वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 175, कुल 835 में से
संदर्भ में पढ़ेंअन्यतरस्यांग्रहणसामर्थ्यात्पूरणगुणेति निषेधं बाधित्वा पक्षे षष्ठीसमासः—भिक्षाद्वितीयम् ॥ प्राप्तापन्ने च द्वितीया ।२।२।४ ॥ पक्षे द्वितीया श्रितेति समासः । प्राप्तो जीविकां प्राप्तजी- विकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः ॥ इह सूत्रे द्वितीया अ इति छित्त्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्नजीविका ॥ कालाः परिमाणिना ।२।२।५ ॥ परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते ॥ मासो जातस्य यस्य स मासजातः । द्व्यहजातः । द्वयोरह्नोः समाहारो द्व्यहः । द्व्यहो जातस्य यस्य स इति विग्रहः ॥ उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्या- नम् * ॥ द्वे अहनी जातस्य यस्य स द्व्यहजातः । 'अह्नोऽह्न' इति वक्ष्यमाणोऽह्नादेशः ॥ पूर्वत्र तु 'न संख्यादेः समाहारे' इति निषेधः ॥ सप्तमी शौण्डैः ।२।१।४० ॥ सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा ॥ अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । अध्युत्तरपदादिति खः । ईश्वराधीनः ॥ सिद्धशुष्कपक्वबन्धैश्च ।२।१।४१ ॥ एतैः सप्तम्यन्तं प्राग्वत् ॥ सांकाश्र्धसिद्धः । आतपशुष्कः । स्थालीपक्वः । चक्रबन्धः ॥ ध्वाङ्क्षेण क्षेपे ।२।१।४२ ॥ ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् ॥ तीर्थध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थ- काकः [इत्यर्थः] ॥ कृत्यैर्ऋणे ।२।१।४३ ॥ ऋणग्रहणं नियोगोपलक्षणार्थम् ॥ सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयं ऋणम् ॥ पूर्वाह्णेगेयं साम ॥संज्ञायाम् ।२।१।४४॥
१ 'अन्यतरस्याम्-ग्रहणं किमर्थम्' इत्याक्षेपस्य 'इदं तर्हि प्रयोजनम् एकदेशिस- मासेन मुक्ते षष्ठीसमासो यथा स्यात्—भिक्षाद्वितीयमिति' इति प्रयोजनग्रन्थस्य 'क्रिय- माणेऽपि वै अन्यतरस्यांग्रहणे षष्ठीसमासो न प्राप्नोति 'पूरणेनेति प्रतिषेधात्' इति बाधके वादिना कथिते 'एवं तर्ह्यन्तरस्यांग्रहणसामर्थ्यात्षष्ठीसमासो भविष्यति' इति सिद्धान्तितं भाष्यकृता' इति तदेवाह—अन्यतरस्यामित्यादि ॥ २ 'प्राप्तापन्ने द्वितीयान्तेन समस्येते अत्वं च भवति प्राप्तापन्नयोः' इति भाष्यदर्शितान्वयेन 'प्राप्तापन्ने अ च द्वितीया' इत्येवं क्रमो निश्चीयते प्रगृह्यत्वप्रयुक्तप्रकृतिभावस्य नित्यग्रहणेन प्रायिकत्वबोधनात्सार्वत्रिकत्वनिश्चयेन दोषाभावेपि नित्यपदस्य सार्वत्रिकार्थत्वेपि 'अनानुपूर्व्येण संनिविष्टानामपि यथेष्टं संबन्धो भवति' इति 'न पदान्त' सूत्रभाष्येण 'पदानां विप्रकृष्टोच्चारणेपि शाब्दबोधीयक्रमेण विप्रकृष्टत्वज्ञाने दोषाभावं सूचयन् भिन्नक्रमसूच- क्रमपि पदविभागमङ्गीकरोति—इह सूत्रे द्वितीया अ इतीति ॥ ३ द्व्यहजात इत्यस्येति बोध्यम् ॥ ४ 'पूर्वत्र तु 'द्व्यहजातेः' इत्यत्र तु ॥ ५ शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर्, अधि, पटु, पण्डित, कुशल, चपल, निपुण, इति शौण्डादिः ॥ ६ 'बहुवचननिर्देशात् 'शौण्डा दिभिः' इति विज्ञास्यते' इति भाष्यमनुसृत्याह—शौण्डादिभिरिति ॥ ७ 'ध्वाङ्क्षेणेत्यर्थग्रहणम्' इति वार्तिकमनुसृत्याह—ध्वाङ्क्षवाचिनेति ॥ ८ 'इत्यर्थः' इति तु केनविद् विद्बद्वरेण वर्धितम् 'ध्वाङ्क्षेणेत्यर्थग्रहणम्' इत्यर्थग्रहणोदाहरणत्वेनैव भाष्यकृता प्रयुक्तत्वात् ॥ यद्वा 'वाचिना' इत्युक्तेः 'इत्यर्थः' इति प्रयोजनमिति बोधनायैव प्रयुक्तः ॥ ९ 'कृत्यैर्नियोगे यद् ग्रहणम्' इति वार्तिकस्य ऋणग्रहणप्रत्याख्यानाय 'इह यद् यस्य नियोगतः कार्यम् ऋणं तस्य तद् भवति तत्र ऋण' इत्येव सिद्धम्' इति भाष्येण ऋणशब्दस्यावश्यकोपलक्षणार्थत्वमित्याह—ऋणग्रहणमिति ॥ १० यत्प्रत्यय- नियमस्तु 'पूर्वाह्णे दातव्या भिक्षा' इत्यत्र समासवारणाय कर्तव्य एवेति भाष्ये स्पष्टमित्युदाहरति—मासे- देयमिति ॥