वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 177, कुल 835 में से
संदर्भ में पढ़ें( १२६ ) सिद्धान्तकौमुद्याम्-
त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते ॥ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासव- चनम् * ॥ गोरतद्धितलुकि ।५।४।९२ ॥ गोन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥ संख्यापूर्वी द्विगुः ।२।१।५२ ॥ तद्धितार्थेत्यत्रोक्तः संख्यापूर्वो द्विगुः स्यात् ॥ द्विगोरेकवचनम् ।२।४।१ ॥ द्विग्वर्थः समाहार एकवत्स्यात् ॥ स नपुंसक- मिति नपुंसकत्वम् । पञ्चानां गवां समाहारः पञ्चगवम् ॥ कुत्सितानि कुत्सनैः ।२।१।५३॥ कुत्स्यमानानि कुत्सनैः सह प्राग्वत् ॥ वैयाकरणखसूचिः । मीमांसकदुर्दुरूढः ॥ पापाणके कुत्सितैः ।२।१।५४॥ पूर्वसूत्रोपवादः । पापनापितः । अणककुलालः ॥ उपमानानि सामा- न्यवचनैः । २।१।५५ ॥ घनं इव श्यामो घनश्यामः । इहपूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशन्दः प्रयुज्यते । पूर्वनिपातनियमार्थं सूत्रम् ॥ उपमितं व्या- घ्रादिभिः सामान्याप्रयोगे ।२।१।५६ ॥ उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्या- प्रयोगे सति ॥ विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः ॥ सामान्याप्रयोगे किम् ? पुरुषो व्याघ्र इव शूरः ॥ विशेषणं विशेष्येण बहुलम् ।२।१।५७॥ भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् ॥ नीलमुत्पलं नीलोत्पलम् ॥ बहुलग्रहणात्क्वचिन्नित्यम्- -कृष्णसर्पः ॥ क्वचिन्न-रामो जामदग्न्यः ॥ पूर्वापरप्रथमचरमजघन्यसमानमध्यम- मध्यमावराश्च ।२।१।५८॥ पूर्वनिपातनियमार्थमिदम् ॥ पूर्ववैयाकरणः । अपराध्यापकः॥ अप- रस्यार्धे पश्चभावो वक्तव्यः*॥ अपरश्चासावर्धश्च पश्चार्धः ॥ कथमेकवीर इति । 'पूर्वकालिकेति
१ विकल्पे प्राप्ते इति । 'विभाषा' इत्यधिकारेणेति भावः ॥ २ नित्यसमासेति । 'समुदायवृत्ताव वयवानां मा कदाचिद् वृत्तिर्भूत' इति वार्तिकस्यास्य प्रयोजनं भाष्यकृत्तोक्तम् ॥ ३ 'अनन्तरस्य विधिर्वा प्रतिषेधो वा' इति न्यायमनुसृत्याह-तद्धितार्थेत्यादि ॥ तेन 'दिक्संख्ये संज्ञायाम्' इत्येतत्समासविषये 'सप्तर्षि' शब्दे द्विगुत्वाभावाद् 'इगन्तकालकपालभगशरावेषु द्विगो' इति स्वरो न भवतीति भावः ॥ ४ 'समाहारग्रहणं च तद्धितार्थप्रतिषेधार्थम्' इति वार्तिकमनुसृत्याह-समाहार इति ॥ ५ पूर्वसूत्रे 'कुत्सितानि' इति प्रथमानिर्दिष्टत्वात् कुत्सितानां नापितादीनां पूर्वनिपाते 'पापनापितः' इत्य- भीष्टरूपानुपपत्तिः स्यादिति भावः ॥ ६ येन वस्त्वन्तरं स्ववृत्तिधर्मवत्त्वेन परिच्छिद्यते तद् उपमानम् । यथा मुखम् स्वनिष्ठाह्लादकत्वादिधर्मवत्त्वेन चन्द्रेण परिच्छिद्यत इति चन्द्र उपमानम् । यद् अन्यनिष्ठधर्मवत्त्वेन परिच्छिद्यते तद् उपमेयम् । यथा मुखम् । उपमानोपमेयसाधारणधर्मविशिष्टोपमेयवचनत्वं सामान्यवच- नत्वम् । यथा आह्लादकत्वादि ॥ ७ घन उपमानम् । श्रीकृष्ण उपमेयः । श्यामत्वस्योभयसाधारणधर्म- त्वात्सामान्यवचनत्वम् । ८ लाक्षणिकमिति ॥ अत एव एकार्थवाचकत्वरूपसामानाधिकरण्यस्योपपत्त्या 'समानाधिकरणेन' इत्यधिकारस्य न बाधः । अन्यथा मृगीव चपला मृगचपला इत्यादौ मृगीपदार्थचपलापदार्थ- योर्भेदे सामानाधिकरण्यानुपपत्त्या पुंवद्भावो न स्यादिति भावः ॥ ९ पूर्वनिपातेति ॥ घनपदसदृशपरत्वे श्यामशब्दस्य श्यामवर्णवत्परत्वे 'विशेषणमिति समासे खञ्जकुब्जादिवत् पूर्वनिपाते विनिगमनाविरहेण पूर्वनि- पातानियमे प्राप्ते पूर्वनिपातनियमार्थं सूत्रमिति 'उपमानानि' इति प्रथमानिर्देशेनोपमानवाचाकानामेव पूर्वनि- पातनिर्णय इति भावः ॥ १० व्याघ्र, सिंह, ऋक्ष, ऋषभ, चन्दन, वृक, वृष, वराह, हस्तिन्, तरु, पृषत्, पुण्डरीक, पलाश, कितव । इति व्याघ्रादिराकृतिगणः । तेन नृसोमः, मुखपद्मम्, मुखकमलम्, करकि- सलयम्, पार्थिवचन्द्र इत्यादि सिद्धम् ॥ ११ एतत्सूत्राभावे उपमेयस्य विशेष्यत्वाद् व्याघ्रादेः सदृशलाक्षणिकस्य विशेषणत्वाद् विशेषणस्यैव पूर्वनिपातापत्तिः स्यादत उपमेयस्य पूर्वनिपातनियमार्थमिदं सूत्रमिति भावः ॥