वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 164, कुल 835 में से
संदर्भ में पढ़ेंप्राक्कडारात्समासः ।२।१।३ ॥ कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते ॥ सह सुपा । २।१।४ ॥ सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते ॥ योगविभाग- स्येष्टसिद्धयर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्य- चलत् ॥ सुपा । २।१।४ ॥ सुप्सुपा सह समस्यते ॥ समासत्वात्प्रातिपदिकत्वम् ॥ सुपो धातुप्रातिपदिकयोः । २।४।७१ ॥ एतयोरवयवस्य सुपो लुक् स्यात् ॥ भूतपूर्वे चरडिति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः ॥ इवेन समासो विभक्त्यलोपश्च * ॥ जीमूतस्येव ॥ अव्ययीभावः । २।१।५ ॥ अधिकारोऽयम् ॥ अव्ययं विभक्तिसमीपस- म्मृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूूर्व्ययौगपद्यसादृश्यसंपत्ति- -त्यादि