वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 173, कुल 835 में से
संदर्भ में पढ़ें( १२२ ) सिद्धान्तकौमुद्याम्- प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् * ॥ सर्पिषो ज्ञानम् ॥ पूरणगुणसु- हितार्थसदव्ययतव्यसमानाधिकरण २।२।११ ॥ पूरणार्थैः सदादिभिश्च षष्ठी न समस्यते ॥ पूरणे—सतां षष्ठः ॥ गुणे—काकस्य कार्ष्ण्यम् ॥ [ ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेदमुदाहरणम् ॥ ] अनित्योऽयं गुणेन निषेधः । ‘तदशिष्यं संज्ञाप्रमाणत्वादित्यादिनिर्देशात् । तेनाथगौरवं बुद्धिमान्द्यमित्यादि सिद्धम् ॥ सुहि- तार्थास्तृप्त्यर्थाः—फलानां सुहितः । तृतीयासमासस्तु स्यादेव । स्वरे विशेषः ॥ सत्,—द्विजस्य कुर्वन् कुर्वाणो वा । किंकर इत्यर्थः ॥ अव्ययम्—ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृद- व्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धमिति रक्षितः ॥ तव्यः—ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् । स्वरे भेदः ॥ समानाधिकरणेन—तक्षकस्य सर्पस्य । विशे- षणसमासस्त्विह बहुलग्रहणान्न । गोर्धेनोरित्यादिषु पोटायुवतीत्यादीनां विभक्त्यन्तरे चरिता- र्थानां परत्वाद्राधकः षष्ठीसमासः प्राप्तः, सोऽप्यनेन वार्यते ॥ क्तेन च पूजायाम् ।२।२।१२॥ मतिबुद्धीति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते ॥ राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥ अधिकरणवाचिना च ।२।२। १३ ॥ क्तेन षष्ठी न समस्यते ॥ इदमेषामासितं गतं भुक्तं वा ॥ कर्मणि च । २।२।१४ ॥ उभयप्राप्तौ कर्मणीति या षष्ठी सा न समस्यते ॥ आश्चर्यो गवां दोहोऽगोपेन ॥ तृजकाभ्यां कर्तरि ।२।२।१५ ॥ कर्त्रर्थतृजकाभ्यां षष्ठया न समासः ॥ अपां स्रष्टा । वज्रस्य भर्ता । १ प्रतिपदेति ॥ 'सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणां वर्जयित्वा । ‘कर्तृकर्मणोः कृति’ इति तु या षष्ठी सा कृद्योगा' इति भाष्योक्तलक्षणे 'शेषमात्रलक्षणां 'षष्ठी शेषे' इति विहिताम्' इत्येवार्थः ॥ धातुकारकविशेषयोः साक्षाद् उपादानेन ‘ज्ञोऽविदर्थस्य करणे' इति प्रकरणविहितेत्यर्थः ॥ २ 'योऽसौ पूरणान्तात् स्वार्थे भागेऽन् सोऽपि पूरणमेव' इति ‘द्वितीयतृतीय' इति सूत्रे भाष्यम् ॥ 'पादपूरणम्' इति निर्देशेन पूरणार्थेन समासनिषेधस्यानित्यत्वज्ञापनात् 'कुम्भपूरणभवः' इति 'तान्युञ्छ- षष्ठाङ्कित' इति च सिध्यत्येवेति बोध्यम् ॥ ३ गुणार्थशब्देन केवलगुणवाची सन् यो गुणोपसर्जनद्रव्यवाची स शुक्लादिः, गुणिबोधकप्रकृतिकभावप्रत्ययान्तश्च गृह्यते इत्यभिप्रेत्योदाहरति-काकस्येत्यादि ॥ 'एतदेव खल्वपि तस्मिन्योग उदाहरणम्' इति 'षष्ठी' इति सूत्रे भाष्ये 'एतदेव' इत्यवधारणादिदमेव मुख्य- मुदाहरणम् ॥ ४ 'भवति वै कस्यचिदर्थात्प्रकरणाद्वाऽपेक्यं निर्ज्ञातं तदा वृत्तिः प्राप्नोति' इत्येकदेशिनः प्रौढिभाष्यमेवात्र मानम् ॥ ५ स्वरे विशेष इति ॥ 'तृतीया कर्मणि' इति पूर्वपदप्रकृ- तिस्वरे सत्याद्युदात्त इष्टः । षष्ठीसमासे त्वन्तोदात्तः स्यादिति भावः ॥ ६ स्वरे भेद इति । 'गतिका रकोपपदात् कृत्' इति कृदुत्तरपदप्रकृतिस्वरेण तित्स्वरस्यैवावस्थानाद् अन्तस्वरित इष्टः । तव्येन समासे तु तस्य 'आयुदात्तश्च' इत्याद्युदात्तत्वात् कृदुत्तरपदप्रकृतिस्वरेणोत्तरपदस्य मध्योदात्तत्वं स्यादिति भावः ॥ ७ 'पूजायाम्' इति पूजापदघटितसूत्रोपलक्षणमित्यभिप्रेत्याह-मतिबुद्धीति ॥ ८ कर्मणि च ॥ अत्र- चकार इत्यर्थः सन् सूत्रघटकपदानुकरणत्वं बोधयन् 'उभयप्राप्तौ कर्मणि' इति तत्पदघटितं सूत्रं स्मारयतीति मनसि निधाय-'उभयप्राप्तौ कर्मणीति विहितेति' ॥ अत एव 'शब्दानुशासन' पदे आर्चायैस्व कर्तुरुपादानाभावेन 'उभयप्राप्तौ-' इति नियमस्याप्रवृत्त्या 'कर्तृकर्मणोः कृति' इत्यनेनैव कर्मणि षष्ठया अपि- नानेन समासनिषेध इति भावः ॥