भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 174, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 174

तत्पुरुषप्रकरणम् । ( १२३ ) पत्यर्थभर्तृशब्दस्य तु याजकादित्वात्समासः–भूर्भर्ता। कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः'इति। शेषषष्ठ्या समास इति कैयटः ॥ ओदनस्य पाचकः ॥ कर्तरि किम् ? इक्षूणां भक्षणमिक्षुभक्षिका॥ कर्तरि च ।२।२।१६॥कर्तरि षष्ठ्या अकेन न समासः॥भवतः शायिका। नेह-तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेनं कर्तृषष्ठ्या अभावात् ॥ नित्यं क्रीडाजीविकयोः ।२।२।१७ ॥ एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते ॥ उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । संज्ञायामिति भावे ण्वुल् । जीविकायाम्–दन्तलेखकः । तत्र क्रीडायां विकल्पे, जीवि- कायां तृजकाभ्यां कर्त्तरीति निषेधे प्राप्ते, वचनम् ॥ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे । २।२।१ ॥ अर्द्धयविना सह पूर्वाद्यः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी ॥ षष्ठीसमासाप- वादः । पूर्वं कायस्य पूर्वकायः । अपरकायः ॥ एकदेशिना किम्? पूर्वं नाभेः कायस्य ॥ एकाधिकरणे किम् ? पूर्वश्छात्राणाम् ॥ सर्वोऽप्येकदेशोऽह्ना समस्यते । संख्याविसायेति ज्ञाप- कात् । मध्याह्नः । सायाह्नः ॥ केचित्तु सर्वोऽप्येकदेशः कालेनं समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः । उपारताः पश्चिमरात्रगोचरा इत्यादि सिद्धमित्याहुः ॥ अर्धं नपुंसकम् ।२।२।२ ॥ समांशवाच्यर्धशब्दो नित्यं क्लीवे । स प्राग्वत् ॥ एकविभक्ताव- षष्ठ्यन्तवचनम् *॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन पञ्चखट्वी त्यादि सिध्यति । अर्धं पिप्पल्याः अर्धपिप्पली । क्लीवे किम् ? ग्रामार्धः ॥ द्वैव्यैक्य एव । अर्धं पिप्प- लीनाम् ॥ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ।२।२।३ ॥ एतान्येकदेशिना सह प्राग्वद्वा ॥ द्वितीयं भिक्षाया द्वितीयभिक्षा ॥ एकदेशिना किम् ? द्वितीयं भिक्षाया भिक्षुकस्य


१ कैयट इति । 'जनिकर्तुः' 'तत्प्रयोजकः' इति निर्देशाभ्यामस्य निषेधस्यानित्यत्वज्ञापनादित्यन्ये ॥ २ इक्षुभक्षिकेति । 'पर्यायार्हर्णोत्पत्तिषु' इति भावे ण्वुच् ॥ ३ शायिकेति । 'पर्यायार्हर्णोत्पत्तिषु' इति भावे ण्वुच् ॥ ४ एकदेशावयवशब्दौ पर्यायभूतावेवेत्याह-अवयविनेति । अधिकरणशब्दस्य द्रव्यवाचित्वाद् 'एकद्रव्ये'इत्यस्य 'एकत्वसंख्यायुते द्रव्ये 'अवयवनि' इत्यर्थःफलितमाह-एकत्वसंख्येति ॥ ५ पूर्वं नाभेरिति नाभेरिति दिग्योगलक्षणा पञ्चमीति नाभिः पूर्वंस्तस्यावधिरेव नावयविनीति नाभिशब्देन पूर्वशब्दस्य समासो न भवति । कायशब्देन तु भवत्येव नाभेः पूर्वकायः प्रतीति भावः ॥ ६ सायमध्यशब्दयोः सूत्रेऽनुपादानात् कथं 'मध्याह्नः सायाह्नः' इति प्रयोग इत्यत आह-सर्वोऽप्येकदेश इति । सायशब्दस्य समासविधेरनुपल- म्भात्सायपूर्वस्याह्नशब्दस्यासंभवाद् व्यर्थं सद् सायग्रहणं सर्वस्यैकदेशस्याह्ना समासज्ञापकं भवतीति भावः ॥ ७ एवमपि मध्यरात्रशब्दस्यासिद्धिरत आह-कालेनेति ॥ अह्नशब्देनाहन्शब्दविषयकज्ञापने विशेषपरनायां मध्यरात्रादिशब्दानामनेकाप्रयुक्तानामसाधुतापत्तिः स्याद्, अतः सामान्यापेक्षज्ञापकत्वै स्वीकार्येति सकलेष्टसि- द्धिरिति भावः ॥ ८ अर्धपिप्पलीत्यत्र पिप्पलीशब्दस्य विग्रहे नियतविभक्तित्वाद् उपसर्जनत्वेन 'गोस्त्रि- योरुपसर्जन' इति ह्रस्वपत्तिं वारयितुम् उपसर्जनसंज्ञायाः प्रतिषेधवार्तिकमाह-एकविभक्ताविति । विग्रहै षष्ठ्या नियतत्वेपि तदन्तस्य नोपसर्जनसंज्ञेति न पिप्पलीशब्दस्य ह्रस्वापत्तिरिति भावः ॥ ९ षष्ठ्यन्तस्योप- सर्जनसंज्ञाविरहे 'वावन्तः" इति वार्तिकोदाहरणत्वेन भाष्यकृता प्रयुक्ते 'पञ्चखट्वी' इत्यत्र 'पञ्चानां खट्वानां समाहारः' इति विग्रहे खट्वाशब्दस्य नियत षष्ठ्यन्तत्वाद् उपसर्जनत्वमिष्टं न सिध्यति । तथा चोपसर्जनह्रस्वा- भावेऽत्वाभावाद् 'द्विगोः' इति ङीबनुपपत्तिः स्यात् अत आह-एकदेशिसमासेति ॥ १० 'एकाधिकरणे' इत्यनुवृत्तेरिति भावः ॥