्यैवेत्युभयत्र समत्वात् 'परो भावः परस्याक्षे परोक्ष लिटि दृश्यताम् । उत्वं वादेः परादक्षणः सिद्धं वास्मान्निपातनात् ॥' इत्येतेषु तृतीयोपायेन मदर्शितपाठस्यापि ध्वनना- दिति मात्सर्यमुत्सार्य विचार्यमाचार्यवर्यैः ॥ ७ इत्यादीत्यादिना 'अन्वक्षं स्फाटिकम्' इत्यस्यापि संग्रहः ॥
उपचर्मम् । उपचर्म ॥ नदीपौर्णमास्याग्रहायणीभ्यः ।५।४।११० ॥ [ वा ] टच् स्यात् ॥ उपनदम् । [ उपनदि ] उपपौर्णमासम् । [ उपपौर्णमासि ] उपाग्रहायणम् । [ उपाग्रहायणि ] ॥ झयः । ५। ४ । १११ ॥ झयन्तादव्ययीभावाट्टज्वा ॥ उपसमिधम् । उपसमित् ॥ गिरेश्च सेनकस्य ।५।४।११२ ॥ गिर्यन्तादव्ययीभावाट्टज्वा स्यात् ॥ सेनकग्रहणं पूजार्थम् । उपगि- रम् । उपगिरि ॥ इत्यव्ययीभावप्रकरणम् । अथ तत्पुरुषप्रकरणम् । तत्पुरुषः ।२।१।२२ ॥ अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥ द्विगुश्च ।२।१।२३ ॥ द्विगुरपि तत्पुरुषसंज्ञः स्यात् ॥ इदं३ सूत्रं त्यक्तुं शक्यम् ॥ संख्यापूर्वो द्विगुरिति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम्– पञ्चराजन् ॥ द्विती- या श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः । २ । १ । २४ ॥ द्वितीयान्तं श्रितादिप्रकृ- तिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः ॥ कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुः- खातीतः ॥ गम्यादीनामुपसंख्यानम् * ॥ ग्रामं गमी ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ॥ स्वयं क्तेन । २ । १ । २५ ॥ द्वितीयेति न संबध्यते, अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः ॥ खट्वा क्षेपे । २।१।२६ ॥ खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन १ ‘आचार्यप्रवृत्तिर्ज्ञापयति- ‘न तद्विशेषेभ्यो भवति’ इति । यदयं विपाट् शब्दं शरत्प्रभृतिषु पठति’ इति संख्यासंज्ञासूत्रभाष्यप्रामाण्येन ध्वनिते ‘नदीपौर्णमास्याग्रहायणीभ्यः’ इति सूत्रस्य ‘अनश्च’ इत्यतः प्राक् पाठेन नित्यसमासान्तविधायकत्वे ‘उपनदि’ इत्यादिसमासान्तविर- हितप्रयोगलेखनं काशिकानुसरणेनैवेति तत्त्वम् ॥ २ शरदादिगणे झयन्तपाठो नित्यार्थ एवेति ॥ ३ ‘आकडाराद्’ इत्येकसंज्ञाधिकाराद् द्विगुसंज्ञायास्तत्पुरुषसंज्ञाबाधकत्वे ‘पञ्चराजम्’ इत्यादौ तत्पुरुषत्वप्रयुक्त- ष्ट्रज् न स्यादत उभयोः समावेशार्थं कृतं ‘द्विगुश्च’ इति सकलसूत्रं व्यर्थम् ‘संख्यापूर्वो द्विगुः’ इति सूत्रे चकारकरणेनैव तत्पुरुषसंज्ञया द्विगुसंज्ञाया समावेशस्य सिद्धेरित्यभिपायेणाह–इदं सूत्रं त्यक्तुं शक्यमिति ॥ ४ सुबुपात्तद्वितीयायाः प्रत्ययत्वेन ‘प्रत्ययग्रहणे तदन्तग्रहणम्’ इति तदन्तविधिम्, ‘सुपा’ इत्येतद्विशे- षणश्रितादीनां सुप्त्वाभावात् सुबन्तत्वाभावाच्चानन्वयापत्तिवारणाय स्वप्रकृतिकपरत्वं चाङ्गीकृत्य व्याचष्टे- द्वितीयान्तमित्यादि । ‘श्रितादीनां निष्ठान्तत्वात्तद्योगेऽनुक्ते कर्मणि’ ‘न लोका’ इति षष्ठी- निषेधाद् द्वितीयेवेति भावः ॥ ५ भाष्ये यद्यपि ‘गमिगाम्यादीनामुपसंख्यानम्’ इति पाठो दृश्यते ‘गमेरिनिः’ इत्यौणादिकस्य ‘आवश्यकाधमर्ण्ययोर्णिनिः’ इत्यनौणादिकस्योपादानमुभयविधाना- मन्येषां च प्रत्ययानां परिग्रहार्थम् इति प्रदीपपदमञ्जर्यौ । ‘उभयोरप्युणादिप्रत्ययान्तत्वेन कथम् ‘उभयो- पादानेन ‘अन्येषां च’ इत्यर्थलाभ इति चिन्त्यम् ॥’ इति नागेशोक्तिस्तु ‘आवश्यकाधमर्ण्ययोः’ इत्य- स्याप्यौणादिकत्वमभिप्रेत्य ॥ तथाप्यादिशब्दस्य प्रकारार्थत्वेनाभीष्टसंग्रहे सिद्ध उभयोपादानं स्पष्टार्थमित्या- शयेनाह-गम्यादीनामिति ॥ ६ ग्राममिति । ‘अकेनोर्भविष्यदाधमर्ण्ययोः’ इति षष्ठीनिषेधे द्विती- यान्तम् ॥ अन्नमिति । ‘न लोका’ इति षष्ठीनिषेधे द्वितीयान्तम् ॥ ७ समासमन्तरापि स्वयमित्यस्याव्ययत्वेन विभक्तिलुकि सिद्धे समासविधानस्यान्यत्फलमाह-स्वायंकृतिरिति । समासेन स्वयंकृतशब्दयोरेकपदत्वे जाते एव स्वयंकृतसमुदायस्य तद्धितनिरूपिताङ्गत्वं संभवति नान्यथेति समुदायस्य आदेर्वृद्धिर्भवतीति भावः ॥
( १२० ) सिद्धान्तकौमुद्याम्- समस्यते निन्दायाम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ॥ सामि ।२।१।२७ ॥ ३ सामिकृतम् ॥ कालाः । २।१।२८ ॥ क्तेनेत्येव । अनत्यन्तसंयोगार्थ वचनम् । ४ मासं प्रमितः मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमारब्धवानित्यर्थः ॥ अत्य- न्तसंयोगे च । २।१।२९ ॥ काला इत्येव ॥ अक्तान्तार्थं वचनम् । ५ मुहूर्तं सुखं मुहूर्त- सुखम् ॥ तृतीया तत्कृतार्थेन गुणवचनेन । २ । १ । ३० ॥ ६ तत्कृतेति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् ॥ शङ्कुलया खण्डः शङ्कुला- खण्डः । धान्येनार्थो धान्यार्थः ॥ तत्कृतेति किम् ? अक्ष्णा काणः ॥ पूर्वसदृशसमोनार्थक- लहनिपुणमिश्रश्लक्ष्णै
पञ्चम्याः स्तोकादिभ्य'
( १२२ ) सिद्धान्तकौमुद्याम्- प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् * ॥ सर्पिषो ज्ञानम् ॥ पूरणगुणसु- हितार्थसदव्ययतव्यसमानाधिकरण २।२।११ ॥ पूरणार्थैः सदादिभिश्च षष्ठी न समस्यते ॥ पूरणे—सतां षष्ठः ॥ गुणे—काकस्य कार्ष्ण्यम् ॥ [ ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेदमुदाहरणम् ॥ ] अनित्योऽयं गुणेन निषेधः । ‘तदशिष्यं संज्ञाप्रमाणत्वादित्यादिनिर्देशात् । तेनाथगौरवं बुद्धिमान्द्यमित्यादि सिद्धम् ॥ सुहि- तार्थास्तृप्त्यर्थाः—फलानां सुहितः । तृतीयासमासस्तु स्यादेव । स्वरे विशेषः ॥ सत्,—द्विजस्य कुर्वन् कुर्वाणो वा । किंकर इत्यर्थः ॥ अव्ययम्—ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृद- व्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धमिति रक्षितः ॥ तव्यः—ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् । स्वरे भेदः ॥ समानाधिकरणेन—तक्षकस्य सर्पस्य । विशे- षणसमासस्त्विह बहुलग्रहणान्न । गोर्धेनोरित्यादिषु पोटायुवतीत्यादीनां विभक्त्यन्तरे चरिता- र्थानां परत्वाद्राधकः षष्ठीसमासः प्राप्तः, सोऽप्यनेन वार्यते ॥ क्तेन च पूजायाम् ।२।२।१२॥ मतिबुद्धीति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते ॥ राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥ अधिकरणवाचिना च ।२।२। १३ ॥ क्तेन षष्ठी न समस्यते ॥ इदमेषामासितं गतं भुक्तं वा ॥ कर्मणि च । २।२।१४ ॥ उभयप्राप्तौ कर्मणीति या षष्ठी सा न समस्यते ॥ आश्चर्यो गवां दोहोऽगोपेन ॥ तृजकाभ्यां कर्तरि ।२।२।१५ ॥ कर्त्रर्थतृजकाभ्यां षष्ठया न समासः ॥ अपां स्रष्टा । वज्रस्य भर्ता । १ प्रतिपदेति ॥ 'सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणां वर्जयित्वा । ‘कर्तृकर्मणोः कृति’ इति तु या षष्ठी सा कृद्योगा' इति भाष्योक्तलक्षणे 'शेषमात्रलक्षणां 'षष्ठी शेषे' इति विहिताम्' इत्येवार्थः ॥ धातुकारकविशेषयोः साक्षाद् उपादानेन ‘ज्ञोऽविदर्थस्य करणे' इति प्रकरणविहितेत्यर्थः ॥ २ 'योऽसौ पूरणान्तात् स्वार्थे भागेऽन् सोऽपि पूरणमेव' इति ‘द्वितीयतृतीय' इति सूत्रे भाष्यम् ॥ 'पादपूरणम्' इति निर्देशेन पूरणार्थेन समासनिषेधस्यानित्यत्वज्ञापनात् 'कुम्भपूरणभवः' इति 'तान्युञ्छ- षष्ठाङ्कित' इति च सिध्यत्येवेति बोध्यम् ॥ ३ गुणार्थशब्देन केवलगुणवाची सन् यो गुणोपसर्जनद्रव्यवाची स शुक्लादिः, गुणिबोधकप्रकृतिकभावप्रत्ययान्तश्च गृह्यते इत्यभिप्रेत्योदाहरति-काकस्येत्यादि ॥ 'एतदेव खल्वपि तस्मिन्योग उदाहरणम्' इति 'षष्ठी' इति सूत्रे भाष्ये 'एतदेव' इत्यवधारणादिदमेव मुख्य- मुदाहरणम् ॥ ४ 'भवति वै कस्यचिदर्थात्प्रकरणाद्वाऽपेक्यं निर्ज्ञातं तदा वृत्तिः प्राप्नोति' इत्येकदेशिनः प्रौढिभाष्यमेवात्र मानम् ॥ ५ स्वरे विशेष इति ॥ 'तृतीया कर्मणि' इति पूर्वपदप्रकृ- तिस्वरे सत्याद्युदात्त इष्टः । षष्ठीसमासे त्वन्तोदात्तः स्यादिति भावः ॥ ६ स्वरे भेद इति । 'गतिका रकोपपदात् कृत्' इति कृदुत्तरपदप्रकृतिस्वरेण तित्स्वरस्यैवावस्थानाद् अन्तस्वरित इष्टः । तव्येन समासे तु तस्य 'आयुदात्तश्च' इत्याद्युदात्तत्वात् कृदुत्तरपदप्रकृतिस्वरेणोत्तरपदस्य मध्योदात्तत्वं स्यादिति भावः ॥ ७ 'पूजायाम्' इति पूजापदघटितसूत्रोपलक्षणमित्यभिप्रेत्याह-मतिबुद्धीति ॥ ८ कर्मणि च ॥ अत्र- चकार इत्यर्थः सन् सूत्रघटकपदानुकरणत्वं बोधयन् 'उभयप्राप्तौ कर्मणि' इति तत्पदघटितं सूत्रं स्मारयतीति मनसि निधाय-'उभयप्राप्तौ कर्मणीति विहितेति' ॥ अत एव 'शब्दानुशासन' पदे आर्चायैस्व कर्तुरुपादानाभावेन 'उभयप्राप्तौ-' इति नियमस्याप्रवृत्त्या 'कर्तृकर्मणोः कृति' इत्यनेनैव कर्मणि षष्ठया अपि- नानेन समासनिषेध इति भावः ॥
तत्पुरुषप्रकरणम् । ( १२३ ) पत्यर्थभर्तृशब्दस्य तु याजकादित्वात्समासः–भूर्भर्ता। कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः'इति। शेषषष्ठ्या समास इति कैयटः ॥ ओदनस्य पाचकः ॥ कर्तरि किम् ? इक्षूणां भक्षणमिक्षुभक्षिका॥ कर्तरि च ।२।२।१६॥कर्तरि षष्ठ्या अकेन न समासः॥भवतः शायिका। नेह-तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेनं कर्तृषष्ठ्या अभावात् ॥ नित्यं क्रीडाजीविकयोः ।२।२।१७ ॥ एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते ॥ उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । संज्ञायामिति भावे ण्वुल् । जीविकायाम्–दन्तलेखकः । तत्र क्रीडायां विकल्पे, जीवि- कायां तृजकाभ्यां कर्त्तरीति निषेधे प्राप्ते, वचनम् ॥ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे । २।२।१ ॥ अर्द्धयविना सह पूर्वाद्यः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी ॥ षष्ठीसमासाप- वादः । पूर्वं कायस्य पूर्वकायः । अपरकायः ॥ एकदेशिना किम्? पूर्वं नाभेः कायस्य ॥ एकाधिकरणे किम् ? पूर्वश्छात्राणाम् ॥ सर्वोऽप्येकदेशोऽह्ना समस्यते । संख्याविसायेति ज्ञाप- कात् । मध्याह्नः । सायाह्नः ॥ केचित्तु सर्वोऽप्येकदेशः कालेनं समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः । उपारताः पश्चिमरात्रगोचरा इत्यादि सिद्धमित्याहुः ॥ अर्धं नपुंसकम् ।२।२।२ ॥ समांशवाच्यर्धशब्दो नित्यं क्लीवे । स प्राग्वत् ॥ एकविभक्ताव- षष्ठ्यन्तवचनम् *॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन पञ्चखट्वी त्यादि सिध्यति । अर्धं पिप्पल्याः अर्धपिप्पली । क्लीवे किम् ? ग्रामार्धः ॥ द्वैव्यैक्य एव । अर्धं पिप्प- लीनाम् ॥ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ।२।२।३ ॥ एतान्येकदेशिना सह प्राग्वद्वा ॥ द्वितीयं भिक्षाया द्वितीयभिक्षा ॥ एकदेशिना किम् ? द्वितीयं भिक्षाया भिक्षुकस्य
१ कैयट इति । 'जनिकर्तुः' 'तत्प्रयोजकः' इति निर्देशाभ्यामस्य निषेधस्यानित्यत्वज्ञापनादित्यन्ये ॥ २ इक्षुभक्षिकेति । 'पर्यायार्हर्णोत्पत्तिषु' इति भावे ण्वुच् ॥ ३ शायिकेति । 'पर्यायार्हर्णोत्पत्तिषु' इति भावे ण्वुच् ॥ ४ एकदेशावयवशब्दौ पर्यायभूतावेवेत्याह-अवयविनेति । अधिकरणशब्दस्य द्रव्यवाचित्वाद् 'एकद्रव्ये'इत्यस्य 'एकत्वसंख्यायुते द्रव्ये 'अवयवनि' इत्यर्थःफलितमाह-एकत्वसंख्येति ॥ ५ पूर्वं नाभेरिति नाभेरिति दिग्योगलक्षणा पञ्चमीति नाभिः पूर्वंस्तस्यावधिरेव नावयविनीति नाभिशब्देन पूर्वशब्दस्य समासो न भवति । कायशब्देन तु भवत्येव नाभेः पूर्वकायः प्रतीति भावः ॥ ६ सायमध्यशब्दयोः सूत्रेऽनुपादानात् कथं 'मध्याह्नः सायाह्नः' इति प्रयोग इत्यत आह-सर्वोऽप्येकदेश इति । सायशब्दस्य समासविधेरनुपल- म्भात्सायपूर्वस्याह्नशब्दस्यासंभवाद् व्यर्थं सद् सायग्रहणं सर्वस्यैकदेशस्याह्ना समासज्ञापकं भवतीति भावः ॥ ७ एवमपि मध्यरात्रशब्दस्यासिद्धिरत आह-कालेनेति ॥ अह्नशब्देनाहन्शब्दविषयकज्ञापने विशेषपरनायां मध्यरात्रादिशब्दानामनेकाप्रयुक्तानामसाधुतापत्तिः स्याद्, अतः सामान्यापेक्षज्ञापकत्वै स्वीकार्येति सकलेष्टसि- द्धिरिति भावः ॥ ८ अर्धपिप्पलीत्यत्र पिप्पलीशब्दस्य विग्रहे नियतविभक्तित्वाद् उपसर्जनत्वेन 'गोस्त्रि- योरुपसर्जन' इति ह्रस्वपत्तिं वारयितुम् उपसर्जनसंज्ञायाः प्रतिषेधवार्तिकमाह-एकविभक्ताविति । विग्रहै षष्ठ्या नियतत्वेपि तदन्तस्य नोपसर्जनसंज्ञेति न पिप्पलीशब्दस्य ह्रस्वापत्तिरिति भावः ॥ ९ षष्ठ्यन्तस्योप- सर्जनसंज्ञाविरहे 'वावन्तः" इति वार्तिकोदाहरणत्वेन भाष्यकृता प्रयुक्ते 'पञ्चखट्वी' इत्यत्र 'पञ्चानां खट्वानां समाहारः' इति विग्रहे खट्वाशब्दस्य नियत षष्ठ्यन्तत्वाद् उपसर्जनत्वमिष्टं न सिध्यति । तथा चोपसर्जनह्रस्वा- भावेऽत्वाभावाद् 'द्विगोः' इति ङीबनुपपत्तिः स्यात् अत आह-एकदेशिसमासेति ॥ १० 'एकाधिकरणे' इत्यनुवृत्तेरिति भावः ॥
अन्यतरस्यांग्रहणसामर्थ्यात्पूरणगुणेति निषेधं बाधित्वा पक्षे षष्ठीसमासः—भिक्षाद्वितीयम् ॥ प्राप्तापन्ने च द्वितीया ।२।२।४ ॥ पक्षे द्वितीया श्रितेति समासः । प्राप्तो जीविकां प्राप्तजी- विकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः ॥ इह सूत्रे द्वितीया अ इति छित्त्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्नजीविका ॥ कालाः परिमाणिना ।२।२।५ ॥ परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते ॥ मासो जातस्य यस्य स मासजातः । द्व्यहजातः । द्वयोरह्नोः समाहारो द्व्यहः । द्व्यहो जातस्य यस्य स इति विग्रहः ॥ उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्या- नम् * ॥ द्वे अहनी जातस्य यस्य स द्व्यहजातः । 'अह्नोऽह्न' इति वक्ष्यमाणोऽह्नादेशः ॥ पूर्वत्र तु 'न संख्यादेः समाहारे' इति निषेधः ॥ सप्तमी शौण्डैः ।२।१।४० ॥ सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा ॥ अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । अध्युत्तरपदादिति खः । ईश्वराधीनः ॥ सिद्धशुष्कपक्वबन्धैश्च ।२।१।४१ ॥ एतैः सप्तम्यन्तं प्राग्वत् ॥ सांकाश्र्धसिद्धः । आतपशुष्कः । स्थालीपक्वः । चक्रबन्धः ॥ ध्वाङ्क्षेण क्षेपे ।२।१।४२ ॥ ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् ॥ तीर्थध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थ- काकः [इत्यर्थः] ॥ कृत्यैर्ऋणे ।२।१।४३ ॥ ऋणग्रहणं नियोगोपलक्षणार्थम् ॥ सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयं ऋणम् ॥ पूर्वाह्णेगेयं साम ॥संज्ञायाम् ।२।१।४४॥
१ 'अन्यतरस्याम्-ग्रहणं किमर्थम्' इत्याक्षेपस्य 'इदं तर्हि प्रयोजनम् एकदेशिस- मासेन मुक्ते षष्ठीसमासो यथा स्यात्—भिक्षाद्वितीयमिति' इति प्रयोजनग्रन्थस्य 'क्रिय- माणेऽपि वै अन्यतरस्यांग्रहणे षष्ठीसमासो न प्राप्नोति 'पूरणेनेति प्रतिषेधात्' इति बाधके वादिना कथिते 'एवं तर्ह्यन्तरस्यांग्रहणसामर्थ्यात्षष्ठीसमासो भविष्यति' इति सिद्धान्तितं भाष्यकृता' इति तदेवाह—अन्यतरस्यामित्यादि ॥ २ 'प्राप्तापन्ने द्वितीयान्तेन समस्येते अत्वं च भवति प्राप्तापन्नयोः' इति भाष्यदर्शितान्वयेन 'प्राप्तापन्ने अ च द्वितीया' इत्येवं क्रमो निश्चीयते प्रगृह्यत्वप्रयुक्तप्रकृतिभावस्य नित्यग्रहणेन प्रायिकत्वबोधनात्सार्वत्रिकत्वनिश्चयेन दोषाभावेपि नित्यपदस्य सार्वत्रिकार्थत्वेपि 'अनानुपूर्व्येण संनिविष्टानामपि यथेष्टं संबन्धो भवति' इति 'न पदान्त' सूत्रभाष्येण 'पदानां विप्रकृष्टोच्चारणेपि शाब्दबोधीयक्रमेण विप्रकृष्टत्वज्ञाने दोषाभावं सूचयन् भिन्नक्रमसूच- क्रमपि पदविभागमङ्गीकरोति—इह सूत्रे द्वितीया अ इतीति ॥ ३ द्व्यहजात इत्यस्येति बोध्यम् ॥ ४ 'पूर्वत्र तु 'द्व्यहजातेः' इत्यत्र तु ॥ ५ शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर्, अधि, पटु, पण्डित, कुशल, चपल, निपुण, इति शौण्डादिः ॥ ६ 'बहुवचननिर्देशात् 'शौण्डा दिभिः' इति विज्ञास्यते' इति भाष्यमनुसृत्याह—शौण्डादिभिरिति ॥ ७ 'ध्वाङ्क्षेणेत्यर्थग्रहणम्' इति वार्तिकमनुसृत्याह—ध्वाङ्क्षवाचिनेति ॥ ८ 'इत्यर्थः' इति तु केनविद् विद्बद्वरेण वर्धितम् 'ध्वाङ्क्षेणेत्यर्थग्रहणम्' इत्यर्थग्रहणोदाहरणत्वेनैव भाष्यकृता प्रयुक्तत्वात् ॥ यद्वा 'वाचिना' इत्युक्तेः 'इत्यर्थः' इति प्रयोजनमिति बोधनायैव प्रयुक्तः ॥ ९ 'कृत्यैर्नियोगे यद् ग्रहणम्' इति वार्तिकस्य ऋणग्रहणप्रत्याख्यानाय 'इह यद् यस्य नियोगतः कार्यम् ऋणं तस्य तद् भवति तत्र ऋण' इत्येव सिद्धम्' इति भाष्येण ऋणशब्दस्यावश्यकोपलक्षणार्थत्वमित्याह—ऋणग्रहणमिति ॥ १० यत्प्रत्यय- नियमस्तु 'पूर्वाह्णे दातव्या भिक्षा' इत्यत्र समासवारणाय कर्तव्य एवेति भाष्ये स्पष्टमित्युदाहरति—मासे- देयमिति ॥
तत्पुरुषप्रकरणम् । ( १२६ ) सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् ॥ वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकासेरुकाः । हलदन्तात्सप्तम्यां इत्यलुक् ॥ क्तेनाहोरात्रावयवाः । २।१।४५ ॥ अह्नो रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् ॥ पूर्वाह्णकृतम् । अपररात्रकृतम् । अवय- वग्रहणं किम् ? अहि दृष्टम् ॥ तत्र । २।१।४६ ॥ तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् ॥ तत्रभुक्तम् ॥ क्षेपे । २।१।४७ ॥ सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् ॥ अवतप्तेन- कुलस्थितं त एतत् ॥ पात्रेसमितादयश्च । २।१।४८ ॥ एते निपात्यन्ते क्षेपे ॥ ॥ पात्रे- समिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न-परमाः पात्रेसमिताः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । २।१।४९ ॥ 'विशेषणं विशेष्ये- णेति सिद्धे पूर्वनिपातनियमार्थं सूत्रम् । एकशब्दस्य 'दिक्संख्ये संज्ञायामिति नियमबाधनार्थं च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः। जरन्नैयायिकाः। पुराण- मीमांसकाः। नवपाठकाः । केवलवैयाकरणाः ॥ दिक्संख्ये संज्ञायाम् । २।१।५०॥ समाना- धिकरणेनेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः ॥ नेह-उत्तरा वृक्षाः । पञ्च ब्राह्मणाः॥ तद्धितार्थोत्तरपदसमाहारे च । २।१।५१॥ 'तद्धितार्थे विषये, उत्तरपदे च परतः, समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा ॥ पूर्वस्यां शालायां भवः । समासे कृते 'दिक्पूर्वपदादसंज्ञायां ञः' इति ञः॥ सर्वनाम्नोँ वृत्तिमात्रे पुंवद्भावः * ॥ पौर्वशालः । आपरशालः ॥ पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शालाशब्दे आकार उदात्तः । पूर्वशालाप्रियः ॥ दिक्षु समाहारो नास्त्य- नभिधानात् ॥ संख्यायास्तद्धितार्थे-षण्णां मातृणामपत्यं षाण्मातुरः ॥ पञ्च गावो धनं यस्येति १ 'यथा अवतप्ते नकुला न चिरं स्थातारो भवन्ति एवं कार्याण्यारभ्य यो न चिरं तिष्ठति स उच्यते-'अवतप्तेनकुलस्थितं त एतद्' इति' इति प्रकृतसूत्रे भाष्यम् ॥ २ पात्रेसमिताः, पात्रेबहुलाः, उदुम्बरकृमिः, कूपकच्छपः, अवटकच्छपः, उदुम्बरमशकः, कूपमण्डूकः, कुम्भमण्डूकः, उदपा- नमण्डूकः, नगरकाकः, नगरवायसः, मातरिपुरुषः, पिण्डीशूरः, पितरिशूरः, गेहेशूरः, गेहेनर्दी, गेहेविजिती, गेहेव्याडः, गेहेमेही, गेहेदाही, गेहेदृप्तः, गेहेधृष्टः, गर्भेतृप्तः, आखनिकबकः, गोष्ठेशूरः, गोष्ठेविजिती, गोष्ठे- क्ष्वेडी, गोष्ठेपटुः गोष्ठेपण्डितः, गोष्ठेप्रगल्भः, कर्णेतिरितिरा, कर्णेचुरचुरा । इति पात्रेसमितादिराकृतिगणः ॥ ३ पूर्वकालवृत्तिः नियतापेक्षत्वात् परकालवृत्तिना समस्यते इति सूत्रार्थः ॥ तथा चानुलेपापेक्षया स्नानस्य पूर्व- कालवृत्तित्वात्स्नानशब्दः प्रथमानिर्दिष्टत्वेनोपसर्जनत्वात् पूर्वं निपततीति भावः ॥ ४ 'पूर्वेषुकामशमी' इति कस्याश्चित् पुर्या नाम । एवं 'सप्तर्षि' इत्यपि 'मरीच्यत्रिवसिष्ठादिसप्तर्षिगणे रूढम् ।' तथैव नवग्रहा इत्यपि ॥ ५ 'उत्तरवृक्ष' 'पञ्चब्राह्मण' पदयोः कुत्रापि रूढ्यभावात्संज्ञात्वं न ॥ ६ 'दिङ्नामान्यन्तराले' 'दक्षि- णोत्तराभ्यामतसुच्' इति सूत्रयोर्भाष्यकृता पठितेष्टिरियम् ॥ अत्र विशेषस्तु बहुव्रीहौ वक्ष्यते ॥ ७ पूर्व- शालेति समासस्य संज्ञात्वेपि तद्धितान्तपौर्वशालस्य न संज्ञात्वमिति भावः ॥ ८ पूर्वयोः पूर्वाशब्दशाला- शब्दयोः ॥ ९ आकार उदात्त इति ॥ 'पूर्वशाला' इत्यस्य तत्पुरुषत्वे 'समासस्य' इत्यन्तोदात्तत्वं भवति । अन्यथा बहुव्रीहिप्रयुक्तपूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्युदात्तत्वं स्यादिति भावः ॥
( १२६ ) सिद्धान्तकौमुद्याम्-
त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते ॥ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासव- चनम् * ॥ गोरतद्धितलुकि ।५।४।९२ ॥ गोन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥ संख्यापूर्वी द्विगुः ।२।१।५२ ॥ तद्धितार्थेत्यत्रोक्तः संख्यापूर्वो द्विगुः स्यात् ॥ द्विगोरेकवचनम् ।२।४।१ ॥ द्विग्वर्थः समाहार एकवत्स्यात् ॥ स नपुंसक- मिति नपुंसकत्वम् । पञ्चानां गवां समाहारः पञ्चगवम् ॥ कुत्सितानि कुत्सनैः ।२।१।५३॥ कुत्स्यमानानि कुत्सनैः सह प्राग्वत् ॥ वैयाकरणखसूचिः । मीमांसकदुर्दुरूढः ॥ पापाणके कुत्सितैः ।२।१।५४॥ पूर्वसूत्रोपवादः । पापनापितः । अणककुलालः ॥ उपमानानि सामा- न्यवचनैः । २।१।५५ ॥ घनं इव श्यामो घनश्यामः । इहपूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशन्दः प्रयुज्यते । पूर्वनिपातनियमार्थं सूत्रम् ॥ उपमितं व्या- घ्रादिभिः सामान्याप्रयोगे ।२।१।५६ ॥ उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्या- प्रयोगे सति ॥ विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः ॥ सामान्याप्रयोगे किम् ? पुरुषो व्याघ्र इव शूरः ॥ विशेषणं विशेष्येण बहुलम् ।२।१।५७॥ भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् ॥ नीलमुत्पलं नीलोत्पलम् ॥ बहुलग्रहणात्क्वचिन्नित्यम्- -कृष्णसर्पः ॥ क्वचिन्न-रामो जामदग्न्यः ॥ पूर्वापरप्रथमचरमजघन्यसमानमध्यम- मध्यमावराश्च ।२।१।५८॥ पूर्वनिपातनियमार्थमिदम् ॥ पूर्ववैयाकरणः । अपराध्यापकः॥ अप- रस्यार्धे पश्चभावो वक्तव्यः*॥ अपरश्चासावर्धश्च पश्चार्धः ॥ कथमेकवीर इति । 'पूर्वकालिकेति
१ विकल्पे प्राप्ते इति । 'विभाषा' इत्यधिकारेणेति भावः ॥ २ नित्यसमासेति । 'समुदायवृत्ताव वयवानां मा कदाचिद् वृत्तिर्भूत' इति वार्तिकस्यास्य प्रयोजनं भाष्यकृत्तोक्तम् ॥ ३ 'अनन्तरस्य विधिर्वा प्रतिषेधो वा' इति न्यायमनुसृत्याह-तद्धितार्थेत्यादि ॥ तेन 'दिक्संख्ये संज्ञायाम्' इत्येतत्समासविषये 'सप्तर्षि' शब्दे द्विगुत्वाभावाद् 'इगन्तकालकपालभगशरावेषु द्विगो' इति स्वरो न भवतीति भावः ॥ ४ 'समाहारग्रहणं च तद्धितार्थप्रतिषेधार्थम्' इति वार्तिकमनुसृत्याह-समाहार इति ॥ ५ पूर्वसूत्रे 'कुत्सितानि' इति प्रथमानिर्दिष्टत्वात् कुत्सितानां नापितादीनां पूर्वनिपाते 'पापनापितः' इत्य- भीष्टरूपानुपपत्तिः स्यादिति भावः ॥ ६ येन वस्त्वन्तरं स्ववृत्तिधर्मवत्त्वेन परिच्छिद्यते तद् उपमानम् । यथा मुखम् स्वनिष्ठाह्लादकत्वादिधर्मवत्त्वेन चन्द्रेण परिच्छिद्यत इति चन्द्र उपमानम् । यद् अन्यनिष्ठधर्मवत्त्वेन परिच्छिद्यते तद् उपमेयम् । यथा मुखम् । उपमानोपमेयसाधारणधर्मविशिष्टोपमेयवचनत्वं सामान्यवच- नत्वम् । यथा आह्लादकत्वादि ॥ ७ घन उपमानम् । श्रीकृष्ण उपमेयः । श्यामत्वस्योभयसाधारणधर्म- त्वात्सामान्यवचनत्वम् । ८ लाक्षणिकमिति ॥ अत एव एकार्थवाचकत्वरूपसामानाधिकरण्यस्योपपत्त्या 'समानाधिकरणेन' इत्यधिकारस्य न बाधः । अन्यथा मृगीव चपला मृगचपला इत्यादौ मृगीपदार्थचपलापदार्थ- योर्भेदे सामानाधिकरण्यानुपपत्त्या पुंवद्भावो न स्यादिति भावः ॥ ९ पूर्वनिपातेति ॥ घनपदसदृशपरत्वे श्यामशब्दस्य श्यामवर्णवत्परत्वे 'विशेषणमिति समासे खञ्जकुब्जादिवत् पूर्वनिपाते विनिगमनाविरहेण पूर्वनि- पातानियमे प्राप्ते पूर्वनिपातनियमार्थं सूत्रमिति 'उपमानानि' इति प्रथमानिर्देशेनोपमानवाचाकानामेव पूर्वनि- पातनिर्णय इति भावः ॥ १० व्याघ्र, सिंह, ऋक्ष, ऋषभ, चन्दन, वृक, वृष, वराह, हस्तिन्, तरु, पृषत्, पुण्डरीक, पलाश, कितव । इति व्याघ्रादिराकृतिगणः । तेन नृसोमः, मुखपद्मम्, मुखकमलम्, करकि- सलयम्, पार्थिवचन्द्र इत्यादि सिद्धम् ॥ ११ एतत्सूत्राभावे उपमेयस्य विशेष्यत्वाद् व्याघ्रादेः सदृशलाक्षणिकस्य विशेषणत्वाद् विशेषणस्यैव पूर्वनिपातापत्तिः स्यादत उपमेयस्य पूर्वनिपातनियमार्थमिदं सूत्रमिति भावः ॥