वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 176, कुल 835 में से
संदर्भ में पढ़ेंतत्पुरुषप्रकरणम् । ( १२६ ) सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् ॥ वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकासेरुकाः । हलदन्तात्सप्तम्यां इत्यलुक् ॥ क्तेनाहोरात्रावयवाः । २।१।४५ ॥ अह्नो रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् ॥ पूर्वाह्णकृतम् । अपररात्रकृतम् । अवय- वग्रहणं किम् ? अहि दृष्टम् ॥ तत्र । २।१।४६ ॥ तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् ॥ तत्रभुक्तम् ॥ क्षेपे । २।१।४७ ॥ सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् ॥ अवतप्तेन- कुलस्थितं त एतत् ॥ पात्रेसमितादयश्च । २।१।४८ ॥ एते निपात्यन्ते क्षेपे ॥ ॥ पात्रे- समिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न-परमाः पात्रेसमिताः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । २।१।४९ ॥ 'विशेषणं विशेष्ये- णेति सिद्धे पूर्वनिपातनियमार्थं सूत्रम् । एकशब्दस्य 'दिक्संख्ये संज्ञायामिति नियमबाधनार्थं च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः। जरन्नैयायिकाः। पुराण- मीमांसकाः। नवपाठकाः । केवलवैयाकरणाः ॥ दिक्संख्ये संज्ञायाम् । २।१।५०॥ समाना- धिकरणेनेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः ॥ नेह-उत्तरा वृक्षाः । पञ्च ब्राह्मणाः॥ तद्धितार्थोत्तरपदसमाहारे च । २।१।५१॥ 'तद्धितार्थे विषये, उत्तरपदे च परतः, समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा ॥ पूर्वस्यां शालायां भवः । समासे कृते 'दिक्पूर्वपदादसंज्ञायां ञः' इति ञः॥ सर्वनाम्नोँ वृत्तिमात्रे पुंवद्भावः * ॥ पौर्वशालः । आपरशालः ॥ पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शालाशब्दे आकार उदात्तः । पूर्वशालाप्रियः ॥ दिक्षु समाहारो नास्त्य- नभिधानात् ॥ संख्यायास्तद्धितार्थे-षण्णां मातृणामपत्यं षाण्मातुरः ॥ पञ्च गावो धनं यस्येति १ 'यथा अवतप्ते नकुला न चिरं स्थातारो भवन्ति एवं कार्याण्यारभ्य यो न चिरं तिष्ठति स उच्यते-'अवतप्तेनकुलस्थितं त एतद्' इति' इति प्रकृतसूत्रे भाष्यम् ॥ २ पात्रेसमिताः, पात्रेबहुलाः, उदुम्बरकृमिः, कूपकच्छपः, अवटकच्छपः, उदुम्बरमशकः, कूपमण्डूकः, कुम्भमण्डूकः, उदपा- नमण्डूकः, नगरकाकः, नगरवायसः, मातरिपुरुषः, पिण्डीशूरः, पितरिशूरः, गेहेशूरः, गेहेनर्दी, गेहेविजिती, गेहेव्याडः, गेहेमेही, गेहेदाही, गेहेदृप्तः, गेहेधृष्टः, गर्भेतृप्तः, आखनिकबकः, गोष्ठेशूरः, गोष्ठेविजिती, गोष्ठे- क्ष्वेडी, गोष्ठेपटुः गोष्ठेपण्डितः, गोष्ठेप्रगल्भः, कर्णेतिरितिरा, कर्णेचुरचुरा । इति पात्रेसमितादिराकृतिगणः ॥ ३ पूर्वकालवृत्तिः नियतापेक्षत्वात् परकालवृत्तिना समस्यते इति सूत्रार्थः ॥ तथा चानुलेपापेक्षया स्नानस्य पूर्व- कालवृत्तित्वात्स्नानशब्दः प्रथमानिर्दिष्टत्वेनोपसर्जनत्वात् पूर्वं निपततीति भावः ॥ ४ 'पूर्वेषुकामशमी' इति कस्याश्चित् पुर्या नाम । एवं 'सप्तर्षि' इत्यपि 'मरीच्यत्रिवसिष्ठादिसप्तर्षिगणे रूढम् ।' तथैव नवग्रहा इत्यपि ॥ ५ 'उत्तरवृक्ष' 'पञ्चब्राह्मण' पदयोः कुत्रापि रूढ्यभावात्संज्ञात्वं न ॥ ६ 'दिङ्नामान्यन्तराले' 'दक्षि- णोत्तराभ्यामतसुच्' इति सूत्रयोर्भाष्यकृता पठितेष्टिरियम् ॥ अत्र विशेषस्तु बहुव्रीहौ वक्ष्यते ॥ ७ पूर्व- शालेति समासस्य संज्ञात्वेपि तद्धितान्तपौर्वशालस्य न संज्ञात्वमिति भावः ॥ ८ पूर्वयोः पूर्वाशब्दशाला- शब्दयोः ॥ ९ आकार उदात्त इति ॥ 'पूर्वशाला' इत्यस्य तत्पुरुषत्वे 'समासस्य' इत्यन्तोदात्तत्वं भवति । अन्यथा बहुव्रीहिप्रयुक्तपूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्युदात्तत्वं स्यादिति भावः ॥